पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ सौन्दरनन्दं काव्यम् गतपरमशङ्क [न] विषयरतिमगमत् जननमरणभयममितमभितो विजिघांसुः ॥६४॥ उद्देगात् अपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः । निशि नृपतिनिलयनात् वनगमनकृतमनाः सरस इव मथितनलिनात् कलहंसः ॥६५॥ सौन्दरनन्दे महाकाव्ये राजवर्णनो नाम द्वितीयः सर्गः ।