पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


             

६ ८
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
प्रज्ञे स्थिरत्व भज । लजे तिष्ठ पराङ्मुखी क्षणमहो तृष्णे
पुरः स्थीयता पापो यावदहं ब्रवीमि धनिनं देहीति दीन
वचः ॥ ६९ ॥ यो गङ्गामतरत्तथैव यमुना यो नर्मदा शैर्मदा
का वाती सरिदम्बुलङ्घनविधैौ यश्चार्णवास्तीर्णवान् !
सोऽस्माक चिरमास्थितोऽपि सहसा दारिद्यनामा सखा
त्वद्दानाम्बुसरि॒ष्यवाहळुहरीमग्नो नै सभाव्यते ॥ ७० ll
दारिश्याद्भियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते निःसत्त्वः परि-
भूयते परिभवान्निर्वेर्दमापद्यते । निर्विण्णः शुचमेति शोक-
निहतो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता
सर्वापदामैस्पदम् ॥ ७१ ॥ शीतेनोद्धृषितस्य माषशिमिव-
चिन्तार्णवे मज्जतः शान्ताग्नेि स्फुटिताधरस्ख धमतः क्षुत्क्षाम-
कण्ठस्य मे | निद्रा काप्यवमानितेव दयिता सल्यज्य दूर
गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ ७२ |॥
दारिद्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा
विमुखीभवन्ति सुहृद्. स्फारीभवन्त्यापदः । सत्त्व
हृासमुपैति शीलशशिनः कान्तिः परिम्लायते पाप
कर्म च यत्परैरपि कृतं तत्तस्य सभाव्यते ॥ ७३ ॥
सङ्ग नैव हि कश्चिदस्य कुरुते सभाष्यते नादरा-
त्संप्राप्तो गृहमुत्सवेषु धनिना सावज्ञमालोक्यते । दूरादेव
महाजनख विहरत्यल्पच्छदो लज्जया मन्ये निधैनता प्रका-
ममपर षष्ठं महापातकम् ॥ ७४ ॥ पैौरेभ्यो न भय न
दण्डपतन त्रासो न वा भूपतेर्निःसङ्गं शयन निशासु गमनं
दुर्गेषु मार्गेषु च । दारिब्द्य सुखमेव केवलमहो दोषद्वय
वर्तते जाया निन्दति चाङ्गभेोगसमये मुञ्वन्ति वै याचकाः
॥ ७५ ॥ वासश्चर्म विभूषण शवशिरो भस्माङ्गलेपः सदा
ह्येको गौः स च लाङ्गलाद्यकुशलः सपत्तिरेतादृशी । इत्या-
लोच्य विमुच्य शकरमगाद्रत्त्राकर जाह्नवी कष्ट निधैनि-
कख जीवितमहो दारैरपि त्यज्यते ॥ ७६ ॥ मद्भेहे मुष-
पूर्णतडागसनिभमभूद्भाजन्मदीय गृहम् ॥ ७८ ॥ शीलं
शातयति श्रुत शमयति प्रज्ञा निहन्त्यादर दैन्य दीपयति
क्षमा क्षपयति व्रीडामपि ह्यस्यति | तेजो जर्जर-
१ सुखदात्रीम् २ न दृश्यते. ३ लज्जा प्रामोति. ४ लज्जा
युक्त ५ खेदम् ६ स्थानम् ७ अासनानि
यत्यपास्यति सति विस्तारयत्यर्थिता पुंसः क्षीणधनस्य किं
न कुरुते वैरं कुटुम्बग्रहः ॥ ७९ ॥ दारिद्येण समीरितापि
बहुशः कण्ठ समालम्बते कण्ठात्कष्टशतैः कथं कथमपि
प्राग्मोति जिह्वातलम् । जिह्वाकीलककीलितेव सुदृढ तस्मान्न
नियीत्यसैौ वाणी प्राणपरिक्षयेऽपि महता देहीति नास्तीति च
॥८०॥ दृष्ट दुर्जनचेष्टितं परिभवो लब्धः समानाजनात्पिण्डार्थे
धनिना कृत श्चलडितं भुक्त कपालेष्वपि । पद्भयामध्वनि
सप्रयातमसकृत्सुस तृणप्रस्तरे यच्चान्यत्र कृतं कृतान्त कुरु हे
तत्रापि सज्जा वयम् ॥ ८१ ॥ अासे चेत्खगृहे कुटुभ्ब-
भरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं
मुष्णन्ति मा तस्कराः । चैभ्रे चेत्खतनु त्यजामि नरकाद्भी-
रात्महत्यावशान्नो जाने करवाणि दैव किमह मर्तुं न वा
जीवितुम् ॥ ८२ ॥ मा भूज्जन्म महाकुले तदपि चेन्मा
भूद्विपत्सापि चेन्मा भूद्भरि कलत्रमस्ति यदि तन्मा भूद्दयार्द्रे
मनः | तचेदस्ति तदस्तु मृत्युरथ चेत्तस्यापि नास्ति क्षणस्त-
ज्जन्मान्तरनिर्विशेषसदसद्देशान्तरेऽस्तु स्थितिः ॥ ८३ ॥ यैः
कारुण्यपरिग्रहान्न गणित. खार्थ. परार्थे प्रति यैश्चात्यन्त-
दयापरैर्न विहिता वन्ध्यार्थिना प्रार्थना । ये चासन्परदुःख-
दुःखितधियस्ते साधवोऽस्त गताश्चक्षुः संहर बाष्पवेगम-
धुना कस्याग्रतो रुद्यते ॥ ८४ ॥ सक्तूल्छेोषयति दुतान्प्र-
तिकरोत्याक्रन्दतो बालकान्प्रत्यासिश्चति कर्परेण सलिलं
शय्यातृण रक्षति । धृत्वा यूर्ध्नि पुराणशूर्पशकलं शूत्ये गृहै
व्याकुला केि तद्यन्न करोति दुर्गतवधूर्देवे भृशं वर्षति |॥ ८९ ॥
दारिश्द्यक्षितिपः स मे निजपतिस्तस्य जीव-
नमम्बर दश दिशो वासश्च देवालये | लब्ध-
सगतिरिति त्वय्याश्रये कुप्यता मद्वृत्ति विनियोजितास्त्वदरयः
का नाम वृत्तिर्मम ॥ ८६ ॥ अासीत्ताम्रमयं शरीरमधुना
सैौवर्णवर्ण गत मुक्ताहारलताश्रुबिन्दुनिवहैर्निःश्वस्स मे
कल्पिता । स्वल्प स्खल्पमनल्पकल्पमधुना दीर्घे वयः कल्पितं
स्वामिन्दुःख भवत्प्रसादवशतः किं केि न लब्धं मया ॥ ८७ी
दानप्रशंसा
अनुकूले विधैौ देयं यतः र्पूरयिता हरिः । प्रतिकूले
विधौ देय यतः सर्वे हरिष्यति ॥ १ ॥ यद्ददाति यदश्नाति
तदेव धनिनो धनम् | अन्ये मृतस्य क्रीडन्ति दारैरपि
धनैरपि ॥ २ ॥ यद्ददासि विशिष्टेभ्यो यच्बाश्नासि दिने
दिने | तत्ते वित्तमह मन्ये शेषमन्यस्य रक्षसि ॥ ३ ॥
त्याग एको गुणः श्लाध्यः किमन्यैर्गुणराशिभिः || ल्यागा-
१ गर्ते २ दैवे ३ पूरणकर्ता