बाह्यरतक्रीडावर्णनम् , सुरतप्रशंसा, नववधूसगमे सखीवाक्यम्, नववधूसगमः
३ १७
ष्वपि काम ॥ १३ ॥ ह्रीभरादवनत परिरम्भे रागवानव-
टुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्म योषितो मुकुलिताक्ष-
मधासीत् ॥ १४ ॥ पल्लवोपमिति साम्यसपक्ष दष्टवल्यधरबि-
म्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण
॥| १५ ॥ केनचिन्मधुग्मुल्बणरागं बाष्पतममधिक विरहेषु ।
ओोष्ठपल्लवमपास्य मुहूर्त सुभ्रुव सरसमक्षि चुचुम्बे ॥ १६ ॥
विहार
अावृतान्यपि निरन्तरमुचैर्योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भि पाणिभिर्जगृहिरे हृदयानि
॥ १७ ॥ कामिनामसकलानि विमुग्रै. खेदवारिमृदुभि
करजाग्रै' । अक्रियन्त कठिनेषु कथचित्कामिनीकुच-
तटेषु पदानि ॥ १८ ॥ सोष्मणस्तनशिलाशिखुराग्रादात्तघर्म-
सलिलैस्तरुणानाम् । उच्छ्रुसत्कमलचारुषु हलैर्निन्ननाभिसर-
सीषु निपेते |॥| १९ ॥ अामृशद्भिरभितो वलिवीचीलेॉल-
मानवितताङ्गुलिहस्तै. । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति
मध्यमभीटै ॥ २० ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं
निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य
करमात्मकरा+याम् |॥| २१ ॥ कामिन. कृतरतोत्सवकाल-
क्षेपमाकुलवधूकरसङ्गि । मेखलागुणविलझमसूया दीर्घसूत्र-
मकरोत्परिधानम् ॥| २२ ॥ अम्बर विनयत, प्रियपाणेयो-
षितश्च करयो कलहस्य । वारणामिव विधातुमभीक्ष्ण
कक्ष्यया च वलयैश्च शिशिञ्जे ॥ २३ ॥ ग्रन्थिमुद्द्रथयितुं हृद-
येशे वासस, स्पृशति मानधनाया, । श्रूयुगेण सपदि प्रति-
पेदे रोममिश्च सममेव विभेद. ॥ २४ ॥ आशु लङ्घित-
तन्त्रीमण्डलकणितचारु चुकूजे ॥ २५ ॥ अायताङ्गुलिरभूद-
तिरित्तः सुभ्रुवा क्रशिमशालिनि मध्ये । श्रेोणिषु प्रियकरः
पृथुलासु स्पर्शमाप सकलेन तलेन ॥ २६ ॥ चक्रुरेव लल-
नोरुषु राजी. स्पर्शलोभवशलेोलकराणाम् । कामिनामनिभृ-
तान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥ २७ ॥ ऊरुमूल-
चपलेक्षणमघ्नन्यैर्वतसकुसुमै, प्रियमेताः । चक्रिरे सपदि
तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ २८ ॥
||
|!
|!
सुरतप्रशंसा
सुरते च समाधौ च मनो यत्र न लीयते । ध्यानेनापि
हि कि तेन केि तेन सुरतेन वा ॥ १ ॥ यत्र न मदन-
विकार, सद्भावसमर्पण च गात्राणाम् । तस्मित्रुद्धतभावे पशु- !
कर्मणि पशव एव रज्यन्ते ॥ २ ॥ प्रतिक्षणसमुल्लसन्नव '
कलाकलापान्वितक्षपाकरविलोकने यदि तवास्ति कैोतूहलम् । !
विलोकय तदा सखे सुरतसगरालोकनप्रहृष्टदयितामुखं !
