पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० सौन्दरनन्दं काव्यम् प्रज्ञामयं वर्म वधान तस्मात् नैष्यन्ति' निघ्नस्य हि शोकवाणाः । महच्च दग्धं भवकक्षजालं संधुक्षयाल्याग्निमिवात्मतेजः ॥२०॥ यथौषधहस्तगतैः स वैद्यो न दश्यते कश्चन पन्नगेन । तथानपेक्ष्योजितलोकमोहो न दश्यते शोकभुजङ्गमेन ॥३१॥ आस्थाय योगं परिंगम्य तत्त्वं न चासमागच्छति मृत्युकाले । आबद्धवर्म्मा सुधनुः कृतास्त्रो जिगीषया शूर इवाहवस्थः ॥३२॥ इत्येवमुक्तः स तथागतेन सर्व्वेषु भूतेष्वनुकम्पकेन । धृष्टं गिरान्तर्हृदयेन सौदंस्तथेति नन्द[:] सुगतं बभाषे ॥३३॥ अथ प्रमादाच्च तमुज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम् । प्रव्राजयानन्द शमाय नन्द इत्यब्रवीत् मैत्रमना महर्षिः ॥३४॥ नन्दं ततोन्तर्मनसा रुदन्तम् एहीति वैदेहमुनिर्जगाद । शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहमित्युवाच ॥३५॥ श्रुत्वाथ नन्दस्य मनीषितं तत् बुद्धाय वैदेहमुनि: शशंस । संश्रुत्य तस्मादपि तस्य भावम् महामुनिनन्दसुवाच भूयः ॥३६॥ मय्यग्रजे प्रव्रजिते जितात्मन् घाटय्यनु प्रव्रजितेषु चास्मान् । ज्ञातौंश्च दृष्ट्वा व्रतिनो गृहस्थान् संविन्न चित्तेऽस्ति नवास्ति चेतः॥३७॥ राजर्षयस्ते विदिता न नूनम् वनानि ये शिश्रियिरे हसन्तः । निष्ठीव्य कामान् उपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः ॥३८॥ भूयः समालोक्य ग्रहेषु दोषान् निशाम्य तत् त्यागकृतं च शर्म । नैवास्ति मोक्तुं मतिरालयं ते देशं मुमूर्षोरिव सोपसर्गम् ॥३८॥ १ Both MSS. नैष्यान्ति !