एतत् पृष्ठम् परिष्कृतम् अस्ति
32 सौन्दरनन्दं काव्यम् तद्यावदेव क्षणसन्निपातो न मृत्युरागच्छति यावदेव । यावद्दयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव ॥४८॥ इत्येवमुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः । कर्तास्मि सर्व्वं भगवन् वचस्ते तथा यथाज्ञापयसौत्युवाच ॥५०॥ आदाय वैदेहमुनिस्ततस्तम् निनाय संश्लिभ्य विचेष्टमानम् । व्ययोजयच्चाश्रुपरिप्लुताक्षं केशश्रियं छत्रनिभस्य मूर्ङ्गः ॥५१॥ अथो रुतं तस्य मुखं सबाष्यम् प्रवास्यमानेषु शिरोरुहेषु । वक्राग्रनालं नलिनं तडागे वर्षोदकक्लिन्नमिवावभासे ॥५२॥ नन्दस्ततः तरूकषायविविक्तवासा- श्चिन्तावशो नवगृहीत इव द्विपेन्द्रः । पूर्ण: शशी बहुलपक्षगतः क्षयान्ते बालातपेन परिषिक्त इवावमासे ॥५३॥ सौन्दरनन्दमहाकाव्ये नन्दप्रव्राजनं नाम पञ्चमः सर्गः ।