पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः


श्राम्यन्तो मुनयो य च स्वर्गायोयुक्तचेतसः ।
तपोरागेण धर्मास्य विलोपमिव चक्रिरे ॥१७॥
 अथ तेजस्विसदनं तपःक्षेत्रं तमाश्रमम् ।
केचिदिवाकवो जम्मू राजपुत्रा विवत्सवः ॥ १८॥
सुवर्णस्तम्भवाण: सिंहोरस्का महाभुजाः ।
पात्रं शब्दस्य महतः श्रियाञ्च विनयस्य च ॥१६॥
अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः ।
प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातव्यस्य यवौयसः ॥२०॥
मातृशुल्कादुपगतां ते श्रियं न विषेहिरे।
ररक्षुश्च पितः सत्यं यस्माच्छिश्रियिरे वनम् ॥२१॥
तेषां मुनिरूपाध्यायो गोतमः कपिलोऽभवत् ।
गुरोर्गोत्रादतः कौत्सास्ते भवन्ति स्म गौतमाः ॥२२॥
एकपित्रोर्यथा भात्रोः पृथग्गुरुपरिग्रहात् ।
राम एवाभवत् गार्ग्यो वासुभद्रोपि गोतमः ॥२३॥
शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्वताः ॥२४॥


१P. M. तेजाखसदने । २ P. M. क्षत्रं ।

P. M. विवखभूः। 8 P. M. मेदतः। ५P. M. श्रिया च । ६ P. M. ह्यनेहस्य । ७ P. M. सरक्षुश्च । P. M. गर्यो।

  • PM पाोकवनपरिमन्न।