सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

      

संकीर्णश्प्रकरणम् ३८९
विपश्चिताम् ॥ ४६६ ॥ प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा । सर्व, कालवशं याति शुभाशुभसमन्वित ॥ ४६७ ॥
यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत
एव भावेि । अाहार्ययोगेण वियुज्यमान परण को नाम भवेद्विषादी ॥ ४६८ ॥ मधुरेणदृशा मानं मधुरेण
सुगन्धिना । सहकारोद्गमेनैव शब्दशेष करिष्यति
॥ ४६९ |॥ तद्भावभावनिरता तत्सयोगपरायणा | तमेव भूयो भर्तारं सा प्रेत्याप्यनुगच्छति ॥ ४७० ॥
मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः । मृत स
चाल्पदु खाय यावज्जीव जडो दहेत् ॥ ४७१ ॥ प्राकृतो
हि प्रशंसन्वा निन्दन्वा किं करिप्यति | वने काक
इवाबुद्धिर्वाशमानो निरर्थकम् ॥ ४७२ ॥ यस्मिन्यथा
वर्तते यो मनुष्यस्तश्मिस्तथा वर्तितव्य स धर्मः । मायाचारो मायया बाधितव्य साध्वाचारः साधुना प्रत्युपेयः ॥ ४७३ ॥ मयास्योपकृतं पूर्व ममाप्येष करिष्यति । इति यः क्रियते सधि प्रतीकार स्' उच्यते ॥४७४॥ युगान्ते चलते गेरु कल्पान्ते सप्त सागरा | साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ॥ ४७५ ॥ भवते सुहृदो यस्य समागच्छन्ति नित्यश । चित्ते च सौख्येन न केिंचेित्सदृर्शं भुवि ॥| ४७६ ॥ वणिक्प्रमादी भृतकश्च मानी भिक्षुर्विलासी ह्यघनश्च कामी । वराङ्गनाचाप्रियवादिनी च न ते च कर्मणि समारभन्ते ॥ ४७७ ॥ चितासहस्रेषु च तेषु मध्ये ताश्चतस्रोऽप्यसिधारतुल्या । नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ ४७८ ॥ कान्तावियोगः स्वजनापमान ऋणस्य शेषः कुजनस्य सेवा । दारिश्द्यभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ ४७९ ॥ यदा न योगोपचितासु चेतो मायासु मिद्धस्य विषज्नतेऽङ्ग । अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिको यत्र न मृत्युहासः ॥ ४८० ॥
गृहेश्वरी सद्रुणभूषिता शुभां पइग्वन्धयोगेन पति समेताम् । न लालयेत्पूरयेनैव कामं स केिं पुमान्न पुमान्मे मृतोऽस्ति |॥ ४८१ ॥ योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु
मूढः ॥ प्रलोभितात्मा ह्युपभोगबुद्धया पतङ्गवन्नश्यति नष्टदृटिः ॥ ४८२ ॥ एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियश्रीतिनिवर्तकस्य । अध्यात्मयोगे गतमानसस्य गोक्षो ध्रुवं नित्यमहिसकस्य ॥ ४८३ ॥ न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसङ्गे
निरतस्य चैव । न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ॥ ४८४ ॥ बालातपः प्रेतधूमः स्त्री वृद्धा तरुणं दधि । अायुष्कामो न सेवेत तथा समार्जनी रजः ॥४८५॥
नाश्नन्ति पितरो देवा क्षुद्रस्य वृषलीपतेः । भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे ॥४८६॥
सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः सर्वीत्मना न विसृजेद्वहिरिन्द्रियाणि । एकश्चरन्रहसि चित्तमनन्त ईशे युञ्जीत तद्द्गतिषु साधुषु चेत्प्रसङ्गः ॥४८७॥ धर्मः प्रवजितस्त्तपः प्रचलितं सत्यं च
दूरं गतं पृथ्वी वन्ध्यफला जनः कपटिनो लौल्ये स्थिता ब्राह्मणाः । मर्त्याः स्त्रीवशगा. स्त्रियश्च चपला नीचा जना उन्नता हा कष्टं खलु जीवितं कलियुगे धन्या जना ये स्मृताः ॥ ४८८ ॥ यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्यशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥ ४८९ ॥ यो धर्मशीलो
जितमानरोषो विद्याविनीतो न परोपतापी ॥ स्वदारतुष्टः परदारवर्जितो न तस्य लोके भयमस्ति केिंचित् ॥ ४९० ॥ अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । सिद्धेऽन्यथार्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः॥४९१॥ भयं प्रमत्तस्य वनेष्वपि स्याद्यतः स अास्ते सह षट्रसपत्नः। जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु
करोत्यवद्यम् ॥ ४९२ ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते
तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वस्तत्राफलाः
क्रियाः॥४९३॥ पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ४९४ ॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥४९५॥ ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा । पूर्वावाप्तं हरन्त्यन्ये राजधर्म हि तं विदुः ॥ ४९६ ॥ प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया । उदयास्तमनज्ञो हि न हृष्यति न शोचति ॥ ४९७ ॥ यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सतुष्टस्तस्य स्वर्ग इहैव हि ॥ ४९८॥ भोक्तुं पुरुषकारेण दुष्टस्त्रियमिव श्रियम् । व्यवसायं सदैवेच्छेन्न हि क्लीबवदाचरेत् ॥४९९॥ मार्दवं सर्वभूतानामनसूया क्षमा धृतिः। अायुष्याणि बुधा प्राहुर्भित्राणां चापि मानना ॥ ५०० ॥ पुन्नाम्नो
नरकाद्यस्मात्रायते पितरं सुतः। तस्मात्पुत्र इति प्रोत्तः
स्वयमेव स्वयंभुवा॥५०१॥ यस्य भार्या गृहे नास्ति
साध्वी च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ५०२ ॥ भस्मना शुध्यते
कांस्यं ताम्रमम्लेन शुध्यति । रजसा शुध्यते नारी नदी वेगेन शुध्यति ॥५०३॥ मा वन छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन् वनात्। वनं हि रक्ष्यते व्याघ्रैन्र्याघ्रान्रक्षतेि काननम् ॥५०४ ॥ यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।