३३ ८
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
रुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु समूच्छैति
रच्तमासा गीतानुर्ग वारिमृदङ्गवाद्यम् ॥ ६५ |॥ सदष्ट-
वस्त्रष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी
जलापूरितसुत्रमार्गा मैौनं भजन्ते रशनाकलापाः ॥ ६६ ॥
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिच्ताः ।
वक्रेतरा॒ग्रैरलकैस्तरुण्यश्रूर्णरुणान्वारिलवान्वहन्ति ॥ ६७. ॥
उद्वन्धकेशश्युतपत्रलेखो दिश्लषिमुक्ताफलपत्रवेष्टः । मनोज्ञ
एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६८ ॥
उन्मृष्टपत्राः कलितालकान्ता. कण्ठेषु लझा जघन स्पृशन्तः ।
स्तनस्थलेष्वाहतिमादधाना गता वधूना प्रियता जलैौघा.
॥ ६९ ॥ हृतोऽङ्गरागस्तिलकं विमृष्टं लब्धान्तरैरेभिरतीव
मत्वा । सुसहितेनेति तदा जलानामदायि मध्यं न कुच-
द्वयेन ॥ ७० ॥ निरीक्ष्य वेणीप्रतिबिम्बमेणीदृशो भुर्जगभ्रम-
मावहन्त्यः । पतद्दुकूलं धुतबाहुमूलं झम्पाप्रकम्याकुलिताः
प्रचेलुः ॥ ७१ ॥ `अथ स्फुरन्मीनवेिधूतपङ्कजा विपङ्कतीर-
स्खलितोर्मिसहतिः । पयोऽवगादु कलहंसनादिनी समा-
जुहावेव वधूः सुरापगा ॥ ७२ ॥ प्रशान्तघर्माभिभव. शनै- ||
र्विवान्विलासिनीभ्य. परिसृष्टपङ्कजः । ददौ भुजालम्बमिवात्त॒-
शीकरस्तरङ्गमालान्तरगोचरोऽनिल, ॥ ७३ ॥ गतैः सहावैः
कलहंसविक्रमं कलत्रभरै. पुलिनं नितम्बिभिः । मुखै.
सरोजानि च दीधैलोचनैः सुरस्त्रिय. साम्यगुणान्निरासिरे
॥ ७४ ॥ विभिन्नपर्यन्तगमीनपङ्कयः पुरो विगाढा. सखिभि-
र्मरुत्वत, । कर्थचिदापः सुरसुन्दरीजनै, सभीतिभिस्तत्प्र-
थम प्रपेदिरे ॥ ७५ |॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्त्र-
सवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसानुदस्य
तीरेषु तरङ्गसहति. ॥ ७६ ॥ शिलाघनैर्नाकसदामुर.स्थलै-
चैहन्निवेशैश्च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना
रुषेव भेजे कळुषत्वमम्भसा ॥ ७७ ॥ विधूतकेशाः परि-
लेोलितस्रजः सुराङ्गनाना प्रविलुप्तचन्दना, । अतिप्रसङ्गाद्विहि-
तागसो मुहुः प्रकम्पमीयु' सभया इवोर्मयः ॥ ७८ ॥
विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्ख शेषानिव कुङ्कुमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः
॥ ७९ ॥ प्रियेण सग्रथ्य विपक्षसनिधावुपाहिता वक्षसि
पीवरस्तने । स्रर्ज न काचिद्विजहौ जैलाविला वसन्ति हि
प्रेम्णि गुणा न वस्तुनि ॥ ८० ॥ असशर्यं न्यस्तमुपान्त-
रत्तता यदेव रोद्धुं रमणीभिरञ्जनम् । हृतेऽपि तस्मिन्सलि-
लेन शुक्क्रुता निरास रागो नयनेषु न श्रियम् ॥ ८१ |
द्युति वहन्तो वनितावतसका हृता. प्रलोभादिव वेगिभि-
र्जलैः । उपष्टुतास्तत्क्षणशोचनीयता च्युताधिकारा सचिवा
इवाययु. ॥ ८२ ॥ विपन्नलेखा निरलत्तकाधरा निरञ्जनाक्षी-
