३४ २
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
उइंकारिझब्झामरुद्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धा-
न्तरा. । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिद्, प्रावृष प्रारम्मे
मदयन्ति कन्दलदलोल्छासा पयोबिन्दव ॥ ६२ ll किंचिन्मु-
द्रितपासवः शिखिकुलैरुत्कण्ठमालेोक्रिता जीणीँवामरुदद्दरि-
द्रगृहिणीश्चासानिलैर्जर्जरा । एते ते निपतन्ति नूतनघना-
त्प्रावृड्मरारम्भिणो विन्छायीकृतविप्रयुक्तवनित॒ावक्त्रैन्दव्रेो
बिन्दव ॥| ६ ३ ॥| काले नीलबलाहके मतडिति प्रीतिप्रदे
ब्रूर्द्विणामाश्चय कुथयामि व. श्टणुत् भो यद्वृत्तमस्मद्वृहे !
सौभाग्यव्ययशङ्कयैकशायने कान्ताप्रियाभ्यामहो मानिभ्या
बत गत्रिमेव सकला चीर्ण प्रवासिव्रतम् ॥ ६४ ॥| उत्फुल्ला
र्जुनसर्जवासितवहत्यैौरस्त्यझञ्झानिलप्रेङ्खोलत्स्खलितेन्द्रनील-
श्राकलस्निग्धाम्बुदश्रेणय । धारासित्तवसुधरासुरभय प्रासास्त
एवाधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासरा
॥ ६५ ॥ अाच्छन्ने क्षितितेजसी मनसिजव्यापारमेय
मन, स्वात्मा च द्वयमेतदस्ति दशम द्रव्य परषा तम l
कालाकाशदिशा निरस्तमधुना नामापि वर्पागमे द्रव्य वारि
गुणश्च वारिदरव' कर्मीँपि वारिक्रिया ॥ ६६ ॥ अासारेण
न हुम्र्यत प्रियतमैर्यातुं बहि शक्यते शीतोत्कम्पनिमित्त-
म]यतदृशा गाढ सम॒ालिङ्गयते । जालै शीकग्शीतळैश्च
मरुंतो रत्यन्तखेदच्छिदो धन्याना बत दुर्दिन सुदिनता याति
प्रियासगमे |॥! ६७ |॥ उद्योग क्षयमेति हन्त सहसा जाङय
समुजृम्भते , मित्रस्यापि॒ च दर्शन भवति नो. किं वृान्यद्ाच-
क्ष्महें' यल्लोकस्पृहणीयता गतमभूत्तज्जीवनं व्यर्थता प्रास
येन दुनोति तन्मम मनो दुर्देववद्दुर्दिनम् ॥ ६८ ॥ सर्व-
त्रोद्भतकन्दला वसुमती वृद्विर्जलाना परा जात निष्कमल
जगत्सुमलिनैर्लब्धा घनैरुन्नाते । सर्पन्ति प्रतिमन्दिर द्विर-
सना. सल्यत्तमार्गो जनो वर्षीणा च कलेश्च सप्रति जय-
लेयेकैव राज्यस्थितिः ॥ ६९ ॥ नैतद्वारिदगर्जित रतिपति-
प्रस्थानढक्रारवो नैते वारिधरा. स्रवन्मदजलास्तत्सिन्धुराः
प्रोद्धुरा । नैषा विद्युदिय विभाति रुचिरा त्चन्द्रहासप्रभा
मन्यं मानिनि मानदुर्गमधुना, जेतुं किमायात्यसौ ॥ ७० ॥
दृष्टुाडम्बरमम्बरे घर्नकृत' सौदामिनीनर्तकीनृल्याग्म्भमृदङ्ग-
मङ्गलरव श्रुत्वा च तद्गर्जितम् । पुष्प्यत्पुष्पभरानताङ्गण-
तरुस्कन्धावसद्वायसक्राणाकर्णनसोत्सवप्रियतम पान्था ययु-
र्मन्दिरम् ॥ ७१ ॥ सद्मन्येव निरन्तर निवसतिर्मित्राद्यना-
लोकनं पन्था पङ्कसमाकुल. कळुषता वारा सदा दुर्दि
नम् । एवं यद्यपि दूषणानि तदपि खर्भूजनोल्लासकृत्सखो-
त्पत्तिनिमित्ततैकगुणत, प्रावृट् प्रपेदे यशः ॥ ७२ ॥
