चतुर्थोऽध्यायः ।। ९७ हताशलक्षणमाह -- ज्योत्स्नस्थूलमरा सो।वै पुत्रनाशं फलं वदेत् ॥ १९॥ या पुनर्योत्स्नी ऊर्वं वर्तते ततः स्थूलतरा च सा हताशा । तस्याः फलं पुत्रनाशः । पूर्वसिद्धस्यापि पुत्रस्य रोगं विना झटियेव विनाशो भवेत् । औपादिककारणं च रुधिरवमनं भवेत् ॥ १९ ॥ देवद्विलक्षणमाह – तन्मूलरोमसन्धिस्था देवडिडिति कथ्यते । या तस्यास्तर्जन्य मूले यो रोमसन्धिस्तस्या सा देवद्विट् । फलं नाम्नैव गम्यते । कथमिति । उच्यते । देवानसौ प्रतिदिनं तद्वान् पुरुषो देष्टि । ततो देवद्विश्वं भविष्यतीति । कपदैर्लक्षणमाह कपर्दिस्तदधस्था स्याद् भार्याभङ्गः फलं भवेत् [।। २० ॥ तस्याः पूर्वोक्तलक्षणफलाया अधःस्था अधःस्थिता कपर्दिः स्यात् । फलं भार्याभङ्गः ॥ २० ॥ अपराजितालक्षणं कथयति धृष्टभगस्थिता तस्याः पुत्रनाशं व्रजेद् ध्रुवम् ।। या तस्या एव तर्जन्याः पृष्ठभागे ऊध्र्वमुखी स्थिता रेख, सा अप राजिता । फलं पुत्रनाशं व्रजेत् । अपराजितत्वं पराजितत्वादन्यदपराजितवं, विरुद्धत्वादिति नामार्थः । दुग्धलक्षणमाह दुग्धाप्रशस्ता मूलस्था क्षिप्रमेव चुनिं वदेत् ॥ २१ ॥ या तर्जन्या मूलस्था अधोमुखी चः सा दुग्धा। फलं शीघ्रमेव मृतिं वदेदिति ॥ २१ ॥ मुग्धालक्षणं कथयति तत्रैव परिवेषेण वर्तते या पर मता । १. ‘नम् । ' ध. पाठः.
पृष्ठम्:स्कान्दशारीरकः.pdf/१२५
दिखावट