सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ सम्याज्ये स्कान्दशारीरके मिति भूमः । यत्र संज्ञयैव फललाभस्तासां रेखाणां फलानि न योज्यान्यु- तानि । ततोऽपि यदि न परिपूर्तिस्तर्हि यत्र संज्ञया फलानि प्रतीयन्ते तानि क्रमेणोक्तफळयोजने कृते यत्र फलासिद्धिः तत्र योजनीयानि । तत्र वि- शेषोऽपि । अनुक्तफलासु रेखासु फलानां योजनस्यावश्यकर्तव्यत्वं विशेषः। तस्मात् तत्र योजनीयानि । इति शिवम् ॥ १६९ ॥ इति स्कान्दशारीरके प्रतिनियतावगतरेखा लक्षणं नाम चतुर्थोऽध्यायः ॥ अथ पञ्चमोऽध्यायः । एवं तावत् पूर्वोकानां संज्ञानामुपजीवनेन साधारणान्यसाधारणानि च सीपुरुषाणां लक्षणानि प्रतिपादितानि प्रत्याख्यातानि च । इदानीं तदनुपजीवनेन संज्ञान्तरैः शमं लक्ष - गानि कथ्यन्ते । तत्र तावल्ललाटस्थानगता ऊध्र्वमुख्यः काधन रेखाः सन्ति । तासां क्रमेण लक्षणानि प्रदर्यन्ते संज्ञाभिः समं सव्येतराध्युपान्ते या ललाटस्थलगामिनी। ऊध्र्वमुख्यङ्गलाषी स्यान्मस्तकस्यापि भेदनम् ॥ १ ॥ सूचयतीति शेषः । अयमर्थः- या सव्येतराक्ष्युपान्ते दक्षिणस्य चक्षुष। कटाक्षपर्यन्ते ललाटस्थलगामिनी ललाटस्थलमभिमुखीकृत्य गन्तुं प्रवृत्ता ललाटस्थलमियं गमिष्यतीति बुद्धिमुत्पादयन्ती रेखा, सा ऊर्ध्वमुखी नाम । फलं त्वङ्गलावीत्यनेनोच्यते । अदलाबी वीरः । अनया सम्पन्नः पुरुषः वीरः स्यादिति । फलान्तरं मस्तकस्यापि भेदनमिति । मस्तकशब्देन शिरपुरोभाग उच्यते । तेन शिखाया अधो ललाटादुपरि यो भागस्तत्र नित्यव्यया जायेतेत्युक्तं भवति ॥ १ ॥ तद्रुपान्तगतां रेखां लक्षयति था तत्रैव स्फुटाकारा शाखायुगलसङ्गता । मिश्राच्या समपि सततं दुःखमालस्यमाचरेत् ॥ २ ॥ १• 'नि प्र' ख. पाठः२. 'डग' इ. पाठ;