संकीर्णप्रकरणम्
धिग्धिग्दृरादनशनपर्थ सर्गमेकान्तदुर्गम् ॥ ६२८ ॥ पूर्णा-
पूर्णे माने परिचितजनवृश्चनं तथा निल्यम् । मिथ्याक्रयस्य
कथनं प्रकृतिरियं खात्र्किराटानाम् ॥ ६२३ ॥ विवेकिन-
मनुप्राप्सा गुणा यान्ति म , सुतरा रत्लमाभाति
चामीकरनियोजितम् ॥ ६३० ॥' पूर्णेन्दुमालोक्य यथा
प्रीतिमाञ्जायते नरः । एवं यत्र प्रजाः सर्वा निर्वृतास्तच्छशि-
व्रतम् ॥ ६३१ ॥ सत्कृता लालिताश्चैव वैदेहि प्राकृता
स्त्रिय. | दरिद्रमवमन्यन्ते भर्तीर न तु सत्स्रियः ॥ ६३२ ॥
कश्चित्तरति काष्ठेन सुगम्भीरा महानदीम् । स तारयति
तत्काष्ठ स च काष्ठेन तार्यते ॥६३३॥ कुमुदान्येव शशाङ्कः
सविता बोधयति पङ्कजान्येव | वशिना हि परपरिग्रह-
सश्लेषपराङ्मुखी वृत्तिः ॥ ६३४ ॥ निर्गल्य न विशेद्भूयो
महता दन्तिदन्तवत् । कूर्मग्रीवेव नीचाना वच अायाति
याति च ॥६३५॥ बालिशस्तु नरो नित्यवैक्लव्यं योऽनुवर्तते।
स मज्जत्यवशः शोके भाराक्रान्तेव नैौजैले ॥|६३६॥ कुपुत्रे
नास्ति विश्वासः कुभार्याया कुतो रति. । कुराज्ये निर्वृति-
नस्ति कुदेशे नास्ति जीविका ॥६३७॥ जीवित च शरीरेण
जात्यैव सह जायते । उभे सह विवर्तेते उभे सह
विनश्यतः॥६३८॥ प्रज्ञाशुरेणाभिहतख जन्तोश्चिक्रित्स॒क॒ाः
सन्ति न चैोघधानि | न होममन्त्रा न च मङ्गलानि नाथर्वणा
माप्यगदा. सुसिद्धाः ॥६३९॥ बन्धनानि खळु सन्ति बहूनि
प्रेमरजु दृढबन्धनमुक्तम् । दारुभेदनिपुणोऽपि घडङ्घ्रि-
र्निष्क्रियो भवति पङ्कजकोशे ॥६४०॥ भार्या हि परमो ह्यर्थः
पुरुषस्यहृ पठ्यते | असहायस्य लोकेञ्ऽस्मिँल्लोकयात्रासहायिनी
॥ ६४१ ॥ कोशद्वंद्वमिय दधाति नलिनी कादम्बचर्द्धेक्षत
धत्त चूतलता नव किसलय पुंस्कोकिलास्वादेितम् ।
इत्याकर्ण मिथ. सखीजनवच. सा दीधैकायास्तते चैलान्तेन
तिरोदधे स्तनतट बिम्बाधर पाणिना |॥ ६४२ ॥ जानाति
विश्चासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् |
जानाति मात्रा च तथा क्षमा च तं तादृशं श्रीर्जुषते समग्रा
॥ ६४३ ॥ एकाग्रः स्यादविवृतो नित्यं विवरदशैक, ।
राजन्नित्ये सपत्त्रेषु नित्योद्विग्नः समाचरेत् ॥ ६४४ ॥ कर्म-
भूमिमिमा प्राप्य कर्तव्यं कर्म यच्छुभम् । अग्निर्वीयुश्च
सोमश्च कर्मणा फलभागिनः ॥ ६४५ ॥ न केिचित्सहसा
कार्य कार्य कायैविदा कचित् । क्रियते चेद्विविच्यैव तख
श्रेयः करस्थितम् ॥ ६४६ ॥ दातारो यदि कल्पशाखिभिरलं
यद्यर्थिनः किं तृणैज्ञीतिश्चदनलेन केि यदि सुहृद्दिव्यैौषधैः
किं फलम् । केि कर्पूरशलाकया यदि दृशोः पन्थानमेति
प्रेिया सैँ नसतीन्द्रजालमपर यद्यस्ति तेनापि क्रिम्
॥ ६४७ ॥ एकान्ते सुखमास्यता परतरे चेत. समाधीयता
प्राणात्मा सुसमीक्ष्यता जगदिदं तद्यापिर्ते दृश्यताम् l
१ ५० सु. र भ.
