पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हितीयः सर्गः 11 अनिवेद्याग्रमहद्भ्यो नालिक्षत् किञ्चिदप्लुतः । गामधर्म्मेण नाधुक्षत् खरतर्षण गामिव ॥१६॥ नामृक्षत् कलिमप्राप्तम् नारुक्षत्मानमैश्वरम् । आगमैर्बुद्धिमाधिक्षत् धर्म्माय न तु कीर्तये ॥२०॥ क्लेशार्हानपि कांश्चित्तु नाक्लिष्ट क्लिष्टकर्मणः । आर्यभावाच्च नादिक्षत् द्विषतोऽपि सतो गुणान् ॥२१॥ आकृक्षत् वपुषा दृष्टौः प्रजानाम् चन्द्रमा इव । परखं भुवि नाम्मृक्षत् महा विषमिवौ (वो)रगम् ॥२२॥ नाक्रक्षत् विषये तस्य कश्चित् कैश्चित् क्वचित् क्षतः2 । अदिक्षत् तस्य हस्तस्थमार्तेभ्यो ह्यभयं धनुः ॥२३॥ कृतागसोऽपि प्रणतान् प्रागेव प्रियकारिणः । आदर्शस्निग्धया दृष्ट्या लक्षणेन वचसासिचत् ॥२४॥ बतौरध्यगमत् विद्या विषयेव्वकुतूहलः । स्थितः कार्त्तयुगे धर्मे धर्म्मात् कृच्छेऽपि नाखसत् ॥२५॥ अवर्द्धिष्ट गुणैः शश्वदधत् मित्रसम्पदा । अवर्तिष्ट च वृद्धेषु नावृतत् गर्हिते पथि ॥२६॥ शरैरमौशमच्छचून गणै3बन्धूनरौरमत् । रन्ध्रैर्नाचूचुदत् मृत्यान् करैः नापौपिडत् प्रजाः ॥२७॥ रक्षणात् चैव शौर्य्याच्च निखिला गामवीवपत् । P. M. नाधअयुक्षत T. २ P.M. कुतः। ३ P. M. शाणैः।