पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४ ६
सुभाषितरत्नभाण्डागारम्

  • ^、

[ २ ॐभंकंश7ॐंà
खलसङ्गेऽपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ ३५ ॥ यथा
चित्त तथा वाचो यथा वाचस्तथा क्रियाः | चित्ते वाचि
क्रियाया च साधूनामेकरूपता ॥ ३६ ॥ विवेकः सह
सयत्या विनयो विद्यया सह । प्रभुत्ब प्रैश्रयोपेत चिहमेत-
न्महात्मनाम् ॥ ३७ ॥ उपकर्तुं प्रिय वक्तु कर्तुं लेहमै-
कृत्रिमम् । सज्जनाना स्वभावोऽयं केनेन्दुः शिशिरीकृतः
॥ ३८ ॥| निर्गुणेष्वपि सैत्त्वेषु दया कुर्वन्ति साधवः ।
नहि संहरते जैयोत्स्ना चन्द्रश्चैाण्डालवेश्मसु ॥ ३९ ॥
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु
यः साधुः स साधुः सद्भिरुच्यते |॥ ४० |॥ हृदयानि
सतामेव कृठिनानीति मे मतिः । खलवाग्विशिखैस्तीक्ष्णैर्भि-
द्यन्ते न मैनाग्यतः ॥ ४१ ॥ अपेक्षन्ते न च स्रेनर्ह न
पैीत्र न दैशान्तरम् । सर्दीँलोकहिते युक्ता रत्व्रर्दीपा इबो-
च्तमाः ॥ ४२ ॥ ब्रूतेऽन्यस्खासतोऽप्यार्यो गुणान्दोषास्तु
दुजैनः । तुल्येऽप्यसत्त्वे कि त्वेको गच्छत्यूर्ध्वमधोऽपरः
॥ ४३ ॥ सन्तो मनसि कृत्वैव प्रवृत्ताः कृत्यवस्तुनि ।
कस्य प्रतिश्टणोति स्म कमलेभ्यः श्रिर्ये रविः ॥| ४४ ॥
अामरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः । परित्यागाश्च
निःसङ्गा भवन्ति हि महात्मनाम् ॥ ४५ |॥ सन्त एव
सता नित्यमापदुद्धरणक्षमाः । गजाना पङ्कमश्झाना गजा
एव धुरंधराः ॥ ४६ ॥ नून दुग्धाब्धिमन्थोत्थाविमौ
सुजनदुजैनैौ ।,किं न्विन्दो. सोदरः पूर्वः का॒लकूटख चेतरः
॥,४७ ॥ गोत्रस्थिति न सूवन्ति सदा सैन्नतिमाश्रिताः ।
ऊँर्दैन्वन्तश्च सन्तश्च महासैर्दैवतयानया ॥ ४८ ॥ विगृ-
हीतः पदाक्रान्तो भूयोभूयश्च खण्डितः । माधुर्यमेवावहति
सुश्लेोक इव सज्जनः ॥ ४९ ॥ प्रकृतिप्रत्ययोपेतः सद्वृत्तः
साधुसमतः । अर्थीर्पणसमर्थश्च सुश्लोक इव सज्जनः
॥ ५० ॥ गुणोऽपि नून दोषाय दुषिधातोः खलख च |
सन्मार्गसिद्धये वृद्धिर्द्धजेः साधुजनख च ॥ ५१ ॥ मुश्व-
न्तश्चापलरस प्रस्थिताः पावने पथि । घना इवार्द्रहृदयाः
सन्तो जीवनहेतवः ॥ ५२ ॥ धनिनोऽपि निरुन्मादा
युवानोऽपि न चञ्चलाः । प्रभवोऽप्यप्रमत्तास्ते महामहिम-
शालिनः ॥ ९३ ॥ साधुरेव प्रवीणः स्यात्सद्रुणामृत-
चर्वणे | नवचूताङ्कुराखादकुशलः कोकिलः किल ॥ ५४ ॥
उत्तमः लेशविक्षोभ क्षमः सोढुं न हीतरः | मणिरेव
१ विनय • २ निष्फपटम्. ४ २ंने →
ण्डालगृहे ६ किंचिदपि. *ई-ं"ट्ट$.

' -भ॒ाण्डम् ९ अवस्थान्तरम्, पक्षे,-सूत्रवर्तिम् १० लोकाना

हित तस्मिन्नासक्ता , पक्षे,-अालोक प्रकाशस्तदेव हित तस्मिन्नामत्ता
१* ङळुमयीँदामू, पूक्षे- पर्वस्थितिम् १२ सन्नमनम् १३ स
१४ प्राणिन , पक्षे,-धैर्यम् मुद्र
→-~-~-~~~-~-~~、~-~-~~ -<--~>-~~*-~-、~- -~-~-~~^~→、 ~^~~^~~~^-~^、~^ ^~^-^~^~~^-^→
मईशाणघर्षर्णे न तु मृत्कणः ॥ ५५ ॥ सज्ज्ञंना एव
साधूना प्रथयन्ति शुणोत्करम् 1 धुशाणा सौरभ प्रायस्तैलुते
दिक्षु मारुतः ॥ ५६ ॥ खश1a नैव मुञ्चन्ति सन्त सस-
र्गतोऽसताम् !| न त्यजन्ति रुत मञ्जु काकसपर्कतः पिकाः
॥ ५७ ॥ सपत्तौ कोभ्{ल चित साधोरापदि कर्कशम् t
सुकुम्।९ मधौ पत्र तरोः यात्कठिन थुंच्चैौ ॥ ९८ ॥ खभाव
न जहालेयव साधुरापद्गतोऽपि सन् ! कर्पूरः पाबकस्पृष्टः
सौश्भ लभतेतराम् ॥ ५९ ॥ अप्याण्त्समयः साधो. प्रयाति
श्लाघनीयताम् | विधोर्येिधुंतुदास्कन्द्विपत्कालोऽपि सुन्दरः
|t ६० |॥ विना परीक्षा नो तत्त्व प्रसिद्व ज्ञायते सतः |
खवर्मबन्धान्नो शुद्धिर्ज्ञायते कर्षण विना ॥ ६१ ॥ दृष्टदुजैन-
दैौरात्म्यः सजने रज्यते जनः ! अारुह्य पर्वतं पान्थः सानैौ
निर्वृतिमेत्यलम् ॥ ६२ ॥ क्षुयक्षयिणि सापाये भोगे रज्यन्ति
नोक्तमा, । सत्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम्॥६३॥
उत्तग सुचिरं नैव विपदोऽभिभवन्त्यलम् ! राहुग्रसनसभूति.
क्षण विच्छाययेद्विधुम् ॥६४॥ प्रायः स्वभाव मुञ्चन्ति सन्तः
ससर्गतोऽसताम् । चण्डाश्चण्डातपात्पादा हिमाशोग्मृतयुजः
॥ ६५ ॥ तुल्य परोपतापित्व क्रुद्धयोः साधुनीचयोः । न
दाहे ज्वलतोर्भिन्न चन्दनेन्धनयोः क्षञ्चित् ॥ ६६ ॥ महतां
तादृश तेजो यत्र शाम्यन्त्यनैौजस. । अस्त यान्ति प्रकाशेन
तारका हि विवखतः' ॥ ६७ ॥ अास्थामालम्ब्य नीतेषु वश
क्षुद्रेष्वरातिषु । व्यक्तिमायाति महता माहात्म्यमनुकम्पया
॥ ६८ ॥ न गुणाः कापि पूज्यन्ते सत्खीकारो हि गैौरवम् ।
पीतिमा गुणसाम्येऽपि हरिद्रास्वर्णयोरिव ॥ ६९ ॥ अा'
किमर्थमिद चेतः सतामम्भोधिदुभैरम् । इति कुवेव दुर्वेघाः
परदुःखैरपूरयत् ॥ ७० ॥ काचो मणिर्मणि. काचो येषा
तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषा काचः काच्चो
मणिर्मणि. ॥ ७१ ॥ दोषानपि गुणीकर्तुं दोषीकर्तु
गुणानपि । शत्तो वादी न तत्तथ्य दोषा दोषा गुणा गुणा
॥ ७२ ॥ गुणराशिमहाभारनिर्भरापूरितान्तराः । संन्तो
गैौरवमायान्ति यदि तत्र किमद्भुतम् ॥ ७३ ॥ खात्मन्येव
लय याति तादृशो गुणिनां गुणः | स्वय प्रख्याप्यमानोऽपि
यस्तृणाय न मन्यते ॥ ७४ ॥ सुवृत्तखैकरूपस्य परप्रीत्यै
धृतोन्नतेः । साधोः स्तनयुगखेव पतनं कस्य तुष्टये ॥ ७५ |॥
च्युतोऽप्युद्भच्छति पुन, प्रज्ञावान्न तु मूढधीः । र्केन्दुकः पत-
नोत्थायी न तु कान्ताकुचद्वयी ॥ ७६ ॥ नालोकः क्रियते
सूर्ये भूः प्रतीप न धार्यते । नहि प्रत्युपकाराणामपेक्षा सत्सु
विद्यते ॥ ७७ ॥ दृष्ट्वापि दृश्यते दृश्य श्रुत्वापि श्रूयते पुनः।
१ कषभाषाणम्, *कसोटी' इति लोके. २ प्रसारयनि ३ ज्येष्टमासे
४ *चेडू' इति लोके प्रसिद्ध