२० सुभाषितरत्नभाण्डागारम्
सहसा विदधीत न क्रियामविवेकः परमापदा पदम् |(कि०अ०) सहसा हि कृतं पाप कथं मा भूद्विपत्तये | (क० स०) सहसि प्लवगैरुपासित नहि गुञ्जाफलमेति सोष्मताम् | (शि० ब०) सहस्रेषु च पण्डितः | सहायकृष्टैर्महता न सगतं भवन्ति गोमायुसखा न दन्तिन । (कि० अ०) सागर वर्जयित्वा कुत्र महानद्यवतरति | (अ० शा०) साधनेषु हि रतेरुपधत्ते रम्यता प्रियसमागम एव । (कि० अ०) साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिल- सिद्धि | (नै० च०) साधु सीदति दुर्जनः प्रभवति प्राप्ते कलौ दुर्युगे | साधूना दुर्जनाद्भयम् । (प० त०) साधूना हि परोपकारकरणे नोपध्यपेक्ष मन । साध्यासाध्यविचार हि नेक्षते भवितव्यता । (क० स०) सानुकूले जगन्नाथे विप्रियः सुप्रियो भवेत् । सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः | (शि० व०) सार गृह्णन्ति पण्डिताः । साहसं नैरपेक्ष्यं च कितवानां निसर्गजम् (क० स०) सिते हि जायेत शिते सुलक्ष्यता । (नै० च०) सिद्धि वा यदि वाऽसिद्धिं चित्तोत्साहो निवेदयेत् । (प०त०) सिध्यन्ति कुत्र सुकृतानि विना श्रमेण । सीमन्तिनीना कान्तोदन्त सुहृदुपगतः सगमा- त्किंचिदूनः । (मे० दू०) सुकविता यद्यस्ति राज्येन किम् । सुकृती चानुभूयैव दुःखमप्यश्रुते सुखम् । (क० स०) सुखं च मे शयनं च मे । सुखमास्ते निस्पृहः पुरुष । सुखार्थिनः कुतो विद्या । सुतप्समपि पानीय शमयत्येव पावकम् । (प० त०) सुदुर्ग्रहान्त करणा हि साधवः । (कि० अ०) सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसंगमे । (कि० अ०) सुपर्वणो हि स्फुटभावना या सा पूर्वरूपं फलभावनाया ॥ (शि० ब०) सुरेषु हि श्रदृधतां नभस्या सर्वार्थसिद्धाङ्गमिथः समस्या | (शि० व०) सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् । (किं० अ०) सुलभो हि द्विषा भङ्गो दुर्लभा सत्स्ववाच्यता (कि०अ०) सुहृदर्थमीहितमजिद्मधियां प्रकृतेर्विराजति विरुद्धमपि (शि० व०) सूर्यापाये न खलुकमलपुष्यति स्वामभिख्याम् (मे० दू०) सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा (र० व०) सेवाधर्म परमगहनो योगिनामप्यगम्यः | (भर्तृ०) सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः | स्तवे रवेरप्सु कृताप्लवैः कृते न मृद्वती जातु भवेत्कुमुद्वती (नै०च०) स्तोत्रं कस्य न तुष्टये | (कु० स०) स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः | स्त्रियो नष्टा ह्यभर्तृकाः । (वृ० चा०) स्त्रियो यथा विचेष्टन्ता निष्कम्पं हि सतां मनः (क० स०) स्त्रीचित्तमहो विचित्रमिति | (क० स०) स्त्रीचित्तस्येव दैवस्य को वेत्ति गहनां गतिम् । (क० स०) स्त्रीणां पति प्राणा न बान्धवाः (क० स०) स्त्रीणां प्रियालोकफलो हि वेष (कु० स०) स्त्रीणां भावानुरक्तं हि विरहासहन मनः । (क० स०) स्त्रीणामलीकमुग्ध हि वच को मन्यते मृषा ॥ (क० स ०) स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ (मे० दू०) स्त्रीपुमानित्यनास्थैषा वृत्त हि महितं सताम् । (कु० स०) स्त्रीपुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम् । स्त्री बुद्धि प्रलयावहा (का० नी०) स्त्रीभिः कस्य न खण्डितं भुवि मन (भर्तृ०) स्त्रीवचः प्रत्ययो हन्ति विचारं महतामपि । (क० स०) स्त्री विनश्यति रूपेण | (श० प०) स्त्रीषु वाक्संयम कुतः | (क० सं०) स्त्रीष्वनर्गलचेष्टासु कस्येच्छा नोपजायते ॥ (क० सं०) स्थातुं नियोक्तुर्नहि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन | (र० व०) स्थितः पृथिव्या इव मानदण्ड (कु० स०) स्थिरा शैली गुणवता । (कुव० न०) स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्कचित् | स्निग्धमुग्धा हि सत्स्त्रिय |(क० स०) स्निग्धो हि विरहायासे साधुवादं ददाति किम् | (क० स०) स्रुषात्वं पापानां फलमधनगेहेषु सुदृशाम् | स्रेहमूलानि दुःखानि (म० भा० ) स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगादिष्टे वस्तु- न्युपचितरसाः प्रेमराशीभवन्ति । (मे० दू०) स्नेहः खलु पापशङ्की (अ० शा०) स्पृशन्ति न नृशंसानां हृदयं बन्धुबुद्धयः (नै० च०) स्पृशन्त्यास्तारूण्यं क्रिमिव नहि रम्यं मृगदृशः | स्पृशन्नपि गजो हन्ति | (प० त०) स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः | (शि० व०) स्रोतोरर्त्नं विबुधतटिनी | (प्र० २भ०) स्वं जीवितमपि सन्तो न गणयन्ति मित्रार्थे ॥ (प० त०) स्वकर्मसूत्रग्रथितो हि लोकः ।
</poem>