सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३७&
सुभाषेितरन्नभाण्डागारम्
[ ६ प्रकरणम्
वाराणसी ॥ ८१ ॥ स्मारखेरमदोन्नमत्कुचतटीकान्ताकरा-
न्दोलितैः पुष्याम्भोनिचितैरुशीररचितैः कि तालवृन्तैर्मम ।
अन्वानन्दवनं मुखं शिशयिषोरधैप्रमीलदृशो यात्|ायातपरि-
श्रर्मे शमयिता गङ्गातरङ्गानिलः ॥ ८२ ॥ एकद्वैः किम-
भावि सूरिभिरथ द्वित्राणि मित्राणि कि व्यापन्नानि गताश्च
किं त्रिचतुरा घोरा महाव्याधयः । सप्ताष्टैरलमिष्टमेतदपि
नश्चेत, क्षणान्पञ्चषान्खात्मन्येव रमस्व तेजसि गते कालेऽथ
वा सर्वतः ॥ ८३ ॥ नित्यानित्यविचारणा प्रणयिनी वैराग्य-
मेक सुहृन्मित्राण्येव यमादय. शमदमप्राया. सखायो
मताः । मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा
बलादुच्छेद्या रिपवश्च मेोहममतासकल्पवैरादयः ॥ ८४ ॥
पुण्यैर्मूलफलैः प्रियप्रणयिनी वृत्ति कुरुष्वाधुना भूशय्या
नवपल्लवैः कुरु तृणैरुत्तिष्ठ यामेो वने । क्षुद्राणामविवेकमूढ-
मनसा यत्रेश्वराणा सदा वित्तव्याध्यविवेकसकुलगिरा
नामापि न॒ श्रूयते ॥ ८५ ॥ भस्मोद्धूलन भद्रमस्तु भवृते
रुद्राक्षमाले शुर्मे हा सोपानपरम्परे गिरिसुताकान्तालयालं-
कृते । अद्याराधनलोषितेन विभुना युष्मत्सपर्यासुखालोको-
च्छेदिनि मेोक्षनामनि महामोहे निघीयामहे ॥ ८६ ॥
कृत्वा दीननिपीडना निजजने बद्धृा वचोविग्रहं नैवालेोच्य
गरीयसीरपि चिरादामुष्मिकीर्यातनाः । द्रव्यौघा पंरि-
सचिता. खलुठु मया यस्याः कृते साप्रतं नीवाराञ्जलिनापि
केवलमहो सेयं कृतार्थं तनुः ॥ ८७ ॥ रथ्यान्तुश्चरतस्तथा
धृतजरत्कन्थालवस्याध्वगंः सत्रास च सकीतुक च
सदयं दृष्टस्य तैर्नागरै. । निव्र्याजीकृतचित्सुधारसमुदा
निद्रायमाणख मे नि.शङ्कं र्करटः कदा करपुटीभिक्षा
विलुण्ठिष्यति ॥ ८८ ॥ सौजन्याम्बुमरुस्थली सुचरिता-
लेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छ-
च्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषा शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥ ८९ ॥
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भय माने दैन्य-
भय बले रिपुभयं रूपे जराया भयम् । शास्रे वादभयं
गुणे खलभय काये कृतान्ताद्भय सवै वस्तु भयान्वितं भुवि
नृणा वैराग्यमेवाभयम् ॥ ९० ॥ शय्या शाद्वैलमासनं शुचि
शिला सद्म द्रुमाणामधः शीर्त निईरवारि पानमशनं कन्दा.
