१०४ सख्यास्ये स्कान्दशारीरके या पुनः कनिष्ठिकामध्यपर्वबन्धस्था रेखा सा क्लेश उच्यते । तस्याः फलं पहुर्भवतीति । अत एव फलं पकॅरिति संज्ञाध्याये कथितं, न संज्ञा। नच संज्ञाध्याये संज्ञां विना फलकथनमयुक्तमिति युक्तम् । कवेः स्या तन्त्र्यात् ॥ ३८ ॥ अनन्तकलक्षणमाह – अनन्तकः पर्वमध्ये निम्न भागः प्रकीर्तितः। फलं तस्याग्निसम्बन्धः क्कचित् तैलादिसन्निधौ ॥३९॥ यः कनिष्ठिकामध्यपर्वको निम्नभागः सोऽनन्तकः । तस्य फलमग्नि सम्बन्धः । तत्रापि विशेषमाह - केचित् तैलादिसन्निधाविति । काचित् तैलादिसन्निधौ योऽग्निस्तस्सम्बन्ध इत्यर्थः । सम्बन्धश्च न सम्बन्धमात्रं, किन्तु दाहपर्यवसान इति ॥ ३९ ॥ श्रीवल्लीलक्षणमाह कनिष्ठिकाम्रपर्वस्था श्रीवल्ली शस्यते मृदुः। फलं तस्याः कृमिद्रोह औमस्वमपि तद् गु ॥ ४० ॥ अस्यार्थः - या कनिष्ठिकांग्रपर्वस्था पार्थाभिमुखी रेखा, सा श्री वल्ली शस्यते । तस्याः फलं कृभिद्रोहः । अन्ते पादसम्बन्धिनो व्रणात् कृमयः सखायेरन् । किञ्च श्रीमत्वं च भवति । श्रीमत्वं च न कान्तिमत्त्वम् । प्रत्युत तद्विपरीतम् । तत्र विशेषोऽपि । किं तदिति । तद् गुरु । गौरवेण निर्व इति । कथञ्चिन्निर्वयेव । अत्रायं क्रमः -- प्रथमं तावद् विभूतिः स्वच्छतया सम्पद्यते । ततः क्लेशा आविर्भवेयुः । ततश्च पादे कश्चिद् व्रणो जायेत, ततः कृमयःततोऽन्तर्विभूतिश्च क्रमात् कथञ्चिन्निव्यानुवृत्य भवतीति त्रिसप्ततिवत्सरमायुर्गच्छतीति ॥ ४० ॥ रोहितं नखपर्यन्ते रोहिताङ्गारयुर् भवेत् ॥ ४१ ॥ यखपर्यन्ते रोहितं रक्तं, तद् रोहितमित्यभिधीयते । तद्वान् पुरुषो रोहिताङ्गस्युर् भवेत् । रोहितेन अङ्गरेण च तस्य सम्बन्धो भवेत् । १. 'केवळस्वा' क. थ. पाठ . २. ‘छ । य।' ङ. पाठः३. ‘काया अप्र' क. पाठः४. ‘ता’ ध. इ. पाठः.
पृष्ठम्:स्कान्दशारीरकः.pdf/१३२
दिखावट