८८ सव्याख्ये कान्यशारीरके शालिकालक्षणं कथयति – विशुद्ध त्वचि सबी मयूखैरपि निश्चिता । फलं प्रयच्छति शुभं स्त्रीणामूरुविनृम्भितम् ॥ ४३ ॥ ऊरुकार्यम् । सा शालिका । फलपक्षगतमन्यत् ॥ ४३ ॥ हैं वहालक्षणमाह – दैविका मागधीमध्थे प्रही मधुराकृतिः। पुरुषः स्यात् तया साध्वी सदाचारपरा भवेत् ॥४४॥ एषोऽर्थः- या मागधीमध्ये पूर्वोक्तलक्षणफलाया मागध्या मागधी संज्ञाया मध्ये, तां जित्वर्वगामिनी प्रह्माजी पार्श्वयोरन्यतरस्मिन् प्री भूताङ्गी, सा दैविका । तया पुरुषो भथुराकृतिः स्यात् । यश्चतुर्दशसंव सरावधिः कालभागस्तत उपरीत्यध्याहर्तव्यम् । स्त्री चेत् साध्वी, सर्वा भिगम्या, न पतिव्रता । तथात्वे उत्तरविशेषणानन्वयात् । तत्र श्वसदाचार परेति छेदः समायाति । अर्थस्य तदर्थत्वात् । यः सन् आचारः सता माचारो वा तस्मात् परा अन्या तदसम्बद्धेति यावत् । ततोऽसदाचार परेति छेदः सिध्यति फलवशात् । नच सदाचारपरेति वक्तुं युज्यते परशब्देन तात्पर्यमभिधाय, तदा साध्वीशब्दस्य विशेष्यत्वापातात् । तथाच पदान्तरं विशेषणं स्यात् । नच तद् युज्यते, पौनरुक्स्यापातात् । तस्मादुक्त एवार्थः । नामार्थः - या दैविकी प्रवृत्तिः तादृशी रेखेयं सम्प- यते । उक्तफलाननुष्ठाने प्रत्यवायापादनाद् इति रहस्यम् ॥ ४४ ॥ कवेर्लक्षणमाह दक्षिणे वर्तुलाकारसंस्थाना चेतसि स्फुटम् । दुःखममापादयेन्नान्यत् कविः सर्वफलं तथा ॥ ४५ ॥ अस्पार्थः- या दक्षिणे स्तने वर्तुलाकारसंस्थाना, वर्तुलः आकारः यस्याः स्थानम्, आकार आकृतिः तस्याः संस्थानं वर्तुलं, वलयाकारसंस्था नविशेषाभिव्यङ्गया, षड् वलयाकरा अस्याः, सा कविः । सा चेतसि दुःखमापादयेद्) नान्यत् । अन्यैच्छब्देन सर्व कार्यमुज्यते, न प्रतियोगि १. 'णमाह -' घ. प: २. 'वि' ख. घ. इ. पाट . ३. ‘भ्यशब्दे’ घ. .
पृष्ठम्:स्कान्दशारीरकः.pdf/११६
दिखावट