१ जलद्द्ञ्ङिन्नाम्
रपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरै-
| रलंकृत तद्वपुषैव मण्डनम् ॥ ८३ ॥ तथा न पूर्व कृतभूष-
|| णादरः प्रियानुरागेण विलासिनीजनः । यथ्ग जलाद्रेाँ नख-
| मण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८४ ॥
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्किषु ।
| नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु
॥ ८५ ॥ हृदाम्भसि व्यस्तवधूकराहते रव मृदङ्गध्वनिघीर-
| मुज्झति । मुहु. स्तनैस्तालसमं समाददे मनोरम नृलुय॒मिव
प्रवेपितम् ॥ ८६ ॥ श्रिया हसद्भि, कमलानि सस्मितैरलं-
| कृताम्बुः प्रतिमागतैर्मुखै. । कृतानुकूल्या सुरराजयोषिता
प्रसादसाफल्यमवाप जाह्नवी ॥ ८७ ॥ परिस्फुरन्मीनविघ-
ट्टितोरवः सुराङ्गनास्रासविलोलदृष्टय. t उपाययु, कम्पित-
पाणिपल्लवा. सखोजनस्यापि विलोकनीयताम् ॥ ८८ ॥
भयादिवाश्लिष्य झषाहतेऽम्भसि प्रिर्य मुदानन्दयति स्म
मानिनी । अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतके-
रपीहितै. ॥ ८९ ॥ तिरोहितान्तानि नितान्तमाकुलैरपा
| विगाहादलकै प्रसारिभि. । ययुर्वधूना वदुनानि तुल्यता
द्वेिरेफवृन्दान्तरितैः सरोरुहै. ॥ ९० ॥ करौ धुनाना नव-
पल्छुवाकृती पयस्यगाधे किल जातसभ्रमा । सखीषु निर्वीच्य-
मघाष्ट्चैदूषित प्रियाङ्गसश्लेषमवाप मानिनी ॥ ९१ ॥ प्रियै'
सलीलं करवारिवारित प्रवृद्धनिःश्चासविकम्पितस्तन. |
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः
॥ ९२ ॥ उदस्य धैर्य दयितेन सादर प्रसादेितायाः करवारि-
वारितम् । मुखं निमीलन्नयनं नतश्रुवः श्रियं सपत्त्रीव्द-
नादिवाददे ॥| ९३ ॥ विहस्य पाणौ विधृते धृताम्भसि
प्रियेण वध्वा मदनार्द्रचेतसः | सखीव काश्ची पयसा घनी-
कृता बभार वीतोच्चयबन्धर्मेशुकम् ॥| ९४ ॥ निरञ्जने
साचिविलोकित दृशावयावक वेपथुरोष्ठपल्ळुवम् । नतश्रुवो
मण्डयति स्म विग्रहे बलिक्रिया चातिलक तदास्पदम् ॥९५॥
निमीलदाकेकरलोलचक्षुषा प्रियोपकण्ठ कृतगात्रवेपथुः '।
निमज्जतीना श्वसितोद्धतस्तन, श्रमो नु तासा मदनो नु
पप्रथे ॥ ९६ ॥ प्रियेण सित्ता चरमं विपक्षतश्रुकोप
काचिन्न तुतोष सान्त्वनै. । जनख रूढप्रणयख चेतसः
किमप्यमर्षोऽनुनये भृशायते ॥ ९७ ॥ अञ्जलैौ जलमधीर-
लोचना लोचनप्रतिशरीरलाञ्छितम् | अात्तमात्तमपि कान्त-
मुक्षितु कातरा शफरशङ्किनी जहौ ॥ ९८ ॥ निम्ननाभि-
कुहरेषु यदम्भ. प्लावितं चलदृशा लहरीभिः । तद्भवै. कुहुरुतैः
सुरनायैः स्मारिता सुरतकण्ठरुतानाम् ॥| ९९ ॥ सक्षोर्भे
पयसि पुनर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने |
विश्लेषं युगमगमद्रथाङ्गनाग्नोरुद्वृत्त. क इव सुखावद. परेषाम्
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३५३
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति