सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ संख्याख्ये स्कान्दशारीरके तथाच तद्विपरीनमघं सूचयतीति महद् वैशसम् । किञ्च यद्यपि यदाकदा चित् प्रायश्चित्तरूपत्वं नैमित्तिकानां, तथापि पितृक्रियारूपाणां फलं न केवलं दुरितनिवृत्तिः, किन्तु पितृसन्तोषादिलक्षणमस्त्येव । तथा तद्वारा पुत्रलाभादि । एवं निज¢पाकरणद्वारेण निजाभ्युदयासिद्धिः । तथाचोक्तवै परीत्यादयं सूचयतीत्युक्तं युक्तमेव । नामार्थस्त्रसौ- - तारुण्ये तरुणभावे या द्रामिलवधूः यथेष्टचारिणी, सा यथायथ यथाघ करोति तथेयमपि रेख बाल्ये यथेष्टमेवायं कारयति, करोति च पुरुषः स्त्री वा । अत्रेदं रह स्यम् – अनया सम्पन्नः पुरुषो निजचारित्रदूषणात् , स्त्री वां पञ्चविंशति संवत्सरादर्वाक् प्रकृष्टाभिव्यक्तनिजदूषणसमूहानभिरतनिजसर्वस्वप्रवृत्तिः क- तिपयेषु प्रक्षीणनिजमनोवृत्तिः कतिपयेषु च वर्धमाननिजवृत्तिरास्ते । पुनश्च सन्तापसन्ततिवशः शेते तिष्ठति चेत्यतिविषमतया विरसनिजचरित्र पात्रभूतः कष्टं सर्वदा सम्भवतीति ॥ १९ ॥ सतीलक्षणमाह -- या प्रोक्ता पृथुनिःयन्दा कल्पिता जघनस्थलीम् । अधि प्रेत्य प्रवर्तन्ते पुरुषाः स्वगुणैः स्त्रियः ।। २० ॥ अस्यार्थः- या खलु जघनस्थलीमधिकृत्य जघनस्थलीमूलभूता न्मूलाधारादुपरिदेशे स्वयं समुद्भूता, प्रेत्य ऊध्र्व गत्वा, प्रोक्ता तदैशैरिति शेषः । पृथुनिःष्यन्दा पृथवः निष्यन्दाः निजकार्यभूतेरेखांशा यस्यास्त थाभूत्, कल्पिता अन्यत्र कण्ठनाले अंसद्वये च रज्जुसर्पादिवत् कल्पिता आरोपेण ज्ञाता । यैवंभूता सा सती नाम । तस्याः फलं प्रवर्तन्ते स्त्रियः पुरुषाश्च। किं कारणं, स्वगुणैरत्मीयैरेव गुणैः, यदि वा स्वाभाविकैर्गुणैः । स्वाभाविकत्वं नाम नित्यत्वमभिमतं स्वोचितत्वं, शौर्यादिभिर्लजादिभिश्च प्रवर्तन्त इत्यत्रापि शैत्यक्षोपन्यासेन स्वारसिक्यं, तत्तत्स्वभावं च कर्मप्रव तैकत्वमभिव्यज्यते, प्रत्ययनिर्देशवशात् । इदमत्र तामर्यम्--किशोरभाव एव नाभेरधस्ताद् यः प्रदेशस्तस्य यत् पार्थवं, तस्य दर्शनाभावे सति वि- परीतनिम्नताकल्पनया तस्याः शेणिताधारभूतपात्रविपरिवृत्ततया रेतःस्क न्दादिप्रयुक्तौ गर्भधानाभिधानपुंलक्षणसंयोगविवशतया सुखमात्रमेव तन्मै १. 'तथा नि' ङ. पाठः २. ‘है, ३. 'प्रास्यग्योप' घ. पाठः ,