पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


             

दुर्जननिन्दा
५९
र्द्रभावे बीतरसे शुण्ठिशकल इव पुरुषै । अपि भूतभाजि|
मलिने नागरशब्दो विडम्बाय ॥ १९६ ॥ परितोषयिता न
कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोषकथाभिरैल्पकः
खजनं तोषयितुं किलेच्छति॥ १९७॥सैहजान्धदृशः खैदुर्नये
परदोषेक्षणदिव्यचक्षुषः सैवगुणेोच्चगिरो र्मुनिव्रताः पैरवर्ण-
ग्रहणेष्वसाधवः ॥ १९८ ॥ सुकुमारमहो लघीयसां हृदयं
तद्गतमप्रियं यतः । सहसैव समुद्रिरन्त्यमी क्षमयन्त्येव हि
तन्मनीषिणः |॥ १९९ ॥ उपस्कारपरः स्वभावतः सततं सर्व-
जनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी
तदुन्नतिः ॥ २०० ॥ परितप्यत एव नोत्तमः परितप्तोऽप्य-
परः र्मुसंवृतिः । परवृद्धिभिरैाहितव्यथः स्फुटुनिर्मेिन्नुदुशूश-
योऽधमः ॥ २०१ ॥ औनिराकृततापसंपदं 'फैलहीनां सु॑म-
नोभिरुज्झिताम् । खलतां खैलतामिर्वैाँसतीं प्रतिपद्येत कथं
बुधो जनः॥२०२॥ अपि वेत्ति षडक्षराणि चेदुपदेष्टुं **शिति-
कण्ठमिच्छति । वसनाशनमात्रमस्ति चेद्धैनैदादप्यतिरिच्यते
खलः ॥ २०३ ॥ अहमेव र्गुरु॑ः र्मुर्दुीारुणानामिति हालाहल
मा स्म तात र्दृठैयः। ननु सन्ति भवादृशानि भूयो भुवनेऽस्मि-
न्वचनानि दुजैनानाम् ॥ २०४ ॥ वदने विनिवेशिता भुर्जगी
पिशुनांनां र्रसैनामिषेण धात्रा । अनया कथमन्यथावलीढा
नहि जीवन्ति जना मनागमन्त्राः ॥ २०५ ॥ अमरैरमृतं
न पीतमब्धेर्न च हालाहलमुल्बणं हरेण । विधिना निहितं
खलस्य वाचि द्वयमेतद्वहिरेकमन्तरन्यत् ॥ २०६ ॥ वहति
विर्षैधैरानैपैटीरजन्मा शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः
॥ २०७ ॥ मधुरिमरुचिरं वचः खलानामसृतमहो प्रथमं
पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हाल-
हृलं विषं तदेव ॥ २०८ ॥ प्रकटमपि न संवृणोति दोषं
गुणलवलम्पट एष सैधुवर्गः । अतिपरुषरुषं विनापि दोषैः
र्पिशुनशुनां भषतां प्रयाति कालः ॥ २०९ ॥ अन्तर्वार्णेि
१ तुच्छः. २ स्वाभाविको अन्धा अपश्यन्ती दृग्येषां ते.
३ स्वदोषे. ४ अात्मप्रशंसायां प्रगल्भवाच इल्यर्थः. ५ मौनव्रतिनः.
६ परस्तुतिवचनेषु. ७ शोभना. संवृतिः परितापगोपनं यस्य
सः. ८ उत्पादितसंतापः. ९ स्फुटे निर्भिन्नः प्रकाशितो दुरा-
|शयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः. १० अनिराकृता न
निवारिता तापसंपत्तापातिशयो यया ताम्; पक्षे संतापजननैक-
स्वभावादपरत्रासतश्छायाविरहात्. ११ इहामुत्र चोपकारश्शून्याम् ;
पक्षे,-सर्वाथैरहिताम्. · १२ बुधैरुज्झिताम्; ' पक्षे,-पुष्पैर्वर्जिताम्.
१३ खस्य लताम्. गगनलतिकामिल्यथैः. १४ दुष्टाम्; पक्षे,-निरुपा-
ख्याम्. १५ शिवम्. १६ कुबेरात् .: १७ श्रेष्ठः. १८ अतिती-
व्राणाम् " १९ गर्वोद्धतो मा भव. ' २० जिह्वाच्छलेन. २१ सपीँन्.
२२ चन्दनम्. २३ शाख्नवित्,सज्जनो वा.
^~~~~→-~~~~-~~~~~^-~~^-~~→、~^~→-^-~~~~^-~~→、~-~
मन्यमानः खलोऽयं पैौरोभैाग्यं सैत्तिमुत्तासु धत्ते । सर्वैीँन-
न्दिन्यङ्गके कामिनीनाँमीमै मैीर्गत्येष वै बैम्भरालिः॥ २१० ॥
बोधितोऽपि बहुसूत्तिविस्तरैः किं खलो जगति सज्जनो
भवेत् । स्नापितोऽपि बहुशो नदीजलैर्गर्दभः क्रिमु हयो
भवेत्कचित् ॥ २११ ॥ विद्यया विमलयाप्यलंकृतो दुर्जनः
सैदसि मास्तु कश्चन । साक्षरा हि विपरीततां गताः केवलं
जगति तेऽपि राक्षसाः |॥ २१२ ॥ दोषपोषमभियाति परं
यो बाधमेति बहुसज्जनयोगात् । संमतौ विमतिमात्रसहायो
दुंर्जनो भ्रम इवातिचकास्ति ॥ २१३ ॥ ऊँछ्रतं पदमवाप्य
यो लैघुर्हेलयैव स पतेदिति ब्रुवन् । शैलशेखरगतः
पृ॑र्षद्गणश्चैाँरुमारुतर्धुतैः पैतैयधः ॥ २१४ ॥ 'भैग्मकुम्भ-
शकलेन वै मलं बालकस्य जननी व्यपोहति । तद्वदोष्ठवद्-
नेन दुर्जनो मातृतः शतगुणाधिको भवेत् ॥ २१५ ॥
एवमेव नहि जीव्यते खलाच्तत्र का नृपतिवल्लभे कथा |
पूर्वमेव हि सुदुःसहोऽनलः किंपुनः प्रबलवायुनेरितः॥२१६॥
अकरुणर्त्वर्मैकार॒णविग्रहः परधने परयोषिति च र॑र्धुहा ।
॥ २१७ ॥ इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतर-
देव . तत् । चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमि-
वासताम् ॥ २१८ क पिशुनस्य गतिः प्रतिहन्यते दशति
दृष्टमपि श्रुतमप्यसौ । अतिसुदुष्करमव्यतिरित्तदृक्छुतिभि-
रष्यथ दृष्टिविषैरिदम् ॥ २१९ ॥ नमः खलेभ्यः क इवाथवा
न तानलं नमस्येदिह यो जिजीविषुः । विनैव ये दोषमृषि-
प्रकाण्डवन्नयन्ति शापेन रसातलं नरान् |॥ २२० |॥ अका-
रणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं
महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे
॥ २२१ ॥ तथारिभिर्न व्यथते शिलीमुखैर्हतो दिगन्ते हृदये
न दूरतः । यथा खलानां कुधियां दुरुक्तिभिर्दिवानिशं
तप्यति मर्मताडितः ॥ २२२ ॥ गुणापवादेन तदन्यरोपणाद्भु-
|शाधिरूढस्य समञ्जसं जनम् | द्विधेव कृत्वा हृदयं निगू-
हतः स्फुरन्नसाधोर्विवृणोति वागसिः ॥ २२३ ॥ न दुर्जनः
सज्जनतामुपैति बहुप्रकरैरपि सेव्यमानः । भूयोऽपि सित्तः
पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ २२४ ॥.
न लज्जते सज्जनवजैनीयया भुजंगवक्रक्रिययापि दुर्जनः ।
१ दोषैकदृक्त्वम्. २ सूत्तय एव मुक्ताफलानि तासु. ३ सर्वेषा-
माह्रादके. ४ व्रणम्. ५ शोधयति. ६ मक्षिका. ७ सभायाम्-
८ उत्कर्षम्; पक्षे,-उच्चस्थानम्. ९ अल्पबुद्धिः; पक्षे,-अल्पपरिमाणः•
१० अम्बुकणासमुदायः. ११ मन्देन. १२ कम्पितः- १३ उत्कर्षा-
द्धीयते; पक्षे,-अधोदेशे पतति. १४ भिन्नशरावखण्डेन. १५ निरथै-
कविरोधः. १६ इच्छा. १७ असहनशीलता. १८: स्वभावसिद्धम्..