३६०
श्चन्दनबिन्दुभिर्मनसिजो देवः समाराधित, । नीता जागरण-
व्रतेन रजनी व्रीडा कृता दक्षिणा तप्सं केि न तपस्तथापि
स कथं नायाति नेत्रातिथिः ॥ १०३ ॥
वीररसनिर्देशः
भर्तृपिण्डानृणकरो यश, क्रयमहापण, । सुराङ्गनाखय-
ग्राहो रम्य. कालोऽयमागतः ॥ १ ॥ प्रायेण सुकर दार्न
प्रायेण सुकर तपः । प्राणानपेक्षी व्यापारः पुनर्वॉरस्य दुष्करः
॥ २ ॥ मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
एते वीरावलेोकिन्या लक्ष्म्या नयनविभ्रमा. ॥ ३ ॥
खङ्गास्तिष्ठन्तु मत्तभकुम्भकूटाट्टहासिन, । एकदोर्दण्ड-
शेषेऽपि कः सहेत पराभवम् ॥ ४ ॥ हतेऽभिमन्यौ क्रद्धेन
तत्र पार्थेन सयुगे । अक्षौहिणी. सस हत्वा हतो राजा
जयद्रथ. ॥ ५ ॥ लोहितायति चादित्ये त्वरमाणो धन-
जयः । पञ्चविशतिसाहस्रान्निजघान महारथान् ॥ ६ ॥
रथेभ्यो गजवाजिभ्यः सङ्ग्रामे वीरसकराः । पातिताः पात्य-
मानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ ७ ॥ पूर्णे शतसहस्रे
द्वे पदातीना नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव
पावक. |॥ ८ ॥ अाकर्णपलितः शयामेो वयसाऽशीति-
पञ्चकः । रणे पयैचरद्वोणो वृद्धः षोडशवर्षवत् ॥ ९ ॥
लक्ष्मणो लघुसधानी दूरपाती च राघव. । कर्णो दृढप्रहारी
च पार्थखैते त्रयो गुणा. ॥ १० ॥ न कालख न शक्रस्य
न विष्णोर्वित्तदख च । श्रूयन्ते तानि कर्माणि यानि युद्धे
हनूमतः ॥ ११ ॥ ससषष्टि हताः कोट्यो वानराणा तर-
स्विनाम् । पश्चिमेनाह्वःशेषेण मेघनादेन सायकैः ॥ १२ ॥
धृतधनुषि शौयैशालिनि शैला न नमन्ति यत्तदाश्चयैम् ।
रिपुसज्ञकेषु गणना कैव वराकेषु काकेषु ॥ १३ ॥ जीव-
नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृत-
मुख्भङ्गो दूरा॒त्करोति निर्देशमङ्गुल्या ॥ १४ ॥ रविमणिरपि
निश्चेष्टः पादैस्तिग्मद्युतेर्मनाक्स्पृष्टः । ज्वलतितरामिति को वा
मन्युं सोढुं क्षमो मानी ॥ १५ ॥ छिन्नेsपि शस्रभिन्नेऽप्या-
पत्पतितेऽपि निर्विशेषेऽपि । हनुमति कृतप्रतिज्ञे दैवमदैवं
यमोऽप्ययमः ॥ १६ ॥ लोकः शुभस्तिष्ठतु तावदन्य,
पराच्मुखाना समरेषु पुंसाम् । पत्ल्योऽपि तेषा न ह्रिया
मुखानि पुरः सखीनामपि दशैयन्ति ॥ १७ ॥ हा तात
तातेति स वेदनार्तः कणञ्छकृन्मूत्रकफानुलिप्तः । वर मृतः
कि भवने किमाजैौ सद्ष्टदन्तच्छदभीमवक्रः ॥ १८ ॥
समूर्चिछतं सयुगसप्रहारैः पश्यन्ति सुसप्रतिबुद्धतुल्यम् ।
अात्मानमङ्केषु सुराङ्गनाना मन्दाकिनीमारुतवीजिताङ्गम्
॥ १९ ॥ कश्चिद्विषत्खङ्गहृतोत्तमाङ्गः सद्यो विमानप्रभुता-
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
मुपेत्य | वामाङ्गससच्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे
ददशै ॥ २० ॥ ते क्षत्रिया. कुण्डलिनो युवानः परस्पर
