सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

ग्रीष्मवर्णनम्
३ ३९
|॥ १० ० ॥ केि तावत्सर से सरोजमेतदार दाह खिन्मुखमव- |
भासते तरुण्या. ] सशय्य क्षणमिति निश्चिकाय कश्चिद्वि- '
ब्र्बोकैर्बकसहवासि॒िना परोक्षै. ॥ १०१ ॥ योग्यस्य त्रिनयन- !
लेोचनान॒लार्चिर्निद्वैग्धस॒रपृतनाधिराज्यलक्ष्म्या. । कान्ताया ,
करकलशोद्यतै पयोभिर्वक्त्रेन्दोरकृत महाभिषेकभेकः ॥१०२॥ '
पयैच्छे सरसि हृर्तेऽशुके पयोभिलेॉलाक्षे सुरतगुरावपत्रपि-
ष्णो* । सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन दुतमकृताब्जिनी- |!
सखित्वम् ॥ १०३ ॥ नारीभिर्गुरुजधनस्थलाहतानामास्यश्री- {
विजितविकासिवारिजानाम् ! लोलत्वादपहरता तदङ्गराग |
सञ्जज्ञे सकलुष अाशयो जलानाम् ॥ १०४ ॥ सेीगन्ध्य |
दधदपि काममङ्गनाना दूरत्वाद्भतमहमाननोपमानम् । नेदीयो
जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज
॥ १०५ ॥ प्रभ्रष्टै सरभसमम्भसोऽवगाहक्रीडाभिर्विदलित-
यूथिकापिशङ्गै. । अाकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्द्युिति-
शकलैरिव व्यराजि ॥ १०६ ॥ अास्माकी युवतिदृशाभसौ
तनोति च्छायैव श्रियमनपायिनी किमेभि. । मत्वैर्वे स्वगुणपि-
धानसाभ्यसूयैः पानीयेरिति विदधाविरेऽञ्जनानि ॥ १०७ ॥
निर्घेौंते सति हरिचन्दने जलैौघैरापाण्डोर्गतपरभागयाङ्ग-
नायाः | अह्वाय स्तनकलशद्वयादुपेये विच्छेद. सहृदययेव
हारयष्ट्य. ॥ १०८ ॥ अन्यूनं गुणममृतस्य धारयन्ती सफुछ-
स्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा
रत्तत्वं व्यधित वधूदृशा सुरेव ॥ १०९ ॥ स्रान्तीना दृहदम-
लोदबिन्दुचित्रैौ रेजाते रुचिरदृशामुरोजकुम्भैौ । हाराणा
मणिभिरुपाश्रितैौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥११०॥
अारूढः पतित इति खसभवोऽपि स्वच्छाना परिहरणीयता-
मुपैति । कर्णेभ्यश्युतमसितोत्पलं वधूना वीचीभिस्तटम्नु
यन्निरासुरापः ॥ १११ |॥| दन्तानामधरमयावक पदानि प्रत्य-
ग्रास्तनुमविलेपना नखाङ्का. | अानिन्यु, श्रियमधितोयमङ्ग-
नाना शोभायै विपदि सदाश्रिता भवन्ति ॥ ११२ ॥ कस्खा-
श्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभि, ।
किञ्जल्कव्यतिकरपिञ्जरान्तराभिश्चित्रश्रीरलमलकाग्रवछरीभिः
॥ ११३ ॥ अविरलमिदमम्भः सेवेच्छयोच्छालयन्त्या विक-
चकमलशोभोत्तानहस्तद्वयेन । परिकलित इवाधैः कामबाणा
तिथिभ्यः सलिलमिव वितीर्ण बाललीलासुखेभ्य ॥ ११४ ॥
जलविलुलितवस्रव्यत्तनिग्नोन्नताभिः परिगततटभूमिस्रान-
मात्रोत्थिताभि. । कनकरुचिरकुम्भश्रीमदाभोगतुङ्गस्तनविनि-
हितहस्तखस्तिकाभिर्वधूभि, ॥ ११५ ॥ एतखा, करिकुम्भ-
संनिभकुचप्राग्भारपृष्ठे लुठद्रुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणी-
मनोहारिणि । दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथ |
को वोऽन्योऽपि विलीयते न सरसः सीमन्तिनीसगमे॥११६॥ |
प्रपापालिका
यथोर्ध्वीक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा
प्र॒पापालिकापि धारा वितनुते र्तनुम् ॥..११७ ॥ अङ्गुल्यग्र-
निरोधतस्तनुतरा धारामिय कुर्वती कर्कर्यी न पर पयो नि-
पुणिका दातुं प्रपापालिका ! विश्लिष्टाङ्गुलिना करेण दशना-
पीड शनैः पान्थ हे निष्पन्दोध्र्वविलोचनन्त्वमपि हा जानासेि
पातुं पय. ॥ ११८ ॥ दूरादेव कृतोऽञ्ञ्जलिर्न तु पुन
पानीयपानोचितो रूपालुं लितो मूर्धा न
शान्त्या तृष. । रोमाश्चोऽपि निरन्तर ग्रकटेित• प्रीत्या न
शैल्याद्पामक्षुण्णो विविरध्वगेन विहितो वीक्ष्य॒ प्रपापान्ळेिकाम्
॥| ११९ ॥ गन्तुं सत्वरमीहसे यदि पुनव्यलोलवेणीलता
द्रष्टुं वा खकुटुम्बिनीम॒नुदिनं कान्ता समुत्कण्ठसे । ततृष्य-
न्नपि मुग्धमन्थग्वलन्नेत्रान्तरुद्धाध्वगामेता दूरत एवं हे
परिहर भ्रात* प्रपापालिकाम् ॥ १२० |॥ मध्याह्नेऽ-
तिखरे निदाधसमये तापोऽध्वनो वर्तते शीते कुञ्जतटे
विचित्रविटपे भो पान्थ विश्रम्यताम् । एकाकी च
भवानहं च तरुणी शूल्य॒ा प्रपा वर्तते लजेऽहं ब्रुवती खयं
तु चतुरो जानासि कालोचितम् ॥ १२१ ॥ कस्खेयं तरुणि
प्रैपा पथिक नः केि पीयतेऽख्या पैयो वेनूनामथ माहिष
पथिक रे र्वैीरः कथ मङ्गल, । सोमो वाथ शनैश्चरोऽमृतैमिदं
तत्तेऽधरे दृश्यते भो भोः पान्थ विलाससुन्दर सखे यद्रोचते
तत्पिब ॥ १२२ ॥ ग्ध्याह्नं गमय त्यज श्रमजलं स्थित्वा
पयः पीयता मा शूत्येति विमुञ्च पान्थ विवशः शीतः प्रपा-
मण्डपः | तामेव स्मर घस्मरस्मरशरत्रस्ता निजप्रेयसीं त्वचित्त
तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ १२३ |॥
श्रीष्मवायवः
अाध्म्ग॒तोद्धतदाववह्निसुहृद. कीर्णेष्णरेणूकराः सतसा-
ध्वगमुत्तखेदविषमश्वासोष्णसवादिनः | तृष्णार्तीजगगयता-
खकुहरक्षिप्रप्रवेशोत्कटा श्रूमङ्गैरिव तर्जयन्ति पवना दग्धस्य-
लीकजलैः ॥१२४॥ कारञ्जीः कुञ्जयन्तो निजजरठरवव्यञ्जि-
तावीरकोशानुत्पाकान्कृष्णलाना पृथुसुषिरगताञ्शिम्बिकान्पाट-
यन्तः | झिल्लीकाझल्लरीणा बधिरितककुभ झेकृतं खे क्षिपन्तः
सिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः
॥ १२५ ॥ व्योमव्यालोलमुक्ताफलधवलगलद्विन्दुसदोहगर्भा-
नम्भोदान्भत्सैयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः ।
एते रक्षोमृगाक्षीगतलुलितमदक्षोभसरम्भरूक्षा वाता. पाताल-
कुक्षिस्थितमपि सलिलं तत्क्षणाद्भक्षयन्ति ॥ १२६ ॥
ग्रोष्मपथिकाः
१ सूक्ष्माम् २ पानीयशालिका " ३ जलम्, पक्षे,-क्षीरम्
४ जलानि, पक्षे,-सोमादिवासर ५ उदफम्, पक्षे,-पीयूषम्