सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ सब्ख्ये स्कान्दशारीरके अत्याज्यम् । यद्युपाधिना औषधेन वा छेदादिना वा , न त्याज्यं तर्येव ततिस्थता फलसाचिका भवति नान्यथा । बिल्वकारे कृष्णवर्ण- विशेषे रेखायाः स्थितिः प्रलोभविषयं फलं सूचयति ॥ ३० ॥ शकटायिनीलक्षणमाह पोलंस्यं मध्यतले या गता प्राप्तासनो भवेत् । या पुनः पादस मध्यतलं प्राप्ता प्राप्तासनो भवेत् तथा पुरुषः । एतदुक्तं भवति -- पादस्य मध्ये काचिद् रेखा समुन्मिषेत् । तर्हि तया स पुरुषः सर्वस्वसम्पन्नो भवति । धनधान्यसमृद्धिमांश्च भवति । सा कथंभूतेति चेद् वक्तव्यं नान्तरात्मनीति । नान्तरात्मनि रूप प्रकाशिका एषा, अपितु ययोर्वरेखा अन्तरात्मनि रूपप्रकाशिका, तद् दियमपि पादतलमध्ये स्थिता विपरीततया विभूत्यादिकं सूचयत्यवि बारेणेत्यवगन्तव्यम् । अपरा शाकटायिनी, तल्लक्षणमाह – विद्रुमप्रभया युक्ता महद्भिः सेव्यते बुधैः ॥ ३१ ॥ या पुनर्वित्रुमस्रमयोपेता विशिष्टकान्तिमती रेख, तया महाराज्यं लभते पुरुषः । स्त्री चेत् तन्महिषी भवति । शाकटायनो नाम सः, यः पूर्वं मात्रा गर्भसमये निजरुचिव्यपनोदनाय तत्तदभिरुचिव्यपेक्षय च भक्षितः शाकपुजः प्रचुरमेदुरः , स शाकटः । सोऽयनं यस्य गर्भ- पात्रस्य तस्मादुपनेयं शाकटायिनी । तदुत्पन्नत्वं चास्या निमित्तमात्र तयोपचर्यत इत्यवगन्तव्यम् ॥ ३१ ॥ रोच्यते रक्षणम्- शङ्करावपनं पुंसः पाणिमूलस्थितः भवेत् ।। या पार्षिणमूलस्थिता पाणिमूलसन्निधौ पादतले स्थिता, तया पंख आवपनं भवेत् पूर्वप्रवृत्तिविच्छेदो भवेत् । पूर्वप्रवृत्तिश्च सा, या कचित् । कचिदिङ्गितादीभिर्युज्यतेऽस्यात्र धीरिति सा पूर्वप्रवृत्तिः । अनया सम्प- बस्य विच्छिन्ना भवति । आवपनं नाम यद्यपि सम्पादैनं, बीजावापादौ तथा दर्शनात्, तथाप्यावपनस्यात्र शङ्गशब्दसमभिव्याहारात्, प्रसिद्धार्थ- समभिव्याहारेणाप्रसिद्धार्थं बोधनमि’ति न्यायाग्छेद एवाभिधीयते । तस्य तदर्थकत्वमेव यतो युक्तम् । अन्यथा निगमप्रामाण्यभङ्गप्रसङ्गात् । 4. ‘ल ’ क. प5. २. 'त' ग ड. ax.