शान्तरसर्निर्देशः
चरता नराणा श्रियो न किंचिद्विपदो न किचित् ॥ १६७ ॥
हरिष्यमाणो बहुधा परख करिष्यमाणः सुतसपदादि !
घरिष्यमाणोऽरिशिरःसु पादं न स्वं मरिष्यन्तमवैति कोऽपि
॥ १६८ ॥ उतुङ्गवातायनगोपुराणि गृहाणि वित्तुानि दुर-
र्जितानि । क्षणाद्धःपातकराणि हन्त चितातिथेरस्य निर-
र्थकानि ॥ १६९ ॥ मरण प्रकृतिः शरीरिणा विकृतिर्जॉवन-
मुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभ-
वानसौ ॥ १७० ॥ क्षिपसि शुक वृषदशकरदने मृगमपै-
यसि मृगादनवदने ! वितरसि तुरगं महिषविषाणे विदध-
चेतो भोगविताने ॥ १७१ ॥ नलिनीदलगतजलमतितरलं
तद्वज्जीवितमतिशयचपलम् । विद्धि व्याधिव्यालग्रस्तं लोक
शोकहतं च समस्तम् ॥ १७२ ॥ अष्टकुलाचलसप्तसमुद्रा
ब्रह्मपुरंदरदिनकररुद्राः | न त्वं नाह नाय लोकस्तदपि
क्रिमर्थ क्रियते शोक' ॥१७३॥ चेतोहरा युवतयः सुहृदो-
ऽनुकूलाः सद्वान्धवाः प्रणतिगमैगिरश्च भृत्या. ! गर्जन्ति
दन्तिनिवहास्तरलास्तुरङ्गाः समीलने नयनयोर्न हि किंचि-
दस्ति ॥ १७४ ॥ मित्रं कलत्रमितरः परिवारलोको भोगैक-
साधनमेिमाः किल सपदो नः । एकः क्षणः स तु भविष्यति
यत्र भूयो नायं न यूयमितरे न वयं न चैते ॥ १७५ ॥
अहमिह कृतविद्यो वेदिता सत्कलाना धनपतिरहमेको
रूपलावण्ययुक्तः | इति कृतगुणगर्वः खिद्यते कि जनोऽयं
कतिपयदिनमध्ये सर्वमेतन्न केिचित् ॥ १७६ ॥ वयं येभ्यो
जाताश्चिरतरगता एव खलु ते समं यैः सवृद्धाः स्मरण-
पदवीं तेऽपि गमिताः | इदानीमेते स्मः प्रतिदिवसमासन्न-
पतना गतास्तुल्यावस्था सिकतिलनदीतीरतरुभि. ॥ १७७ ॥
यदस्माभिद्दैष्टं क्षणिकमभवत्स्वममिव तत्कियन्तो भावा.
स्युः स्मरणविषयादप्यवगताः । अहो पश्यन्पश्यन्स्खजन-
मखिल यान्तमनिर्श हतत्रीर्ड चेतस्तदपि न भवेत्सङ्गरहि-
.तम् ॥ १७८ ॥ अमीषा जन्तूना कतिपयनिमेषस्थितिजुषा
वियोगे धीराणा क इह परितापस्य विषयः | क्षणादुत्पद्यन्ते
विलयमपि यान्ति क्षणममी न केऽपि स्थातारः सुरगिरि-
पयोधिप्रभृतयः ॥ १७९ ॥ अायुर्वर्षशत नृणा परिमिर्त
रात्रौ तदर्ध गतं तस्याधैस्य परस्य चाधैमपर बालत्ववृद्ध-
त्वयोः । शेषं व्याधिवियोगदु खसहितं सेवादिभिर्नॉयते जीवे
वारितरङ्गबुद्बुदसमे सौख्यं कुत. प्राणिनाम् ॥ १८० ॥
रम्यं हम्र्यतलं न कि वसतये श्रव्यं न गेयादिकं कि वा
प्राणतमासमागमसुखं नैवाधिकं प्रीतये । केि तूद्धान्तपतत्पतङ्ग-
पवनव्यालोलदीपाङ्कुरच्छायाचञ्चलमाकलय्य सकलं सन्तो
वनान्तं गताः ॥ १८१ ॥ भूत्वा कल्पशतायुषोऽण्डजमुवः
सेन्द्राश्च देवासुरा मन्वाद्या मुनयो महीजलधयो नष्टाः
३७३
- ॥ | प॒राः कोटयः । गोहः केऽयमहाँ महानुदवर्ते लोकख
शोकावहो बन्धोः फेनममे गते वपुषि यत्पञ्चात्मके पश्चताम्
