सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सव्याख्ये स्कान्दशारीरके लामलक्षणम् - तदधोवर्तिनी लामेति कीर्तयेत् ॥४५॥ लामा माला या कनिष्ठिकाया अधःपर्वणि स्थिता, सा लामा । अत्रापि शाखा इसमन्वितत्वमध्याहर्तव्यम् , अनुषजनीयं वा । तत्र फलं मालां लामेति कीर्तयेदिति । यथोपलब्धभाषी अयथोपलब्धभाषी च भवेत् । नामार्थोऽप्य नेनैवोक्तः । किञ्च अत्रापि पूर्वसम्बन्ध आकाह्वयते ॥ ४५ ॥ मातुलानीलक्षणमाह तुलानी स्यादधस्तिष्ठेत् तस्या एव त्वधभस्थिता । या तस्या एवाधःस्थिता सा मातुलानी । मेति पूर्वस्मादनुषज्यते, मध्यप्रदीपिकान्यायेन स्थितत्वात् । तस्याः फलमधस्तिष्ठेदिति । पुरुषः सर्व त्राधास्तिष्ठेत् । न कदाचिदुचस्थलमधिरोइतीति । माधवीलक्षणमाह-- कनिष्टिकापरिसरे मधुलाभः फलं भवेत् ।। ४६ ॥ या कनिष्ठिकापरिसरे वर्तते, तत्रापि पार्श्वतोऽधःस्थिता, तस्या मधु लाभः फलम् । मधुर्नाम न मधु । एतदुक्तं भवति-यथाशक्ति पुण्यकर्मा नुष्ठानवशादस्मिन्वेव जन्मनि वसन्ते श्रुतिः स्यादिति ॥ ४६ ॥ रुक्मकाण्ठेकालक्षणमाह क्रमादैहिकभोगानां भुक्तिः स्यात् तद्धस्थया । या तदधःस्था, सा मुक्कण्ठेिका । ऐहिकभोगानां क्रमाद् मुक्तिः स्यादिति फलम् । सम्प्रति महिष्ठालक्षणमाह तदधस्था न संस्थानान्मध्यमायुर्भवेन्नरः ॥ ४७ ॥ या तदधःस्था सा महिष्ठा । पीठवन्महनीयं स्थानं स्थितिर्यस्याः सा तथ। फलमाह-न संस्थानाद् भवति । न संस्थानातौं भवति । संस्थानं खस्थानम् । किब मध्यमायुश्च भवति । किञ्च मध्यमायुर्वेऽपि नं मध्यम मध्ययुर्भवति । मध्यमोत्तमायुर्भवतीति रहस्यम् ॥ ४७ ॥ रोहिष्ठालक्षणगाह रोहिष्ठा घनानिष्ठा स्यात् तद्धस्थानसङ्गता । १, १ ‘णि क. पाठl. ३. ३ त' ख, पाठः