निबिडकचुकोत्तारणे ॥ ३॥ नरैर्विफलजन्मभिर्गिरिदरी न कि
सेव्यते न चेच्छूवणगोचरीभवति जातुचिज्जन्मनि । कपोत-
रवमाधुरीविरचनानुकारादरीरतासहकृशोदरीवचनकाकुरीति-
ध्वनि ॥ ४ ॥ सदष्टेऽधरपल्लवे सचकेितं हस्ताग्रमा-
धुन्वती मा मा मुञ्च शठेति कोपवचनगानर्तितभ्रलता ।
सीत्कागञ्चितलोचना सग्भस यैश्रुम्विता मानिनी प्राप्त तै-
रमृत श्रमाय मथितो मूढै सुरैः सागर ॥ ५ ॥ कि चेतर्गुरु-
सेवनै. किमपरव्योमाचैनै कि फल कि स्यादध्ययनेन मे
सुरपदप्रास्याथ किं वा फलम् । एतस्या कुचकुम्भसश्रत्रम-
परीरम्भप्रवाहोद्भमखेदाम्मोभिरनङ्गवह्निरधुना निर्वीपितो नो
यदि ॥ ६ ॥ प्राड् मा मेति मनागनागतगुणं जाताभि-
लाषं तत सव्रीडं तदनु श्लयोद्यममनु प्रभ्रष्टवेय पुन ।
प्रेमार्द्र निभैररह क्रीडाप्रगल्भ ततो नि.सङ्गाङ्गविघर्ष-
णाधिकसुखं रम्य कुलस्रीरतम् ॥ ७ ॥ शङ्काश्टङ्खलितेन
यत्र नयनप्रान्तेन न प्रेक्ष्यते केयूरध्वनिभूरिभीतिचक्रित नो
यत्र वान्छिष्यते । नो वा यत्र शनैरलग्नदशन विम्बाधर.
पीयते नो वा यत्र विवीयते च मणित तत्कि ग्त कामिनो
॥ ८ ॥ अाकाशे नटन सरोरुहयुगे मञ्जीरमञ्जुध्वनि,
शीताशैौ कलकूजितं किसलये पीयूषपानोत्सव । खर्गक्षोणि-
धरे नखात्परिभवो ध्वान्ते कराकर्षण रम्भाया रसनारव-
स्तरुणयो. पुण्यानि मन्यामहे ॥ ९ ॥
नववधूसंगमे सखीवाक्यम्
रक्षामालिकया बाले बद्धया किं प्रयोजनम् । अवश्यं-
! भाविनावेतैौ कुचग्रहकचग्रहो ॥ १ ॥ बाला तन्वी मृदुतनु-
रिय त्यज्यतामत्र शङ्का दृष्टा काचिश्द्रमरभरतो मञ्जरी भज्य-
माना । तस्मादेषा रहसि भवराा निर्दय पीडनीया मन्दा-
क्रान्ता विसृजति रस नेक्षुयष्टि समग्रम् ॥ २ ॥ नीरन्भ्रं
परिरभ्यते प्रियतमो भूयस्तरा चुम्ब्यते तद्वाढं क्रियते यदस्य
रुचिर चाट्टत्करै स्तूयते । सख्या मुग्धवधूरसौ रतविधैौ
यलेन सा शिक्षिता निर्भ्रान्त गुरुणा पुन. शतगुण पञ्चेषुणा
कारिता ॥ ३ ॥ नार्यस्तन्वि हठाद्धरन्ति रमण तिष्ठन्ति नो
|! वारितास्तत्कि ताम्यसि कि च रोदिषि मुधा तासा प्रिर्ये मा
कृथा । कान्त केलिरुचिर्युवा सहृदयस्ताद्वक्पति, कातरे
कि नो बर्बरकर्कशै, प्रियशतैराक्रम्य विक्रीयते ॥ ४ ॥
नववधूसंगमः
यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा
साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १ ॥
अाभाति बालिकेय पाणिस्पर्शेन पुलकितावयवा । अभिनव-
वसन्तसङ्गादाविर्मुकुलेव बालचूतलता ॥ २ ॥ खिद्यति
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३३२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति