संकीर्णप्रकरणम्
३८५
दिग्वल्कलादौ सति कि दुकूलैः' ॥ ३०७ ॥ भूतैराक्रम्य-
माणोऽपि धीरो दैववशानुगै, । तद्विद्वान्न चलेन्मार्गादन्व-
शिक्षं क्षितेर्ब्रतम् ॥३०८॥ प्राणवृत्त्यैव सतुष्येन्मुनिर्नैवेन्द्रिय-
प्रियै. । ज्ञानं यथा न नश्येत नावकीर्येत वाङमन ॥|३०९॥
गुणैर्गुणानुपादत्त यथाकाल विमुञ्चति ॥ न तेषु युज्यते देही
गोभिर्गा इव गोपति ॥ ३१० ॥ महीयसा पादरजोऽभिषेक
निष्किञ्चनाना न वृणीत यावत्॥३११॥ नवनीतोपमा वाणी '
करुणाकोमलं मन । वर्मवीजप्रसुतानामेतत्ग्रल्यक्षलक्षणम् !
॥ ३१२ ॥ कोकिलाना स्वरो रूपं नारीरूप पतित्रता । |ं
विद्या रूपं कुरूपाणा क्षमा रूप तपखिनाम् ॥ ३१३ ॥
कि जीवितेन धनमानविवर्जितेन मित्रेण क्रि भवति भीति- !
सशकितेन । सिहव्रतं चरत गच्छत मा विषादं काकोऽपि
जीवति चिर च बलि च भुक्तेत ॥ ३१४ ॥ तन्र्मगलं यत्र
मनः प्रसन्नै तज्जीवन यन्न परस्य सेवा | तद्भर्जिर्ते यत्स्व-
जनेन भुक्तं तद्वर्जितं यत्समरे रिपूणाम्॥ ३१५॥ वेदादि-
शास्त्रमखिर्ले प्रपठन्तु लोका कुर्वन्तु नाम सततं क्षितिपाल- ||
सेवाम् । उग्रं तपः प्रतिदिनं प्रतिसाधयन्तु न श्रीस्तथापि च l
मजल्यतिभाग्यहीनम् ॥ ३१६ ॥ त्यक्त्वालमान्दैवपरान्मनु- !
ष्यान् उत्थानयुक्तान्पुरुषाद्धि लक्ष्मीः । अन्विष्य यत्त्राद्वृणुया-
त्रूपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम् ॥ ३१७ ॥ नित्य
छेदस्तृणाना धरणिविलिखन पादयोश्चापमार्ष्टिर्दन्तानाम-
ल्पशौचं मलिनवसनता रूक्षता मूर्धजानाम् । द्वैसध्ये चापि
निद्रा विवसनशयनं ग्रासहासातिरेकः स्खागे पीठे च वाद्यं
हरति धनपतेः केशवखापि लक्ष्मीम् ॥ ३१८ ॥ कुचेलिनं
दन्तमलोपधारिण बह्वाशिन निष्ठुरवाक्यभाषिणम् । सूर्योदये
ह्यस्तमयेऽपिशायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥३१९॥ !
तद्वीर्यादधिकं यस्तु पुनरन्यत्खशत्तितः । निष्यादयति त
प्राज्ञा प्रवदन्ति नरोत्तमम् ॥३२०॥ भिक्षाशी जनमध्यसङ्ग-
रहैितः खायत्तचेष्ट सदा दानादानविरक्तमार्गनिरतः कश्चि-
च्तपस्वी स्थित, । रथ्याकीर्णविशीर्णजीर्णवसनैरास्यूतकन्थाधरो
निर्मानो निरहंकृतिः शमसुधाभोगैकबद्धस्पृहः ॥ ३२१ ॥
रोहते सायकैर्विद्ध वनं परशुना हतम् । वाचा दुरुत्तं बीभत्स
न सरोहति वाक्क्षतम् ॥ ३२२ ॥ शय्या शैलशिला गृहं
गिरिगुहा वस्त्रं तरूणा त्वच सारगा. सुहृदो ननु क्षितिरुहा
वृत्तिः फलै कोमलै, । येषा नैर्झरिणाम्बु पानमुचित रत्यै
च विद्याङ्गना मन्ये ते परमेश्वरा. शिरसि यैबैद्धो न
सेवाञ्जलि, ॥३२३॥ स्वामिनि गुणान्तरज्ञे गुणवति भृत्येञ्ऽ-
नुवर्तिनि कलत्रे । मित्रे चानुपचर्ये नेिजेद्य दुःखं सुखी
भवति ॥ ३२४ ॥ ताम्बूलं कटु तिच्तमिश्रमधुर क्षार कषा-
`४< सु र. +{.
यान्वित वातघ्न कफनाशनं कृमिहरं दॉर्गन्ध्यदोषापहम् ।
वक्रस्याभरण मलापहरणं कामाग्निसदीपनं ताम्बूलस्य सखे
त्रयोदश गुणाः स्वर्गेऽप्यमी दुलैभाः ॥ ३२५ ॥ यः पित्रा
समुपात्तानि धनवीयैयशासि वै । न्यूनता नयति ब्राज्ञस्तमाहुः
पुरुषाधमम् ॥३२६॥ भोगा भङ्गुरवृत्तयो बहुविधारैतैरेव चायं
भवस्तत्कखेह कृते परिंभ्रमथ रे लोकाः कृतं चेष्टितैः ।
अाशापाशशतोपशान्तिविशद चेत समाधीयता कभ्यो-
त्पत्तिवशे स्वधामनि यदि श्रद्धयमस्मद्वच. ॥ ३२७ |॥ लज्जा
गुणैौघजननीं जननीमिव खामल्यन्तशुद्धहृदयामनुवर्तमानाः।
तेजस्विन सुखमसूनपि सत्यजन्ति सत्यव्रतव्यसनिनो न पुनः
प्रतिज्ञाम् ॥ ३२८ ॥ शीघ्रकृत्येषु कार्येषु नरो यदि विल-
न्बते । तत्कृत्यं देवतास्तस्य कोपाद्विघ्घ्घ्घ्घ्घ्घ्नन्त्यसशयम् ॥ ३२९ ॥
अात्मभाग्यक्षतद्रव्य. स्त्रीद्रव्येणानुकम्पितः* ! अर्थत* पुरुषो
नारी या नारी साऽर्थत पुमान् ॥ ३३० ॥ दक्षता भद्रता
दाढयै क्षान्तिः लेशसहिष्णुता । सतोष* शीलमुत्साहो मण्ड-
यन्त्यनुजीविनम् ॥ ३३१ ॥ यदुपात्तं यशः पित्रा धनं
वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः
स्मृतः ॥ ३३२ ॥ प्रियमेवाभिधातव्यं नित्यं सल्सु द्विषत्सु
च | शिखीव केकामधुरः प्रियवाश्कस्य न प्रियः |॥ ३३३ |॥
राज्ञो विपद्वन्धुवियोगदुःखं देशच्युतिर्दुगैममार्गखेदः |
अास्खाद्यतेऽस्याः कटु निष्फलायाः फल मयैतच्चिरजीवितायाः
॥ ३३४ ॥ वीतव्यसनमश्रान्तं महोत्साहं महामतिम् |
प्रविशन्ति सदा लक्ष्म्य. सरित्पतिमिबापगाः ॥ ३३५ ॥
स्थानमुत्सृज्य गच्छन्ति सिहाः सत्पुरुषा गजाः | तत्रैव
निधनं यान्ति काका. कापुरुषा मृगाः ॥ ३३६ ॥ के वा न
सन्ति तामरसावतंसा ईसावलीवलयिनो जलसनिवेशाः |
कि चातकः फलमपेक्ष्य सवज्रपाता पौरदरीमुपगतो नव-
वारिधाराम् ॥|३३७॥ मानमुद्वहतः पुंसो वरमापत्पदे पदे |
मानहीनं सुरै. सार्घ वेिमानमपि सत्यजेत् ॥ ३३८ ॥
पुनर्दाराः पुनर्वित्तं पुनः क्षेत्रं पुन, पुनः । पुनः शुभाशुर्म
कर्म शरीर न पुनः पुनः ॥ ३३९ ॥ रथः शरीर पुरुषस्य
राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्चाः । तैरप्रमत्तः कुशली
सदश्चैदीन्तैः सुखं याति रथीव धीरः ॥ ३४० ॥ विधात्रा
रचिता रेखा ललाटेऽक्षरमालिका । न ता माजैयितुं शक्तः
स्वबुद्धयाप्यतिपण्डितः |॥|३४ १|॥ सत्यं जना वच्मि न पक्ष-
पाताल्लेोकेषु सर्वेषु च तथ्यमेतत् । नान्यन्मनोहारि नितम्बि-
नीभ्यो दुःखस्ख हेतुर्न च कश्चिदन्यः ॥३४२॥ एकं भूमिपतिः
करोति सचिवं राज्ये प्रधानं यदा त मोहाच्छूयते मदः स
च मदाद्दाखेन निर्विद्यते | निर्विण्णस्य पदं करोति हृदये
तस्य स्वतन्त्रस्पृहा स्वातत्रयस्पृहया तत* स नृपतेः प्राणेष्वमि-
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४००
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति