सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

वीररसनिर्देशः, करुणरसनिर्देशः
वतो रेणुकाकण्ठबाधा बद्धस्पधैस्तव परशुना लज्जते चन्द्र
हासः ॥ ३४ ॥ अत्रै' सैबैरपि सयताग्रचरणो मूच्छी-
विरामक्षणे स्वाधीनव्रणिताङ्गशस्रनिचितो रोमोद्भम वर्ण-
यन् । भग्नानुद्वलयन्निजान् परभटान्सतर्जयन्निष्टुर धन्यो
धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ ३५ ॥ जन्मे-
न्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदा मा दुःशासन-
कोष्णशोणितसुराक्षीबं रिपु भाषसे । दर्पन्धो मधुकैटभद्विषि
हरावष्युद्धत चेष्टसे मत्रासाछृपशो विहाय समर पङ्केऽधुना
लीयसे ॥ ३६ ॥ वीरोऽसौ किमु वण्र्यते दशमुख-
श्छिनैः शिरोभिः खयं यः पूजास्रजमुत्सुको घटयितुं
देवस्य खङ्काङ्गिनः । सूत्रार्थाँ हरकण्ठसूत्रभुजगभ्याकर्षणा-
योद्यतः साटोपं प्रमथैः कृतभ्रुकुटिभिः, स्थित्वान्तरे वारितः
॥ ३७ ॥ सतुष्ट तिसृणा पुरमपि रिपैौ कण्डूलदोर्मण्डल-
क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम् । याच्ञादैन्य-
पराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो
मुखानि स दशग्रीवः कथ वण्यैते ॥ ३८ ॥ भूमात्रं क्रिय-
देतदर्णवमित तत्साधिते हार्यैते यद्वीरेण भवादृशेन वदति
त्रिःससूकृत्वो जय. । वीरोऽयं नवबाहुरीदृशमिदं घोर च
वीरत्रतं तत्क्रोधाद्विरम प्रसीद् भगवञ्जात्यैव पूज्योऽसि नः
॥ ३९ ॥ तात त्वं निजकर्मणैव गमितः खर्ग यदि खस्ति
ते ब्रूमस्त्वेकमिदं वधूहृतिकथ॒ा तातान्तिकं मा कृथाः ।
रामोऽहं यदि तद्दिनैः कतिपयैर्व्रॉडानमत्कंधरः सार्घ बन्धु-
जनैः सुरेन्द्रविजयी वत्ता खयं रावणः ॥४०॥ त्वय्यर्धासन-
भाजि केिनरगणोद्गीतैर्भवद्विक्रमैरन्तःसभृतमत्सरोऽपि भग-
वानाकारगुप्सैौ कृर्ती । उन्मीलद्भवदीयदक्षिणभुजारोमाश्चवि-
द्धोच्चरद्वाष्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥ ४१ ॥
शस्त्राशस्रिकथैव काननमगाद्गीर्वीणपाणिधमाः पन्थानो दिवि
सकुचन्ति वसुधा वन्ध्या न सुते भटान् । लक्ष्मीरप्यरवि-
न्दसौधवलभीनिव्र्यूहपर्यङ्किकाविश्रान्तैरलिभिनै कुञ्जरघटाग-
ण्डोत्करैर्मोदते ॥ ४२ ॥ अस्रेौघप्रसरेण रावणिरसौ यं दुयै-
शोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थेमानमाखण्डलम् ।
कच्छागर्तकुलीरता गमयता वीर त्वया रावर्णे तत्समृष्टमहो
विशल्यकरिणी जागर्ति सत्पुत्रता ॥ ४३ ॥ चत्वारो वय-
मृत्विजः स भगवान्कर्मोपदेष्टा हरिः सङ्ग्रामाध्वरर्दीक्षितो
नैरपतिः पैत्त्री गृहीतव्रता । कौरव्या. पशुव, प्रियापरिभ|व्-|!
ङ्केशोपशान्तिः फर्ले राजन्योपनिमन्त्रणाय रैंसति स्फीर्त यशो ां
दुन्दुभि, ॥ ४४ ॥ अद्यारभ्य कठोरकार्मुकलताविन्यस्त-
हस्ताम्बुजस्तावन्न प्रकटीकरोमि नयने शोणे निमेषो
दयात् । यावत्सायककेोटिपाटितरिपुक्ष्मापालमैौलिस्खलन्मल्ली-
॥ ४५ ॥ नो
तावत्कलयामि केलिकृपणे वामभ्रुवो लोचने तावन्न प्रणया-
वलीढमनसः पश्यामि मातुर्मुखम् । यावत्तारकुठारपात-
निपतत्प्रत्यर्थिपृथ्वीपतिभ्राम्यत्स्वर्णकिरीटबद्धशिरसो भ्राम्यन्ति
नो फेरव ॥ ४६ ॥ निः'पीते कलशोद्भवेन जलधौ
गौरीपतेर्गङ्गया होतुं हन्त वपुलैलाटदहने यावत्कृतः
प्रक्रमः | तावत्तत्र मया विपृक्षनगरीनारीदृगम्भोरुहद्वन्द्व-
प्रस्खलदस्रवारिपटलैः सृष्टा. पयोराशयः ॥ ४७ ॥ अा-
सज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्ति, । वक्षःपीठे घनास्र-
व्रणक्रिणकठिने सक्ष्णुवानः पृषत्कान्प्राप्सो राजन्यगोष्ठीवन-
गजमृगयाकौतुकी जामदश्यः ॥ ४८ ॥ क्षुद्राः सत्रासमेते
विजहित हरयो भिन्नमत्तभकुम्भा युष्मद्देहेषु लजा दधति
परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि
न हि रुषा नन्वहं मेघनाद. किंचित्सरम्भलीलानियमित-
जलधिं राममन्वेषयामेि ॥ ४& ॥ अस्त्रज्वालावलीढप्रति-
बलजलघेरन्तरौर्वीयमाणे सेनानादे स्थितेऽस्मिन्मम पितरि
गुरौ सर्वधन्वीश्वराणाम् । कर्णालं सभ्रमेण व्रज कृप
समर मुञ्च हार्दिक्य शङ्का ताते चापद्वितीये वहति रणधुरं को
भयस्यावकाश. ॥ ५० ॥ कृष्टा केशेषु भार्या तव तव च
पशेोस्तख राज्ञस्तयोर्वी प्रत्यर्क्षे भूपतीना मम भुवनपतेराज्ञया
द्यूतदासी । तस्मिन्वैरानुबन्धे वद किमप॒कृतं तैर्हता ये नरेन्द्रा
बाह्नोर्वीर्यातिभारद्रविणगुरुपदं मामजित्वैव गर्वः ॥ ५१ ॥
करुणरसनिर्देशः
यस्याः कुसुमशय्यापि कोमलाङ्गया रुजाकरी | साsधि-
शेते कर्थ देवी ज्वलन्र्ब्रीमधुना चिताम् ॥ १ ॥ साक्षा-
न्मघवतः पैौत्र, पुत्रो गाण्डीवधन्वनः । खस्रीयो वासु-
देवस्य तं गृध्राः पर्युपासते ॥ २ ॥ असहायः सहायार्थाँ
मामनुध्यातवान्ध्रुवम् । पीङयमानः शरैस्तीक्ष्णैद्रेॉणद्रौणि-
कृपादिभि. ॥ ३ ॥ मितं ददाति हि पिता मिर्ते भ्राता मितं
सुतः | अमितस्य प्रदातारं भर्तौर का न शोचति ॥ ४ ॥
अथ बद्धजटे रामे सुमत्रे गृहमागते । ल्यत्तो राजा सुत-
त्यागादविश्वरैतैरिवासुभिः ॥५॥ देशे देशे कलत्राणि देशे
देशे च बान्धवाः । तं देशं नैव पश्यामि यत्र भ्राता
सहोदर ॥ ६ ॥ प्रियस्य सुहृदो यत्र मम तत्रैव संमवः |
भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥ ७ ॥ विकृन्त-
ती॒व मर्माणि देहं शोषयतीव मे । दहुतीवान्त॒रारमानं क्रूरः
शोकाग्निरुत्थितः ॥ ८ ॥ अविशीर्णकान्तपात्रे नव्यदशे
१ युधिष्ठिर २ द्रौपदी ३ शब्द करोति
४६ सुg, र. भा.
सुमुखि सभूतस्नहे | मद्भेहदीपकलिके कथमुपयातासि