सायकविक्षताङ्गा, । कुम्भेषु लग्ना. सुषुपुर्गजाना कुचेषु
लग्ना इव कामिनीनाम् ॥ २१ ॥ भूरेणुदिग्धा नवपारिजात-
स्रजो रजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणाः
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २२ ॥ सलीलयातानि न
भर्तुरभ्रमोर्न चित्रमुचै,श्रवस, पदक्रमम् । अनुद्रुतः संयति
येन केवलं बलख शत्रुः प्रशशंस शीत्रताम् ॥ २३ ॥
कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः प्रारब्धताण्डवविधिः
सुरकामिनीभिः । अालेोक्यते निजकराभिनयानुरूपव्यापारि-
तेक्षणनिवेदितसत्त्वसार. ॥ २४ ॥ स्त्रीषु प्रवीरजननी जननी
तवैव देर्वी खय भगवती गिरिजापि यख । त्वद्दो-
र्वशीकृतविशाखमुखावलोकत्रीडाविदीर्णहृदया स्पृहयाबभूव
|॥ २५ ॥ शस्त्रीकृतस्तरुचर. कपिपुंगवेन लङ्केशवक्षसि
मृणालमृदु पपात । तत्र स्थितैश्च कुसुमै. कुसुमेषुरेनं सीता-
वियोगविधुर् द्दुढमाजघान ॥.२६ ॥ दृष्ट॒िस्तृणीकृतजगूत्रय-
सत्त्बसारा धीरोद्धता नमयतीव गतिधैरित्रीम् l कॉम-
रकेञ्ऽपि गिरिवद्रुरुता दधानो वीरो रसः किमयमे॒त्युत दुर्प
एषः ॥ २७ ॥' अप्राकृतस्य चरितातिशयैश्च दृटैरत्यद्भुतै-
रपहृतस्य तथापि नास्था । कोऽप्येष वीरशिशुकाकृति-
रप्रमेयमाहात्म्यसारसमुदायमयः पदार्थः ॥ २८ ॥ समर-
विहरदस्मद्भल्लनिःपातमिन्नप्रतिनरपतिभिन्नाद्भाखता बिम्ब-
मध्यात् | वयमहह धराया पातयामः पताकiवसनपवन-
लोलं वारि दिव्यापगायाः ॥ २९ ॥ वयस्या, क्रोष्टारः
प्रतिश्शृणुत बद्धोऽञ्जलिरयं किमप्याकाङ्काम. क्षरति न तथा
वीरचरितम् । मृतानामख्माक भवति परवश्यं वपुरिदं
भवद्भिः कर्तव्य नहि नहि पराचीनचरणम् ॥ ३ ० ॥
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्रेर गण्डो-
डुमरपुलकं वक्रकमलम् । मुहु. पश्यञ्शृणवन्रजनिचरसेना*
कलकलं जटाजूट्रग्रन्थि द्रढयति रघूणा परिवृढः ॥ ३१'॥
मयासेनो यस्य प्रमदयमदश्ट्रासहचरैः शरौर्मुक्तो जीवन्द्विरिव
शरजन्मा स्रमभवत् । इमा च क्षत्राणा भुजवनमहादुर्गवि-
षहामर्ये वीरो धीमानजयदधिविशान्वसुमतीम् ॥ ३२ ॥
पुरोजन्मा नाद्य प्रभृति मम राम. स्वयमहं न पुत्र. पौत्रो
वा रघुकुलभुवा च क्षितिभुजाम् । अधीर धीर वा कलयतु
जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः
॥ ३३ ॥ चापाचार्यैस्त्रिपुरविजयी कार्तवी र्यो विजेय. शस्त्र-
व्यस्त, सदनमुदधिर्भूरिय र्हन्तकार. । अस्त्वेर्वेतत्किमु कृत-
१ ‘ग्रासप्रमाणा भिक्षा स्यादग्र प्रासच्चतुष्टयम् l अश्ग्र चतुर्गुण
प्राहुर्हन्तकार द्विजोत्तमा * ॥
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३७५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति