<poem> ३८८ सुभाषितरत्नभाण्डागारम् ७ प्रकरणम् नीलोत्पलं कर्णे स्मरेणास्त्रं शरासवे । मयापि मरणे चेतस्त्रयमेतत्समं कृतम् ॥ ४२६ ॥ धनक्षयः शिष्टगर्हा सदाचारविवर्जनम् । ज्ञातिभिः पीडनं चैव द्यूतासत्तधिया नृणाम् ॥ ४२७॥ त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया। पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ ४२८ ॥ निर्दहति कुलशेषं ज्ञातीनां वैरसंभव. क्रोधः । वनमिव घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥ ४२९ ॥ पयोमुचः परीतापं हरन्येव शरीरिणाम् l नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ ४३० ॥ त्यजेद्धर्मं दयाहीनं विद्याहीनं गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्या निःस्नेहान्बान्धवांस्त्यजेत् ॥४३१॥ त्यजेत संचयांस्तस्मात्तज्जान्क्लेशान्सहेत वा । नहि संचयवान्कश्चिद्दृश्यते निरुप्रद्रवः ॥ ४३२ ॥ नौका च खलजिह्वा च प्रतिक्य्यऊलप्रवर्तिनी । प्रतारणाय ल्कानां दारुणा केन निर्मिता॥४३३॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः ॥ ४३४ ॥नोपभोगो न वा दानं बन्धुना भरणं न वा । तथापि गुरुतां धत्तेनृणां संरक्षितं धनम् ॥४३५॥ द्वावेव कथितौ सद्भिः पन्थानौ वदतां वर । अहिंसा चैव सत्यं च यत्र धर्मः प्रतिष्ठितः॥४३६॥ तृणोल्कया जायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः। शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु सुहृदश्चारयश्च ।। ४३७ ॥ निर्गुणस्य हृतं रूपं दुशीलस्य हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम् ॥ ४३८॥ दोग्घ्री धान्यं हिरण्यं च मही राज्ञा सुरक्षिता । नित्यम् स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ ४३९ ॥ मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा। ददात्यमित्रेष्वभियाचितः स्वं तमात्मवन्तं प्रजह्त्यनर्थाः ॥४४०॥ यत्र सूक्तं दुरुक्तं च समंस्यान्मधुसूदन। न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायकः॥४४१॥ भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणाम् ॥ यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ ४४२॥ मूर्खस्तु परिहर्तव्यः प्रत्यक्षे द्विपदः पशुः। भिनत्ति वाक्यशल्येन नरेण भाव्यं पुनस्त्यजन्ते पुनराश्रयन्ते ॥४४४॥ भूतानमपरः कश्चिद्धिंसायां सततोत्तिथ्तः । वञ्चयायां च लोकस्य स सुखेष्वेव जीर्यते ॥ ४४५ ॥ मृत्योर्वा ग्ऱुहमेतद्वै या ग्रामे वसतो रतिः । देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ ४४६ ॥ यः सर्वकालमबुधैः परिहस्यमानो मूलाङ्कूराद्यपि न जातु पुरस्करोति ।व्यापत्सु शास्त्रविटपि स फलं प्रसूय पुंसः किलकैपद एव लुनात्य्लक्ष्मीम् ॥ भैषजुअमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् । चिन्त्यात्मानां हि न व्येति भूयश्चापि प्रवर्धते ॥४४८॥ पुष्पं पुष्पं विचिन्वीत मूलक्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥४४९॥ मद्वेषो जडे प्रीतिः सुरुचिर्गुरुलङ्घ्ने । मुखे कटुकता नित्यं घनिनां ज्वरिणामिव॥४५०॥ यतसंग्रहे रत्नमहौषधीनां करोति सर्वव्यसनावसानम् । त्यागेन तद्यस्य भवेन्नमोऽस्तु चित्रप्रभावाय धनाय तस्मै ॥४५१।उपकारं करोम्यस्य ममाप्येषु करिष्यति । अयं चापि प्रीतिकारो रामसुघ्रीवयोरिव ॥ ४५२॥ महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलांश्च भोगाङ्सतान्नरेन्द्रान्वशमन्तकस्य॥३५३॥ यथा खरश्चन्दनभारवाही भारास्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि भहून्यधीत्य चार्थेषु मूढाः खरवद्वहन्ति ॥४५४॥ फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते । अनित्ये प्रियसंवासे कथं स्वापिषि पुत्रक॥४५५॥ यदा विनाशो भूतानां दृश्यते कालचिदितः । तदा कर्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ ४५६॥ प्रिया व मधुरा वा तु स्वाम्येष्वेव विराजते । श्रीरक्षणे प्रमाणं तु वा च सुनयकर्कशाः ॥ ४५७॥ महादेवो देवः सरिदपि च सैवामरसरिद्गुहा एवागारं वसनमपि ता एव हरितः । सुहृद्वा कालोऽयं व्रतमिदमदैन्यव्रतमिदं कियद्वावक्षायामो वटविटप एवास्तु दौइता ॥४५८॥ यथा तैलक्षयाद्दैवं प्रह्रासमुपगच्छति ॥४५९॥ प्राप्य कार्यं गरीयस्तु प्रियमुत्सृज्य दूरतः ॥ हितमेव वक्तव्यं सुहृदा मन्त्रिणा सदा ॥ ४६० ॥ मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्री समाचरेत् ॥४६१॥ यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्। तस्यां तस्यामवस्थानां तत्फलं स्मुपाश्नुते ॥ ४६२॥ भर्तारं किल या जारी छायेवनुगता सदा । अनुगछ्ति गच्छन्तं तिष्टन्तं चानुतिष्ठति ॥४६३॥ नहान्तमप्यर्थमधर्मयुक्तं यः संत्यजत्यनापकृष्ट एव । सुखं सुदुःखान्यवमुक्छ शेते जीर्णो त्वजं सर्प इवावमुच्य ॥४६४॥ यस्य चित्तं द्रवीभूतं क्ऱुओअया सर्वजन्तुषु ॥ तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥ ४६५ ॥ मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः । हरन्ति न तथा वाचो यथा साधुविपश्चिताम् ॥४६६॥
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४०३
दिखावट