पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः सन्निधानमिवार्थानाम् आधानमिव तेजसाम् । निकेतमिव विद्यानाम् सङ्केतमिव सम्पदाम् ॥५३॥ वासवृक्षं गुणवताम् आश्रयं शरणैषिणाम् । आनर्त्तं कृतशास्त्राणाम् आलानं बाहुशालिनाम्1 ॥५४॥ समाजैरुत्सवैः दायैः क्रियाविधिभिरेव च । अलंचक्रुरलंवौर्खास्ते जगद्धाम तत्पुरम् ॥५५॥ यस्मादन्यायतस्ते च कञ्चिन्नात्करत्करम् । तस्मादल्पेन कालेन तत्तदापूपुरन् पुरम् ॥५६॥ कपिलस्थ च तस्यर्विस्तस्मिन्नाश्रमवास्तुनि । यस्मात्ते तत् पुरञ्चक्रुः तस्मात् कपिलवास्तु तत् ॥५॥ ककन्दस्य मकन्दस्य कुशाम्बस्थेव चाश्रमे । पुर्य्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥५॥ आपुः पुरं तत् पुरुइतकल्या- स्ते तेजसार्येण न विस्मयेन । आपुर्यशो गन्धमतच्च शश्वत् सुता ययातेरिव कीर्तिमन्तः ॥५६॥ तन्नाथवत्तैरपिराजपुत्रै- रराजकं नैव रराज राष्ट्रम् । १. P. M. आहानां नामसालिनाम् । शान्दिनाम् । २.P. M. दाश्रियैः। P.L.M, चालाना बाज- ३P.M. टकन्दस्य।