पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

10 काव्यम् हितं विप्रियमप्युक्तो यः शुश्राव न चुक्षुभे । दुष्कृतं बहपि त्यक्त्वा सम्मार कृतमण्वपि ॥ प्रणताननुजग्राह विजग्राह कुलद्विंषः । आपन्नान् परिजग्राह निजग्राह स्थिता(न्] पथि ॥१०॥ प्रायेण विषये तस्य तच्छौलमनुवर्तिनः । अज़यन्तो ददृशिरे धनानीव गुणानपि ॥११॥ अध्ये(ध्य)ष्ट यः परं ब्रह्म नाध्यै(ध्या)ष्ट सततं धृतेः । दानान्यदित पात्रेभ्यः पापं नाकृत किञ्चन ॥१२॥ धृत्या रक्षौत्प्रतिज्ञा स सद्दाजीवोद्यतां धुरम् नह्यकाङ्क्षीत् च्युतः1 सत्यान्मूहर्त्तमपि जीवितम् ॥१३॥ विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया । ब्यरोचिष्ट च शिष्टेभ्यः मासौषे चन्द्रमा इव ॥१४॥ अवेदीत् बुद्धिशास्त्राभ्याम् इह चामुत्र च क्षमम् । अरक्षीत् धैर्यवौर्याभ्यां इन्द्रियाण्यपि च प्रजाः ॥१५॥ अहा! त् दुःखमार्त्तानाम् द्विषतां चोर्जितं यशः । अहार्षी(त् ) च नयेर्भूमिं भूयसा यशसैव च ॥१६॥ अय्यासीत् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः । नाधौषीत् च यशोलोभात् अन्यायाधिगतैर्धनैः ॥१७॥ सौहार्हदृढभक्तित्वात् मैत्रेषु विगुणेष्वपि । नादिदासीत् अदित्मौत्तु सौमुख्यात् सस्ंव(त्त्व)मर्थवत् ॥१८॥ १ P. M. राक्षीत् । 2 P. M. Catonema: P. L. M. indistinot आदत