॥ १८२ ॥ अाक्रान्त मरणेन जन्म जरया यात्र्युल्बर्ण
यैौवनं सतोषो धनलिप्सया शैमसुखं प्रैौढाङ्गनाविभ्रैमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैरृपा दुर्जनैरस्थैर्येण
विपत्तयोऽष्युपहता ग्रस्तं न किं केन वा ॥ १८३ |॥
अाधिव्याँधिशतैजैनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र
पतन्ति तत्र विवृतद्वारा इव व्र्यैीपदः । जातै जातमवश्य-
माशु विर्वैशं र्मृत्युः करोर्तेयैात्मसात्तत्कि तेन॒ निर्र्ङ्कुशेन
विधिना यन्निर्मितं सुस्थिरम् ॥ १८४ ॥ भोगैास्तुङ्गतरङ्ग-
भङ्गचपला, प्राणाः क्षणध्वसिनः स्तोर्कॉन्येव दिनानि यैौवन-
सुखं स्फूर्तिः क्रियाखस्थिरा । तुसूसारमसारमेव निखिलं
बुद्भूा बुधा बोधका लेोकानुग्रहपेशलेन मनसा यत्त्र. समा-
धीयताम् ॥ १८५ ॥ भोगा मेघवितानमध्यबिलसत्सौदा-
मि॒िनीचबूला अायुर्वीयुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम्..!
लोला यैौवनलालसास्तनुभृतामिल्याकलय्य द्रुतं योगे धैर्यै-
समाधिसिद्धिसुलभे बुद्धि विदध्वं बुधाः ॥ १८६ ॥ साक्षा-
त्भ्रेम॒ावता॒रः कमलदलदृशो दिक्षु लक्ष्मीरनन्ताः सत्पुत्राः
सन्ति मित्राण्यपि विषमविपत्सविंभागी कुटुम्बः । एतत्सर्वे
हि तावत्सुकृतविलसितं दृश्यमान मनोज्ञं यचैतत्क्षिप्रनाश-
प्रणयि बत मनाइ म्लायते तेन चेतः ॥ १८७ ॥ अायुः
कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीरर्थाः सर्कैर्दैप-
कल्पा धैनैसमयतडिद्विभ्रमा भोगपूगा । कण्ठाश्लेषोपगूढं
तदपि च न चिर यत्प्र॑िर्यंीभिः प्रणीतं ब्रह्मण्यासक्तचित्ता
भवत भवभयाम्मोधिपार तरीतुम् ॥ १८८ ॥
कालचरितम्
मातुलो यस्य गोविन्दः पिता यस्य धनंजयः | सोऽपि
कालवर्शे प्रासः कृालो हि दुरतिऋमः ॥ १८९ ॥ पुरदर-
सहस्राणि चक्रवर्तिशतानि च | निवौपितानि कालेन प्रदीपा
इव वायुना ॥ १९० ॥ अद्यैव हसितं गीतं पठितं यैः
शरीरिभिः । अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम्
॥ १९१ ॥ म्रियमार्ण मृतं बन्धुं शोचन्ति परिदेविनः |
अात्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ १९२ ॥
ब्रह्मा विष्णुदिने याति विष्णू रुद्रस्य वासरे । ईश्चरस्य
तुथा सोऽपि क. कालं लङ्घ्रिर्तुं क्षमः ॥ १९३ ॥ अप्सु
पैर्लवन्ते पाषाणा मानुषा घ्ननैितं राक्षसान् ! ' कपयः कर्म
कुर्वन्ति कालख कुटिला गतिः ॥ १९४ ॥ औशनं मे
" १ उच्छ्रितम् २ शान्तिसुखम् ३ विलसै ४ विपत्तय ५ परा-
वीनम् ६ कालः ७ अात्माधीनम् ८ म्वतत्रेण ९ तुङ्गा उचा' ये
नरङ्गा ऊर्मयस्तेषा भङ्गस्तद्वच्चपला १० अल्पानि ११ मृदुलेन
?२ सकल्पतुल्या १३ वर्षाकालविद्युद्विलासा अतिचञ्चला इल्यर्थे •
१४ कान्ताभि १५ तरन्ति १६ भोजनम्