पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः 21 अकथंकथागृहिन एव परमपरिशुद्धदृष्टयः । स्रोतसि हि क्वृतिरे बहवो रजसस्तनुत्त्वमपि चक्रिरे परे ॥३६॥ ववृतेऽत्र योऽपि विषमेषु विभवसदृशेषु कश्चन । त्यागविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पथात्॥४०॥ अपि च स्वतोऽपि परतोऽपि न भयमभवत् न दैवतः । तत्र च सुखसुभिक्षगुणैः जह्रषुः प्रजाः कृतयुगे राज्ञो मनोरिव ॥४१॥ इति मुदितमनामयन्निरापत्कुरुरधुपुरुपुरोपमं पुरं तत् । अभवभयदैशिके महर्षौ विहरति तत्र शिवाय वीतराग इति ॥४२॥ सौन्दरनन्दे महाकाव्ये तथागतवर्णनो नाम तृतीयः सर्गः ॥३॥ १P.M. सोवसि ही सततरे बहवोरजसत्वतमपि चक्रिरे परे 1