पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः ४५ सदृशं यदि धर्म्मचारिणः सततं प्राणिषु मैत्रचेतसः । अमृतौ यदियं हितैषिता मयि ते स्थात् करुणात्मनः सतः ॥१०॥ अत एव च मे विशेषतः प्रविवक्षा क्षयवादिनि त्वयि । न हि भावमिमं चलात्मने कथयेयं ब्रुवतेऽप्यसाधवे ॥११॥ तदिदं शृणु मे समासतो न रमे धर्मविधानृते प्रियां । गिरिसानुषु कामिनीमृते कृतरेता इव किन्नरश्चरन् ॥१२॥ वनवाससुखात् पराङ्मुखः प्रथियासा गृहमेव येन मे । न हि शर्म लभे तया विना नृपतिर्हीन इवोत्तमश्रिया ॥१३॥ अथ तस्य निशम्य तद्वचः, प्रियभार्य्याभिमुखस्य शोचतः । श्रमणः स शिरः प्रकम्पयन् निजगादात्मगतं शनैरिदम् ॥१४॥ कृपणं बत यूथलालसो महतो व्याधभयादिनिःसृतः । प्रविविक्षति वागुरां मृगश्चपलो गौतरवेण वञ्चितः ॥१५॥ विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः । विचरन् फलपुष्पवद् बनम् प्रविविक्षुः स्वयमेव पञ्जरम् ॥१६॥ कलमः करिणा खलूद्धृतो बहुपङ्कात् विषमात् नदीतलात् । जलतर्षवशेन तां पुनः सरितं ग्राहवतौं तितीर्षति ॥१७॥ शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः । तरुण खलु जातविभ्रम (:) स्वयमुग्रं भुजगं जिघृक्षति ॥१८॥ महता खस्नु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात् । पुनरिच्छति नौडतृष्णया पतितुं तत्र गतव्यथो द्विजः ॥१८॥ अवशः खलु काममूर्छया प्रियया श्येनभयाद् विनाकृतः । न धृतिं समुपैति न ह्रीयं करुणं जीवति जीवजीवकः ॥२०॥