सामग्री पर जाएँ

पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ सौन्दरनन्दं काव्यम् चतुर्थः सर्गः मुनौ ब्रुवाणेऽपि तु तत्र धर्म्मम् धर्म्म प्रति ज्ञातिषु चादृतेषु । प्रासादसंस्थो मदनैककार्य्यः प्रियासहायो विजहार नन्दः ॥१ ॥ स चक्रवाक्येव हि चक्रवाकस्तया समेतः प्रियया प्रियार्हः। नाचिन्तयवैश्रमणं न शक्रम् तत्स्थानहेतोः कृत एव धर्म्मः ॥२॥ लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भन गर्व्वेण च मानिनीति । दौप्त्या च मानेन च भामिनीति यासौ बभाषे त्रिविधेन नाम्ना ॥३॥ सा हासहंसा नयनद्विरेफा पीनस्तनाभ्युन्नतपद्मकोषा । भूयो बभासे स्वकुलोदितेन स्वीपद्मिनी नन्ददिवाकरेण १४॥ रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन । मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्री पुरुषेषु नन्दः ॥५॥ सा देवता नन्दनचारिणीव कुलस्य नान्दौजननश्च नन्दः । अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा ॥६॥ 'तां सुन्दरीं चेत् न लभेत नन्दः सा वा निषेवेत न तं नतभूः । द्वन्द्वं ध्रुवं तत् विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ ॥७॥ कन्दर्परत्योरिव, लक्ष्मभूतम् प्रमोदनान्द्योरिव नौडभूतम् । प्रहर्षतष्योरिव पाचभूतम् द्वन्द्वं सहार[ं)स्त मदान्धभूतम् ॥८॥ परस्परोद्वीक्षणतत्पराक्षं परस्परं व्याहतसक्रचित्तम् । परस्परोद्वीक्षतत्परागक्षं परस्परं तमिथुनं जहार ॥६॥ भावानुरक्तौ गिरिनिर्झरस्थौ तौ किन्नरौ किंपुरुषाविवोभौ । चिक्रौडतश्चापि विरेजतुश्च रूपश्रियान्योन्यमिवाक्षिपन्तौ ॥१०॥