सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः। १२१ दन्तभङ्गः कचच्छेदो लिङ्गच्छेदः कृमिडुह्य।। वृहा द्रोहः । कृमयः प्रसिद्धाः । वसनं कृष्णवस्त्राणां प्रियं स्यान्मारपीडनम् ॥ ११६ ॥ कृष्णवस्त्राणां वसनं प्रियं स्यान्मारपीडनं च प्रियं स्यादित्यर्थः ॥ १५६ ॥ उत्तरीयान्तसंस्पर्श उत्तरीयान्तस्य यः संस्पर्शः तेन युक्तः । पुरुषपरमेतत् । प्रियवदी जने जने । अन्तरीयान्तसंस्पर्श अन्तरीयं वसनत्रश्नम् । निजायुभक्षपणक्षमः ॥ ११७ ॥ पुरुषस्तथा भत्रतीत्यर्थः ॥ १५७ ॥ मालाविक्रयकर्ता च सैरन्धी स्यात् तथाङ्गना । एकस्या एव रेखया विषयभेदेन फलद्वयमेतत् ॥ माधुर्यं निःस्पृहे ++ विशालत्वं धियस्तथा ॥ १९८ ॥ कनता विशदत्वं च शरीरे नखसंस्थितौ । क्रमेणाधिकरणपूरणम् । शरीरे पूर्व नखेडुत्तरमिति ॥ मान्यपूजा कथायोगः कयायां जनेषु सत्यां तच्छूवणलिप्सैया तत्र गच्छत्यसावित्यर्थः । केशोण्डुकपरिभ्रमः ।। १५९ ॥ तर्जन्यादिना नयनपीडायां क्रियमाणायां नयनपक्ष्मसु यः केश पिण्डावभासः प्रसिद्धः स केशोण्डुकः । तत्परिभ्रमशीलो भवेत् तद्वान् पुरुष इत्ययेः ॥ १५९ ॥ नीलाश्मनि स्थितिस्तत्र साक्षा(इप १ )भोगः साक्षादनावरणेन अन्नाद्युपभोग इत्यर्थः । परमार्थबुद्धिरित्यर्थः । - - - १. "प्सा स्रा । त' .। डः ,