पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

88 सौन्दरनन्दं काव्यम् अष्टमः सर्गः अथ नन्दमधौरलोचनम् गृहयानोत्सुकमुत्सकोत्सुकम् । अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया ॥१॥ किमिदं मुखमश्रुदुर्दिनम् हृदयस्थं विवृणोति ते भ्रमः । धृतिमेहि नियच्छ विक्रियां न हि बाष्पश्च शमश्च शोभते ॥२॥ द्विविधा समुदॆति वेदना नियतं चेतसि देह एव च । श्रुतविथुपचा[र)कोविदा द्विविधा एव तयोश्चिकित्सकाः ॥३॥ तदियं यदि कायिको रुजा भिषजे तूर्णमसौ समुच्यताम् । विनिगुह्य हि रोगमातुरो नचिरात्तीव्रमनर्थस्मृच्छति ॥४॥ अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम् । मनसो हि रजस्तमःसतां भिषजोऽध्यात्मविदः परीक्षकाः ॥५॥ निखिलेन च सत्यमुच्यताम् यदि वाच्यं मयि सौम्य मन्यसे । गतयो विविधा हि चेतसाम् बड(गु]ह्यानि महाकुलानि च ॥६॥ इति तेन स बोधितस्तदा व्यवसायं प्रविवक्षुरात्मनः । अवलम्ब्य करेण करेण तं प्रविवेशान्यतरत्" वनान्तरम् ॥७॥ अथ तत्र शुचौ लतारगृहे कुसुमोद्गारिणि तौ निषेदतुः । मृदुभिर्मृदुमारूतेरितैः उपगूढावि(व) बालपल्लवैः ॥८॥ स जगाद ततश्चिकीर्षितम् घननिश्वासगृहीतमन्तरा । श्रुतवास्विभवाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥६॥ १ P. M. मैत्रयः। PP. M. Aawai T. ३P. M. .सत्व T. & P.M. प्रवियशान्यतरात. ५P. M. वाग्भिसदाय T.