पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

26 सौन्दरनन्दं काव्यम् शातोदरी पौनपयोधरोरूम् स सुन्दरीं रुक्षदरीमिवाद्रेः । काक्षेण पश्यन् न ततर्प नन्दः पिबन्निवैकेन जलं करेण ॥४१॥ तं गौरवं बुद्धगतम् चकर्ष भार्य्यानुरागः पुनराचकर्ष । सोऽनिश्चयात् नापि ययौ न तस्यौ तरंस्तरङ्गेष्विव राजहंसः ॥४२॥ अदर्शनं भूयगतश्च तस्या हमर्यात्ततश्चावततार तूर्णम् । श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये ग्रहीतः ॥४३॥ स कामरागेण निगृह्यमाणो धर्म्मानुरागेण च कृष्यमाणः । जगाम दुःखेन विवर्त्त्यमानः प्लवः प्रतिस्रोत इवापगायाः ॥४४॥ ततः क्रमैर्दीर्घतमः प्रचक्रमे कथं नु यातो न गुरुर्भवेदिति । स्वजेय तां चैव विशेषकप्रियां कथं प्रियामार्द्रविशेषकामिति ॥४५॥ अथ स पथि ददर्श मुक्तमानं पितृनगरेपि तथा गताभिमानम् । दशबलमभितो विलम्बमानम् ध्वजमनुयान इन्द्रमर्च्॑यमानम् ॥४६॥ सौन्दरनन्दे महाकाव्ये भार्यायाचितको नाम चतुर्थः सर्गः ॥४॥