सौन्दर्यमिन्दीवरलोचनाना दोलासु लोलासु यदुल्ललयस |
यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभू
॥ ७३ ॥ प्रसार्य पादौ विहितस्थितीना दोलासु लोलाशुकं
पछवानाम् । मनोरथानामपि यन्न गम्यं तद्रष्टुमापु' सुदृशT
युवान, ॥ ७४ ॥ उन्नम्य दूरं मुहुरानमन्त्यः कान्त[ः
श्लथीभूतनितम्बबिम्बा । दोलाविलासॆन जितश्रूमत्वात्यकर्ष-
मौपु. पुंरुषायितेषु ॥ ७५ ॥ दृशा विद्धिरे दिशः कमल
राजिनीराजिता कृता हसितरोचिषा हरति चन्द्रि॒कादृष्टय्. l
औकरैि "' हरिणीदृश. ' प्रबलदण्डकप्रस्फुरद्वपुर्विपुलगेचिषा
वियति विद्युता विभ्रम. ॥ ७६ ॥ प्रत्यासन्नमुखी कगम्बुज-
युगप्रेङ्खोलिता प्रेङ्खिकामारुहेययमुदस्तहारल्लूंतिका॒ाव्यादृत-
तुङ्गस्तनी !| दृष्टादृष्टमुखी गाताप्रातवशादालोलमानाशुका
तन्वङ्गी गगने करोति पुरत शातहृदं विश्त्रमम् tl ७७ ll
यवः
एते ते दुरतिक्रमक्रममिलद्वर्मेॉर्मिमर्मच्छिद. क|दम्बेन
रजोभरेण ककुभो रुन्धन्ति झञ्झानिला । गाढारम्भनिग्गूढ-
नीग्दघटासघट्टनीलीभवड्द्येोमक्रोडकटाहपातुकपयोवेणीकण-
ग्राहिणः ॥ ७८ ॥ धागधैौतं धुनाना शशधरधवल केसर
केतकीना कैलासे किनरीणा चलदलकलतालास्यलीला
दधानाः । अामूलं मानिनीना मनसि विनिहिर्ते मानमुन्मूल
यन्तो वान्लेयते वारिवाहव्यतिकरशिशिरा ग्रादृषॆण्या.
समीगाः ॥ ७९ ॥ गोकर्ण गाहमाना' पृथुतरपृषतग्राहिणः
शंबरौघानाकर्षन्तो दिगन्तानपि च विदधत कन्दलीसुप्रचा-
गन् । एते धावन्ति वार्धश्रवसमुरुधनुर्धारयन्त' समन्तादा-
वृण्वन्तोऽभ्रवीथि वनमिव शबरभ्रान्तिभाजोऽम्बुवाहा.॥l८०ll
वष्र्षपथिकाः
उपरि पयोधग्माला दूरे दयिता किंमेतदापतितम् !
हिमवति दिव्यैौषधय कोपाविष्ट फणी शिग्सि ॥ ८१ |॥
उपरि घन घनपटल तिर्यग्गिरयोऽपि नर्तितमयूरा । क्षितिरपि
कन्दलधवला दृष्टि पथिक. क पातयतु ॥ ८२ ll कि
गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि
किम् । इत्युदीक्ष्य नवमेघमालिका न प्रयाति पथिकः
स्वमन्दिरम् ॥ ८३ ॥ शिखिनि कूजति गजैति तो॒ोयद्वे
स्फुटति जीतिलताकुसुमाकरे । अहह पान्थ न जीवति ते
प्रिया नर्भसि मासि न यासि गृहं यदि ॥ ८४ ॥ रसति
तरुणीकेशश्यामे पयोभृति निभैर स्फुटति चपले वारवार
क्षणद्युतितेजसि । उपगुरुजनं मन्ये दैन्यात्पराचुटु॑ख्-
सुप्तया निभृतनिभृत मन्दोच्छ्रुास तया बत रुद्यते
॥ ८५ ॥ निशीथे लीनाना झटिति तडिता वीक्ष्य
विषयं घनानामाभोगा रसिकपथिकेनोन्मुखदृशा | न गीर्त
सोत्कण्ठ न च रुदितमुत्कण्ठतरलं न मुक्ता निःश्धासाः
स्फुरदनुमतं कि तु हृदयम् ॥ ८६ ॥ यथा का रन्र्त्रे
व्योम्नश्चलजलदधूम, स्थगयति स्फुलिङ्गाना रूप दधति च
' १ श्रावणमासे
||
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३५७
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति