पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

५८
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
न विशति दोषो रसभाविते सता मनसि | रसमृपि तु न |
प्रतीच्छति बहुदोष, सनिपातीव ॥ १५६ ॥ परपरितापन-
कुतुकी गण॒यति नात्मीयमपि तापम् । परहतिहेतोः |
पिशुनः सदशं इव_ खपीडन स॒हुते ॥.१९७ ॥ सगुणापि |
हन्त विगुणा भवति खलास्खाद्विचित्रवणंांपि । अाखुमुखा-
दिव शैाटी पदपरिपाटी कवेः कापि ॥ १५८ ॥ कतिपय-
दिनपरमायुषि मदकारिणि यैौवने दुरात्मानः । विदधति
तथापराधं जन्मैव यथा वृथा भवति ॥ १५९ ॥ दुश्चरितैरेव
निजैर्भवति दुरात्मा विशङ्कितो नित्यम् । दर्शनपथमापन्न
पन्नगकुळुमा॒कुलीभवति ॥ १६१ ॥ खयमपि भैरिर्च्छिद्रुश्चा-|
पलमपि॒ि सैर्वतोमुखं तन्वन् । तितैउस्तुषस्य पिशुनो दोषस्य |
विवेचैनेऽधिकृतः ॥ १६१ ॥ पिशुनः खलु सुजनाना खल- ||
मेव पुरो निधाय जेतव्य. । कृत्वा ज्वरमात्मीयं जिगाय
बाणं रणे विष्णुः ॥ १६२ ॥ वक्राः कपटस्निग्धा मलिनाः
कर्णौन्तिके प्रसज्जन्तः । क भेदयन्ति न सखे खलाश्च गणि-
काकटाक्षाश्च ॥ १६३ ॥ कस्तूरिकामृगाणामण्डाद्गन्धगुण- ||
मखिलमादाय । यदि पुनरह विधिः स्या खलजिह्वाया निवे- ||
शयिष्यामि ॥ १६४ ॥ अाचरति दुर्जनो यत्सहसा मनसो-
ऽप्यगोचरानर्थान् । तन्न न जाने जाने स्पृशति मनः किं तु
नैव निष्ठुरताम् ॥ १६५ ॥ नष्टमपात्रे दानं नष्टं हितमफल-
बुद्धयवज्ञाने । नष्टो गुणोऽगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे
॥ १६६ ॥ रोगोऽण्डजोऽङ्कुरोऽग्निर्विषमर्श्वतरो घुणाः
कृमयः । प्रकृतिकृतघ्नश्च नरः खाश्रयमविनाश्य नैधन्ते
॥ १६७ ॥ अादौ लज्जयति कृतं मध्ये र्परिभवति रित्तमवसा-
ने । खलसगतस्य कथयत यदि सुस्थितमस्ति किञ्चिदपि
॥ १६८ ॥ परमर्मदिव्यदार्शिषु जालैयैवोचितनिगूढवैरेषु । !
क. खलु खलेषु शङ्का श्लथयिष्यति दम्भनिरतेषु ॥ १६९ ॥
अस्थानांभिनिवेशी प्रायो जड एव भवति नो विद्वान् | बा-
लादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्विम्बम् ॥ १७० ॥
लब्धोदयोऽपि हि-खल. प्रथम खजन तनोति परितापम् । उ-
द्वच्छन्दवैदहनो जन्मभुवं दारु निर्दहति ॥ १७१ ॥ अल्प-
श्रुतलव एव प्रायः प्रकटयति वाग्विभवमुचैः । सर्वत्र कु-
नट एव हि नाटकमधिक विडम्बयति ॥ १७२ ॥ प्रखला
एव गुणवतामाक्रम्य धुर पुरः प्रकर्षन्ति । तृणकाष्ठमेव जल-
घेरुपरि प्लवते न रखानि ॥ १७३ ॥ महता यदेव मूधैसु
तदेव नीचास्तृणाय मन्यन्ते | लिङ्गं प्रणमन्ति बुधाः काकः
पुनरासनीकुरुते ॥ १७४ ॥ सह वसतामप्यसता जलरु-
" १ यश्रविशेष , ‘चिमटा? ‘साडसी' इति लोके २ परिधानवस्त्र
विशेष' ३ बहुवाच्य , पक्षे,-बहुरन्भ्र ४ मौखर्यम्, पक्षे,-चापल्यम्
५ सकलजनसमक्षम्, पक्षे,-सर्वदिग्विषयम् ६ चालनी ७ निर्णये,
पक्षे,-स्वीकारे ८ *खेचर' इति लोके, मातर विनिहलैयैवास्य जन्म
भवति ९ दावानल
हजलवद्भवत्यसश्लेष. । दूरेऽपि सता वसता प्रीतिः कुमुदे-
न्दुवद्भवति ॥ १७५ ॥ साधयति यत्प्रयोजनमज्ञस्तत्तस्य
काकतालीयम् । दैवात्कथमप्यक्षरमुत्किरति घुणोऽपि काष्ठषु
॥ १७६ ॥ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते I
पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥ १७७ ॥
परमर्मघट्टनादिषु खलस्य यत्कौशल न तत्कृत्ये । यत्साम-
थ्यैमुपहतौ विषस्य तन्नोपकाराय ॥ १७८ ॥ अतिसत्कृता
अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । शिरसा महे-
श्चरेणापि ननु धृतो वक्र एव शशी ॥ १७९ ॥ वायुरिव
खलजनोऽय प्रायः पररूपमेति सपकत् । सन्तस्तु रविकरा इव
सदसद्योगेऽप्यसश्लिष्टा. ॥ १८० ॥ दूरेऽपि परस्यागसि
पटुर्जनो नात्मनः समीपेऽपि । खे व्रणमक्षि न पश्यति श-
शिनि कलङ्क निरूपयति ॥ १८१ ॥ साधुष्वेवातितरामरुतुदाः
स्खा विवृण्वते वृत्तिम् । व्याधा निघ्नन्ति मृगान्मृतमपि न
तु सिहमाददते ॥ १८२ ॥ अविकारिणमपि सज्जनमनिश-
मनार्य. प्रबाधतेऽत्यर्थम् । कमलिन्या किमिह कृत हिमस्य
| यत्ता सदा दहति ॥ १८३ ॥ खगुणानिव पर॒दोषा-
न्वक्तु न सतोऽपि शक्कवन्ति बुधा. । स्वगुणानिव परदोषान-
सतोऽपि खलास्तु कथयन्ति ॥ १८४ ॥ कृत्वापि येन लज्जा-
मुपैति साधुः परोदितेनापि । तदकृलैचैव खलजन, खय-
मुद्भिरतीति धिग्लघुताम् ॥ १८५ ॥ प्रकृतिखलत्वादसता
दोषु इद्वृ गुणोऽपि ब्रुष्धते_लोकान् । विषकुसुमानगू गन्ध.
सुरभिरपि मनासि मोहयति ॥ १८६ ॥ मृगमदकर्पूरागुरु-
चन्दनगन्धाधिवासितो लशुनः । न त्यजति गन्धमशुभ प्रकृ-
तिमिव सहोत्थिता नीच. ॥ १८७ ॥ उपकृतिरेव खलाना
दोषख गरीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति
व्याधयोऽत्यर्थम् ॥ १८८ ॥ न पर फलति हि किचि-
त्खल एवानर्थमावहति यावत् । मारयति सपदि विषतरु-
राश्रयमाण श्रमापनुदे ॥ १८९ ॥ खार्थनिरपेक्ष एव हि
परोपघातोऽसता व्यसनमेव । अशनायोदन्या वा विर॒मति
फणिनो न सदशत. ॥ १९० ॥ एकीभाव गतयोर्जलप-
यसोर्मित्रचेतसोश्चैव । व्यतिरेककृतौ शक्तिर्हसाना दुजैनाना
च ॥ १९१ ॥ शल्यमपि स्खलदन्तः सोदु शक्येत
हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीकदुर्वच-
नम् ॥ १९२ ॥ प्रारम्भतोऽतिविपुलं भृशकृशमन्ते विभेदकृ-
न्मलिनम् l महिषविषाणमिवान्मृजु परुष भयद खलप्रेम
| ॥ १९३ ॥ हेपयति प्रेियवचनैरादरमुपदर्शयन्खलीकुरुते ।
उत्कर्षयंश्च लघयति मूखैसुहृत्सर्वथा वज्र्यः ॥ १९४ ॥ अगुण-
कणो गुणराशिद्वयमपि दैवेन खलमुखे पतितम्। प्रसरति तैल-
मिवैक. सलिले घृतवजडत्वमेल्यन्यः ॥ १९५ ॥ तस्मिन्गता-
१ पिपासा.