सहाया मृगाः । इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको
वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥ ९१ ॥
याच्ञ्ञाशूत्यमयत्नलभ्यमशनं वायुः कृतो वेधसा व्यालाना
पशवस्तृणाङ्कुरभुज. सुस्थाः स्थलीशायिनः । ससारार्णव-
लङ्घनक्षमधिया वृत्तिः कृता सा नृणा यामन्वेषयता प्रयान्ति
सततं सर्वे समासि गुणाः ॥ ९२ ॥ बीभत्सा विषया जुगु-
प्सिततमः कायो वयो गत्वर प्रायो बन्धुभिरध्वनीव पथिकै-
र्योगो वियोगावहः | हातव्योऽयमसार एष विरसः ससार
इत्यादिकं सर्वखैव हि वाचि चेतसि पुनः कखापि पुण्या-
त्मनः ॥ ९३ ॥ पुत्रः स्यादिति दु.खितः सति सुते तस्या-
मये दुःखितस्तद्दुःखादिकमार्जने तदनये तन्मूर्खतादु खितः ।
जातश्चेत्सगुणोऽथ तन्मृतिभय तस्मिन्मृते दुःखितः पुत्रव्याज-
मुपागतो रिपुरयं मा कस्यचिजायताम् ॥ ९४ ॥, अा-
हारः फलमूलमात्मरचितं शय्या मही वल्कलं सर्वीताय
परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः । वस्रान्नाश्रयदान-
भोगविभवा निर्यन्त्रणा, शाखिनो मित्राणीत्यधिक गृहेषु
गृहिणा केि नाम दुःखादृते ॥ ९५ ॥ सूत्ति कर्णसुधा
व्यनक्तु सुजनस्तस्मिन्न मोदामहे ब्रूता वाचमसूयको विष-
मुचं तस्मिन्न खिद्यामहे | या यस्य प्रकृति, स ता वितनुता
कि नस्तया चिन्तया कुर्मस्तत्खळु कर्म जन्मनिगडच्छेदाय
यज्जायते ॥ ९६ ॥ यत्क्षान्तिः समये श्रुतिः शिव शिवे-
त्युक्तौ मनोनिर्वृतिर्भेक्षे चाभिरुचिधैनेषु विरतिः शश्वत्स-
माधौ रति. । एकान्ते वसतिर्गुरौ प्रतिनतिः सद्भिः सर्म
सगति. सत्त्वे प्रीतिरनङ्गनिर्जितिरसौ सन्मुक्तिमार्गे स्थितिः
॥ ९७ ॥ सभोगाद्विषयामिषस्य परित, सौहित्यमस्ताखिल-
ज्ञानोन्मेषतया कर्थे तव भवेदत्यास्पद देहिनः l साध्यं
तद्धि तदेव साधनमितो व्यावृत्तिरेवामिषात्तस्या ज्योतिरुपैत्य-
निन्धनमिदं दोषत्रयं धक्ष्यति ॥ ९८ ॥ सत्यं वक्तुमशेष-
मस्ति सुलभा वाणी मनोहारिणी दातुं दानवर शरण्यमभर्य
स्वच्छं पितृभ्यो जलम् । पूजार्थ परमेश्वरस्य विमलः खाध्याय-
यज्ञः पर क्षुद्ध्द्याधेः फलमूलमस्ति शमनं लेशात्मकैः
कि धनैः ॥ ९९ ॥ जिह्ने लोचन नासिके श्रवण हे त्वक्
चापि नो वायैसे सर्वेभ्योऽस्तु नमः कृताञ्जलिरहं सप्रश्रयं
प्रार्थये । युष्माकं यदि समतं तदधुना नात्मानमिच्छाम्यहं
होतुं भूमिभुजा निकारद्हनज्वालाकराले गृहे ॥ १०० `॥
भिक्षाहारमदैन्यमप्रतिहतं भीतिच्छिद् सर्वदा दुर्मात्सर्यमदा-
भिमानमथनं दुःखौघविध्वसनम् । सर्वत्रान्वहमप्रयत्लसुलर्भे
साधुप्रियं पावनं शभोः सत्रमवार्यमक्षयनिधि शंसन्ति योगी-
श्धराः ॥ १०१ ॥ मातर्लक्षिम भजस्व कंचिदपरं मत्का-
ङ्घ्रिणी मा ख्म भूर्भोगेभ्यः स्पृहयालवो नहि वयं का निःस्पृ-
हाणामसि । सद्य.स्यूतपलाशपत्रपुटके पात्रे पवित्रीकृते
भिक्षासक्तुभिरेव सप्रति वयं र्वृत्ति सैमीहामहे ॥ १०२ ॥
धैर्ये यख पिता क्षमा च जननी शान्तिश्चिर *गेहिनी सत्यं
सैनुरयं दया च भगिनी भ्राता मैनःसयमः । शय्या भूमि-
१ काक २ नवतृणमयम्
१ उपजीवनम् २वाद्दछामहे ३गृहृस्था पढ्ली ४पुत्र. ५मनोनिद्मद्र*.