३९३
प्राकर्म प्रविलोष्प्यता चितिबलान्नाप्युत्तरे श्लिष्यता प्रारव्ध
त्विह भुज्यतामथ परत्रह्मात्मनास्थीयताम् ॥ ६४८ ॥ धूमा-
द्ाढमलीमसाच्छुचि पयः सूते घनस्योद्भमो लोहस्यातिशितस्य
जातिरचलात्कुष्ठाश्ममालामयात् | केि चाल्यन्तजडाजल-
द्युतिमतो ज्वालाध्वजस्योद्भवो जन्मावध्यनुकारिणो न महता
सत्यं खभावा. कचित् ॥ ६४९ ॥ भूतानामपरः कश्चिद्धि-
सायू सततोत्थित. । वश्च॒नाया च॒ लोकख स सुखेष्वेव
जीर्यूते ॥ ६ँ९० ॥ एकामिषप्रभ॒व॒मे॒व सहोदराणामुजृम्भते
जगति वैरमिति प्रसिद्वम् । पृथ्वीनिमित्तमभवत्कुरुपाडवाना
तीव्रस्तथा हि भुवन्ग्क्षयकृद्विरोधः ॥ ६५१ ॥ ते पिबन्तः
कपायाश्च सर्पींषि विविधानि च | दृश्यन्ते जरया भद्मा
नुगा नागैरिवोत्तमैः ॥ ६५२ ॥ न क॒ालख प्रियः कश्चिन्न
द्वेष्यः कुरुसत्तम । न मध्यस्थ. कचित्कालः सर्व कालः
प्रकर्पति ॥ ६५३ ॥ एकाकिना न गन्तव्यं यदि कार्य-
शतान्यपि । कर्कटीजन्तुमात्रेण कालसर्पो निपातितः
॥ ६५४ ॥ न दानै. शुध्यते नारी नोपवासशतैरपि । न
तीर्थसेवया तद्वद्भर्तु. पादोदकैयैथा ॥ ६५५ ॥ भैषज्यमेत-
दु खख यदेतन्नानुचिन्तयेत् । चिन्त्यमान हि न व्येति
भूयश्चापि प्रवर्धते ॥ ६५६ ॥ न दिष्टमप्यतिक्रान्तुं शक्यं
भूतेन केनचित् । दिष्टमेव ध्रुवं मन्ये पैौरुष तु निरर्थकम्
॥ ६९७ ॥ भिषजो भेषर्ज कर्तुं कस्मादिच्छन्ति रोगिणाम् l
यद्द्द्द्द्द्द्द्द्द्द्द्द्द्द्द् िकालेन पच्यन्ते॒ मेषजै किं प्र॒यो॒जनम् ॥ ६९८.॥
भायीं यस्य गृहे नित्यमतीव परिगर्विता | तस्य लक्ष्मीः
क्षर्ये याति कृष्णपक्षे यथा शशी |॥ ६५९ ॥ न कर्मणा
लभ्यते नेज्यया वा नाप्यस्ति दाता पुरुषस्य कश्चित् ।
पर्यीययोगाद्विहितं विधात्रा कालेन सर्व लभते मनुष्यः
॥ ६६० ॥, भोतु पुरुषकारेण दुष्टस्त्रियमिव श्रियम् ।
व्यवसाय सदैवेच्छेन्नहि ह्रीबवदाचरेत् ॥६६१॥ धूमायन्ते
व्यपेतानि ज्वलन्ति सहितानि च । धृतराष्ट्रोल्मुकानीव
ज्ञातयो भरतर्षभ ॥ ६६२ ॥ कुर्मः किल्व्रिषमेतदेव हृदये
कृत्वेति कौतूहृलात्सैवैरिण्य. क्षितिपाश्च धिक्चपलता क्रौयै
च कुर्यु' सकृत् । पापाक्रान्तधियो भवन्त्यथ यथा नान्त्या-
न्स्पृशन्त्योऽपि ता दूयन्ते न च ते यथा स्वपितरौ घ्नन्तोऽपि
शान्तत्रपा. ॥ ६६३ ॥ दुर्भिक्षादेव दुर्भिक्षं केशात्क्लेशं
भयाद्भयम् | मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः
॥ ६६४ ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे |॥ ६६५ |॥ जल-
रेखा खलप्रीतिरधैवारिघटस्थता । शिरसा धायैमाणोऽपि
खल, खलखलायते ॥ ६६६ |॥l जीवन्र्त मृतवन्मन्ये देहिन
धर्मवर्जितम् । मृतो धर्मेण सयुत्तो दीधैजीवी न संशय.
॥ ६६७ ॥ न वाचा दुर्गमः पारः कार्यणा राक्षसाधम ।
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४०८
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति