०२ हनौ या वर्तेते कृष्णा वर्णाकृतिरभङ्गुरा । पाणिभदा मता तस्याः फलं स्यात् तु वदान्यता ॥ ८ ॥ या पुनईनुप्रदेशे कृष्ण कृष्णवर्णं अभक्षुरा अविच्छिन्ना वर्णविशेष स्थितिः, सा पाणिभदा नाम । तस्याः फी वदान्यता स्यादेव । तुशब्देना वधारणार्थेन वर्णस्थितेः फलव्यभिचाराभाव उक्तः । अत एव नामार्थोऽपि घटते । यत्किञ्चिद् द्रविणाभावे स्वपाणिप्रदानेऽपि तद्वतः पुरुषस्य प्रिया वा अप्रतिहता दृढा बुद्धिर्भवतीति ॥८॥ पाणिइतेर्दूमाह – तत्रैव धवलाकारा वर्णभङ्गिस्थितिर्युवा । मता पाणिहतिर्नाम दृष्टवैरं प्रयच्छति ॥ ९ ॥ या तु पुनस्तत्रैव हतुप्रदेशे एव, धवलाकारा धवला , वर्णभङ्गि स्थितिर्वर्णस्य चतुरश्राद्यकारेण भङ्गया स्थितिः, पाणिहतिर्नाम सम्मता, विदुषां व्यासादीनाम् । सा तु पुनर्यो यो दृष्टः पुरुषः स्त्री वा तेन तेन तया तया च वैरं प्रयच्छति स्खाअयपुरुषस्य प्रिया वा । नामार्यः पाणि इतिमप्यसौ कारयतीति ॥९॥ कोटिळक्षणमाह – कोटिस्तत्र त्रिकोणस्था वर्णस्थितिरुदाहृता। आभिचारप्रधानत्वं तद्धूतं च प्रयच्छति ॥ १० ॥ या तत्रैव हनुप्रदेशे एव त्रिकोणेन त्रिकोणतया स्थितिर्यस्याः सा तथाभूता वर्णस्थितिः कोटिर्नामोदाहृता । सा, आभिचारप्रधानत्वम् आभि बारोऽभिचारकर्म स एवाभिचारस्तत्रघानत्वं तत्स्वभावत्वं, तद्वृत्तं च तेनाभिचारकर्मणा वृत्तिं जीवनस्थिति काळ्यापनामित्यर्थः, प्रयच्छति सूत्र यतीति यावत् ॥ १० ॥ अत्रोटनलक्षणमाह - कपोलतलयोर्यस्तु यत्रकापि द्वयोरथ । जर्जरो वर्णविन्यासः स चात्रोटनमुच्यते ॥ ११ ॥ यस्तु पुनः, कपोळतळ्योर्मध्ये यत्रकपि एकनेत्यर्थः, अय द्वयोर्वा धरः सीने पबो, दसैंने धूसरथ, वर्णविन्यासः वर्णविनिवेशो दैवकृतः,
पृष्ठम्:स्कान्दशारीरकः.pdf/१००
दिखावट