तृतीयोऽध्यीयः । ७ या पुनर्वर्णस्थितिः 'कपिला, स्तनयोरन्तरा स्थिता, सा यतिकृत् । ‘सा 'च बहुजायादियोगं पुरंमंस्य बहुजायायोगे, जायायास्तु बहुपुरुषयोगं, सूचयति ‘अविनामोवेन सूचयति । चशब्दः 'साम्प्रतमित्यत्र योजनीयः । न केवलं बंहुजायादियेगं संसूचयति, अपितु तं साम्प्रतं सुन्दरं च सुच यतीतेि तस्यार्थः । तस्य पुरुषस्य सुन्दरत्वं च पुत्रादीच्छितफलदायित्वं कृतार्थातथा यंतिसंमा(न ?नत्वं) करोतीत्यर्थः ॥ १८ ॥ तारुण्यद्रमिलालक्षणम।ह विशुद्धा नाभिमूले या तर्जनीपरिमाणिका । अन्तराच्छिन्नसर्वाङ्गवा फलं संसूचयत्यघम् ॥ १९॥ अयमर्थः-या खलु नाभिमूले नाभेरधः, विशुद्धा धवलंकारा रेखा, सा अन्तराच्छिन्नसर्वा अन्तरा मध्ये मध्ये आच्छिन्नसर्वाङ्गा ई च्छिन्नसर्वभूतनिजाङ्ग, सर्वभूतानि जाङ्गयुक्तेति छान्दसतया प्रयोगः । सा यदि तर्जनीपरिमाणिका तर्जन्या यावत्सरेमाणं तेन कुत्सितभूतेन सह वर्तते चेत् तर्हि तन्नामा, नोचेत् या वक्ष्यमाणद्रमिलो नाम रेखा, सैवेयम् । तयोस्स्वयं विशेषः -- अन्तरान्तराच्छिन्नत्वं नाभिमूलदेशत्व मित्युभयम् । साधारणविशुद्धत्वं तु केवलं द्रमिलाया एव भवति । तर्ज नीयपरिमाणवत्वं च पूर्वस्या इति । तत्र विशुद्धवेन विना लक्षणावशेषेण केवलेन युक्ता तारुण्यद्रमिला । सा महांचं सूचयति । कथमुत्पन्नमिति चेद्, भ्रूमः । यथायथं स्वजन्मप्रभृति तत्तप्रवृत्तीः कुर्वाणस्तत्तदघस्मरणम् मोषविद्रोहोमुषीभिस्तानि हीनि कर्माणि करोति । तथाच केवलैरेव मति भेदैर्गुष्ठाने प्राप्ते कर्मणां स्वर्गादिफलानां मतिभेदवशाद् यथाकथमप्यनुष्ठान प्राप्तौ कथञ्चित् कथञ्चित् प्रस्खलनादि मवति । काम्यविषये तु विशेषः यथा शक्त्यनुष्ठानाभावेन । नित्यानां न विरोधः कश्चित् , अन्यत्र तु महान् वि रोधः, अङ्गसाफल्यं विना फलासिद्धेः । नैमित्तिकानां तु उभयस्वरूपत्वात् सकलङ्गानुष्ठानेन वा कतिपयाङ्गानुष्ठानेन वा फलसिद्धिः उभयरूपत्वं तु प्रत्यक्यानंवृत्यापि योजनीयम् । ननु कथं नैमित्तिकानां फलमिति चेद, उच्यते । यद्यपि प्रायश्चित्तरूपत्वमेतेषां, तथापि दुरितनिवृत्तिः फलमस्त्येव । १. ‘का' क. पाठः. २. ‘ला रे' ख. ड. पाठः
पृष्ठम्:स्कान्दशारीरकः.pdf/१०३
दिखावट