३४ ६
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
र्कन्याप्रसुतस्य धैनु प्रसङ्गादङ्गाधिकासादितविक्रमस्य । धैर्न-
जयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः |॥ ११ ॥
अलं हिमानीपरिदीर्णगात्र समापित. फाल्गुनसगमेन |
अत्यन्तमाकाङ्घ्रितकृष्णवत्र्मा भीष्मो महात्माजनि माघतुल्यः
॥ १२॥ अविरलफलिनीवनप्रसुनः कुसुमितकुन्दसुगन्धिगन्ध-
वाह. । गुणमसमयज चिराय लेभे विरलतुषारकणस्तुषार-
काल. |॥ १३ i1 निन्चयिनि लवलीलताविकासे जनयति लोश्रत्र-
समीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसुनुश्चलति
नयान्न जिगीषता हि चेतः ॥ १४ ॥ कतिपयसहकारपु'प-
रम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्त-
शसीं समुपययौ शिशिर रूमरैकबन्धुः ॥ १५ ॥ गजपति-
द्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतापति, । सलिल
सततिमध्वगयोषितामतनुतातनुतापकृर्त दृशाम् ॥ १६ ॥
इदमयुत्तमहो महदेव यद्वरतनो. स्मरयत्यनिलोऽन्यदा !
स्मृतसयैौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिन
॥ १७ ॥ प्रियतमेन यया सरुषा स्थितं न सहसा सहसा
परिरभ्य तम् । श्लथयितु क्षणमक्षमताङ्गना न सहसा सहसा
कृतवेपथु ॥ १८ ॥ भृशमदूयत याऽधरपल्लवक्षतिरनावरणा
हिममारुतै, । दशनरश्मिपटेन च सीत्कृतैर्निवसितेन सितेन
सुनिर्ववौ ॥ १९ ॥ व्रणभृता सुतनोः कलसीत्कृतस्फुरित-
दन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैर्मृदुतया
द्रुतयाधरलेखया ॥ २० ॥ धृततुषारकणस्य नभस्खतस्तरु- !
लताङ्गुलितर्जनविभ्रमा । पृथुनिरन्तरमिष्टभुजान्तर वनित-
यानितया न विषेहिरे ॥ २१ ॥ हिमऋतावपि ता. स्म
भृशस्विदो युवतय सुतरामुपकारिणि । प्रकटयत्यनुराग-
मकृत्रिम रूमरमयं रमयन्ति विलासिन ॥ २२ ॥ प्रालेयशैल-
शिखरानिलसप्रयोगः प्रोत्फुल्ळुकुन्दमकरन्दहृतालिवृन्द. ।
कालेोऽयमातपति कुङ्कुमपङ्कपिङ्गग्रोतुङ्गरम्यरमणीकुचसङ्ग-
योग्य. ॥ २३ ॥* शुकहरितयवाना सीम्नि नीहारभासः सपदि
विगतनिद्रा क्रौञ्चकान्ता क्षपान्ते । विदधति कमनीयकाणमु-
द्यत्ककार सरलितगलनाल जर्जरस्फाररेफम् ॥२४॥ लघुनि
तृणकुटीरे क्षेत्रकोणे यवाना नवकलमपलालस्रस्तरे सोपधाने ।
परिहरति सुघुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेख-
स्तुषारः ॥ २५ ॥ अपि दिर्नैमणिरेष लेशितः शीतसधैरथ
निशि निजभार्या गाढमालिङ्गय दोभ्र्याम् । स्खपिति पुनरुदेतुं
१ कन्याराशाड्वुत्पन्नस्य , पक्षे,-कुमारिकाया प्रसूतस्य २ धनू
राशिसगमेनाङ्गेषु शरीरेष्वधिकमासादित सपादितो विक्रमो रोमा-
व्चोत्पादनादिरूप पराक्रमो येन , पक्षे,-धनुर्विद्ययाङ्गदेशेषु सपादित
पराक्रमो॒ो ये॒न ३ धनजयोऽग्निस्तदधीन पराक्रमो बल यस्य, पक्षे,-
धनञ्जयोऽर्जुनस्तदधीनपराक्रम ४ सूर्य
सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा हैमनी यामिनीयम्
॥ २६ ॥ जरीजृम्भत्प्रैौढद्युमणिकरसदोहसदृशस्फुरद्दीप्तित्रात-
प्रगुणतरतारुण्यसुभगाम् '। हसन्ती हेमन्ते' परिजन-
युता वा सुवदना हसन्तीं सेवन्ते परिणतमहाभाग्यनिचयाः
॥ २७ ॥ वेपन्ते कपयो भृर्श कृतजड गोजाविकं म्लायति
श्वा चुल्लीकुहरोदर क्षणमपि प्राप्यापि नैवोज्झति । शीता-
र्तिव्यसनातुर. पुनरसौ दीनो जनः कूर्मवत्खान्यङ्गानि
शरीर एव हि निजे निह्नोतुमाकाङ्घति ॥ २८ ॥ शीताशो-
रिव नूतनस्य रुचयो विद्या इवामेधसा विप्रातिक्रमिणा
विभूतय इव क्षीबस्य बोधा इव । भावैः सवलिता इव
ीियूत॒मे दृग्भङ्गयः सुभ्रुवा प्रादुर्भूय तिरोभवन्ति सहसा
हैमन्तिका वासरा. ॥२९॥ लज्जा प्रैौढमृगीदृशामिव नवस्रीणा
रतेच्छा इव खेरिण्या नियमा इव स्मितरुचः कुल्याङ्गना-
नामिव । दंपत्योः कलहा इव प्रणयिता वाराङ्गनानामिव
प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासरा ॥ ३० ॥
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीर-
द्रवलिसचारुवपुषः खिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनी-
| जनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्या'
| सुख शेर्ते॒ | ॥ ३१ ॥ चक्रे चषूडरुचा समूं र॒णमसौ
हेमन्तपृथ्वीपतिर्ये ये तत्र जिता दिवाकरकरास्ते तेऽमुना
| तुत्क्षण॒ात् । कान्तान्न॒ा कुचभूधरे निदधिरे मन्येऽहमेव तदा
| नो चेन्म-दकर, कथं दिनकरंस्तसश्च तन्वीस्तनः ॥ ३२ ॥
प्रोद्यत्प्रैौढारविन्दद्युतिभृति विदलत्कुन्दमाद्यद्विरेफे काले
प्रालेयवातप्रबलविकसितोद्दाममन्दारदाग्नि । येषा नो कण्ठ-
लग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामियामा
यमसदनसमा यामिनी याति नूनम् ॥ ३३॥
कन्दुकक्रीडा
पयोधराकारधरो हि कन्दुकः करेण रोषादिव ताङयते
मुहु । इतीव नेत्राकृतिभीतमुत्पलं तस्या• प्रसादाय
पपात पादयोः ॥ ३४ ॥ वनिताकरतामरसाभिहत, पतितः
पतितः पुनरुत्पतसि । विदित खळु कन्दुक ते हृदयं
वनिताधरसगमलुब्धमिव ॥ ३५ ॥ सानन्दकन्दुकविहार-
विधौ वधूना दोलायमानमणिकङ्कणनिकणेन । उडुायितेषु
युबचित्तविहंगमेषु श्येना इव स्मृतिभुवो विशिखा विलद्मा.
॥ ३६ ॥ स्मरशरधिनिकाशं कर्णपाश कृताङ्गी रयविगलित-
तुालीपत्रताट्ङ्कमे॒कम् । , वहति॒ ,हृदुयचोर कुङ्कुमन्यास
गौर वलयितमिव ' नालं लेोचनेन्दीवरस्य `' ३७ |
अमन्दमणिनूपुरकणनचारुचारिक्रर्म झणज्झणितमेखला-
स्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालित
मनो हरति सुभ्रुव, किमपि कन्दुकक्रीडनम् ॥ ३८ |॥ भ्रम-
चरणपल्लवकणदमन्दमञ्जीरकं परिस्खलदुरोरुहस्तबककम्प-
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३६१
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति