सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । अत्रोटनलक्षणमाह आत्रोदनं परं पुंसामनालस्यं प्रयच्छति ॥ ३२ ॥ विपरीतलक्षणया नामाभिधानम् । या पुनः केशग्रन्थ्या परिमाणे क्रियमाणे अङ्गुष्ठादारभ्यैकाङ्गुलं गत्वा काचन रेखा प्रवर्तते, सात्रोटनम् । तया पुरुषोऽनालस्यवान् भवति । तत्र प्राक्तनमालस्यं किमिति प्रश्ने एव । मुत्तरकथनम् । यस्य लक्षणं परीक्ष्यते प्रेक्षणपुरस्सरंतस्य रोम उपादेयम् । नतस्तदुपादाय तेन केशग्रन्थि कृत्वा परिमाणे क्रियमाणे यदि तस्य वेप खुर्जायते तर्हि वात रोगः तस्यालस्यं पूर्वकृतं स्मारयति । यदि वा रोगा न्तरं तस्य पूर्वकृतं सर्वं तस्यालस्यशब्दाभिधेयं भवति । कारणान्तरनिमित्तं चेदालस्यं, तत्राप्युपायोऽयमवधेयः । कथम् । यत्र यत्र सीमालक्षणेषु पादस्सरौ वा हस्तस्पश वा नयनपातो वा स्यावरादिषु चेतनानधिष्ठितेषु दृश्यमानेषु तेभ्योऽन्यत्र भवति, तत्स्वभाव आलस्यकारणमिति वक्तव्यम् । किञ्च चेतनाधिष्ठितेषु वृत्तान्तमात्रवशत् कारणता गम्यते इत्यनुसन्धेयम् ॥ १४लक्षणमह पृष्टा प्रतिष्ठिता भूमौ पूर्वस्याः सङ्गलाषरा। अस्यार्थः - या पूर्वस्याः पूर्वोक्तलक्षणाया भूमौ आधरभागे स्थिता प्रतिष्ठितेत्यस्यार्थःसा पृष्ठा । सा सङ्कलाधरा । फलकथनमेतत् । सकुलं, संशब्देन सम्यक्त्वं लक्ष्यते । सम्यगधरेत्यर्थः । गुणपूर्णाधरवर्तिनीनां रे खाणां यत् फलं यावच, तत् सर्वमत्रैव सम्पद्यते इति सम्यशब्दार्थः । सोऽत्र संशब्देनाभिधीयते । पूर्णगुणगणाधरा । तद्वानस्य लक्षणस्याश्रयो भवति तद्वती तरुणी वा । अथवा संकुलाधरत्वं नाम रतिव्रणादिना व्याप जोधरत्वम्। तेन रत्यौत्सुक्यं सुतरामस्य सम्पद्यते इत्युक्तं भवति । औप्रियत्वं च । स्त्रीपक्षेऽपि योजनीयः । धियो लक्षणमाह - धीः प्रसिद्धास्थिता तस्याः काशनं फलमुच्यते॥३३॥ या प्रतिष्ठा नाम रेखा, तस्यां स्थिता या सा धीः । तस्याः फर्के काञ्चनं, काञ्चनलाभः। काञ्चनशब्देन स्तुतिविषयं धनमुच्यते । तरिमद्धि भवतीति । तत्र भावोऽयं द्रष्टव्यः । यदि काञ्चनलिप्सा विषयविशेषे तस्य