सप्तमः सर्गः 83 पाणौ कपालमवधाय विधाय मौण्ड्यम् मानं निधाय विकृतं परिधाय वासः । यस्योद्धवो न धृतिरस्ति न शान्तिरस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ॥४८॥ यो निःसृतश्च न च निःसृतकामरागः काषायमुद्दहति यो न च निष्कषायः । पाचं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः ॥४६॥ न न्याय्यमन्वयवतः परिगृह्य लिङ्गम् भूयो विमोक्रुमिति योऽपि हि मे विचारः । सोऽपि प्रणश्यति विचिन्य नृपप्रवीरां स्तान् ये तपोवनमपास्थ गृहाण्यतीयुः ॥५०॥ शाल्वाधिपो हि ससुतोपि तथाम्बरीषो रामोन्ध्र एव स च साङ्कृतिरन्तिदेवः । चौराण्यपास्य दधिरे पुनरंशुकानि छित्त्वा जटाश्च कुटिला मुकुटानि बभ्रुः ॥५१॥ तस्माद् भिक्षार्थ मम गुरुरितो यावदेव प्रयातः त्यक्त्वा काषायं गृहमहमितस्तावदेव प्रयास्ये । पूज्यं लिङ्गं हि स्खलितमनसो बिभ्रतः क्लिष्टबुद्धेः नामुत्रार्थः स्यात् उपहतमतेर्नाप्ययं जीवलोकः ॥५२॥ इति सौन्दरनन्दे महाकाव्ये नन्दविलापो नाम सप्तमः सर्गः ॥
पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/९०
दिखावट