१३५ पशमोऽध्यायः । अस्यार्थः - या तत्रैव तत्सन्निधावुपरि भूसम्बन्ध स्फुटाकारा मूलफुप्रदेश प्रखायुगलसङ्गता अङ्गुलद्वयं गत्वा पुनः शाखाइयोप लक्षिता भागद्वये, सा मिश्राख्या । सापि सततं दुःखमाचरेत् । आस्त्रय तीत्यर्थः । आलस्यमपि । सातत्यं तत्राप्यनुषज्यते । आलस्यं नामाङ्गलेशः न शरीरभेदः । नच दुःखमात्रं, व्यतिरेकेणापि दर्शनादिति ॥ २ ॥ भूमध्यात् फालसन्धौ या प्रतिष्ठां लभते गता । भूमध्या सापि गदिता नीरोगत्वं प्रचारयेत् ॥ ३ ॥ या पुनर्जुमध्याद्द्रता फाळसन्घौ प्रतिष्ठां लभते गमनपरिसमार्सि गच्छति, सा भूमध्येति गदिता । नीरोगत्वं निर्गतरोगभावं, प्रचारयेत् । प्रवर्तयतीत्यर्थः । स्वाश्रयं पुरुषं तथाविधं सूचयतीति यावत् । अत्र पुं ध्यशब्देन दक्षिणाया ध्रुवो मयैप्रदेश उच्यते, न ध्रुवोर्मध्यं न वामध्यं च । सव्येतराधिशब्देन दक्षिणस्य चक्षुषस्तत्सम्बन्धाया भुवभ उलि साविध्यादित्यलर ।। ३ ॥ तदुपान्तगतां रेख लक्षयति तत्रैव या स्फुटाकारा रेखा गच्छति युग्मथुः । पुमाख्या सततं नीरोगत्वं प्रचारयेत् ॥ सापि ४ ॥ या तत्रैव भूमध्य एव, स्फुटाकारा स्फुटप्रकटस्टैप्रदेश गच्छति । अत्र तस्मादेव भूमध्यादियथं योज्यः । युग्मयुक्, शाखायुग्मयगित्यर्यः, शाखाद्वयोपचूंहिता, भागद्वयोपलक्षितेति यावत् , या युग्माख्या । युग्मा ल्येति नाम संशब्दिता। सततं नीरोगत्वं प्रचारयेत् । सुगमम् । अत्रैतद् द्रष्टव्यम् । दक्षिणभूमध्यादुद्गच्छन्ती काचन रेखा कचित् पुरुषविशेषे रौक्ष्यते । स क इति चेद् योगिपक्षगत इति ब्रूमः । तेषामेव नीरोगत्वस्य सा द्यातत्येन दर्शना(त् । उ)पलक्ष(क)ीजं किमिति चेच्छृणु । यस्य । विद्यते रेखा, स पुरुषो योगाभ्यासनिजस्वभावो मध्ये मध्ये तर्जन्या यया कयापि भङ्गथा दक्षिणभूमध्यं स्पृशति । ततः स्पनेन डिजेन दैवसिद्धेन तां रेखां लक्षयेत् विजानीयात् । नचान्यत्र कचित् पुरुषविशेषविषये इय पाठः १. ध्यदे'. ख. ३. पाठः ः 'चर्य' घ. . ३- '५' उ. घ, ठ:,
पृष्ठम्:स्कान्दशारीरकः.pdf/१६३
दिखावट