पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा । आरोप्यमाणस्य तमेव मार्ग भ्रष्टस्य सार्थादिव सार्थिकस्य ॥ ४ ॥ यः सर्व्वतो वेश्मनि दह्यमाने शवीत मोहात् न ततो व्यपेयात् । कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः ॥४१॥ प्रणीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च बध्यः । मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरीतचेताः ॥४२॥ यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बन्धूंश्च परिग्रहांश्च । ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्वनित्येषु कुतोऽनुरोधः ॥४३॥' किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम् । तस्मात् क्वचिन्न क्षमते प्रसक्तिर्यदि क्षमस्तद्विगमान्न शोकः ॥४४॥ तत् सौम्य लोलं परिगम्य लोकं मायोपमं चित्तमिवेन्द्रजालम् । प्रियाभिधानं त्यज (तो) मोहजालं छेत्तुं मतिस्ते यदि दुःखजानम् ॥ वर(ं] हितोदर्कमनिष्टमन्नम् न स्वादु यत्स्यादहितानुबद्धम् । यस्मादहं (न) त्वां विनियोजयामि शिवे शुचौ वर्त्मनि विप्रियेऽपि ॥ बालस्य धाची विनिग्रह्य लोष्ट्रं यथोद्धरत्यात्मपुटप्रविष्टम् । तथोज्जिहीर्षुः खलु रागशल्यं तत्वामवोचं परुषं हिताय ॥४७॥ अनिष्टमप्यौषधमातुराय ददाति वैद्यश्च यथा निग्रह्य । तद्दन्मयोक्तम् प्रतिकूलमेतत् तुभ्यं हितोदर्कमनुग्रहाय ॥४८॥ Both P. L. M. and P. M. tha T.