वियोगिनोऽवस्थावर्णनम्, वियोगिन्या अवस्थावर्णनम्
२७५
यते माल्यं सूचिकुलायते मैलयजालेपः स्कुंलिङ्गायते । |तनूतरीयैग करोद्धृतेन निवारयन्तीं शशिनो मयूखान् ॥१६॥
रात्रिः कैल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त
प्रमदावियोगसमयः सहारकालायते ॥ ८ ॥ माकन्दाक्षिप
मा मरन्दनिकरं मूको भव त्वं शुक स्फार कोकिल कोमलं
कलरवं..भ्रातः .क्षणं सहर । सौगन्ध्यं वह गन्धवाह न
मनाक्सर्वेः क्षणं क्षम्यता जानीध्व तरुणस्य तस्य यदयं
कालः करालो महान् ॥ ९ ॥
वियोगिन्या अवस्थावर्णनम्
दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना ॥ स्रेहस्तथैव
यत्तस्थैौ तदाश्चर्यमिवाभवत् ॥ १ ॥ जीवेन तुलितं प्रेम
सखि मूढेन वेधसा । लघुजॉवो ययौ कण्ठे गुरुप्रेम हृदि
स्थितम् ॥ २ ॥ कपोलफलकावस्याः कष्ट भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षा क्षामता गतौ ॥ ३ ॥ वल्लभो-
त्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विष-
ज्वालाकुलोऽभवत् ॥ ४॥ अस्तमितविषयसङ्गा मुकुलितनय-
नोत्पला मुहुः श्वसिता । ध्यायति किमप्यलक्ष्य बाला योगा-
भियुत्तव ॥५ ॥ लिखति न गणयति रेखा निर्झरबाष्पाम्बु-
धौतगण्डतला । अवधिदिवसावसार्न मा भूदिति शङ्किता
बाला ॥ ६ ॥ अपसारय घनसारं कुरु हार दूर एव केि
कमलै, । अलमलमालि मृणालैरिति वदति दिवानिशं बाला
॥ ७ ॥ पातयति हृदयदेशे प्रियजनगर्भे पुनः पुनर्मुग्धा ।
वर्णितमदनातङ्का बाष्पवतीं भावमन्थरा दृष्टिम् ॥ ८ ॥
श्लिष्यति पश्यति चुम्बति पुनः पुनः पुलकमुकुलितैरङ्गैः ।
प्रियसङ्गाय स्फुरिता वियोगिनी वामबाहुलताम् ॥ ९ ॥
कमले निधाय कमल कलयन्ती कमलवासिनं कमले |
कमलयुगादुद्भूतं कमलं कमलेन वारयति ॥ १० ॥ नय-
नोत्पलचलधारा दृष्टुा वारानिधिभ्रान्त्या । वडवानल
- इव भगवान्वसति तनौ कृशतनोस्ताप* ॥ ११ ॥ लीना-
नसुत्सरोरुहदृष्टेरन्वेष्टुमेष कुसुमेषुः । भ्रमति द्राग्वपुरन्तः
सतापं दीपमादाय ॥ १२ ॥ कुसुमितलताभिरहताप्यघत्त
रुजमलिकुलैरदष्टापि । परिवर्तते स्म नलिनी लहरीभिर्लोलि-
ताप्यघूर्णत सा ॥ १३ ॥ शशभृन्नवपल्लवे शशाङ्के मकरन्द-
स्रुतिवारिणी सरो॒जे । अपि चास्य म॒रु॒द्भणठा॒न्प्रसूते ति॒ल-
कुसुर्मे स्फुटचम्पकैघदाग्नि ॥ १४ ॥ अधिदेहलि हन्त् हूंम-
वल्ली शरदिन्दुः सरसीरुहे शयानः । उपखञ्जनचञ्जु मोंक्ति-
काली फलितं कस्य सुजन्मनस्तपोभिः ॥ १५ ॥ विश्रम्य
विश्रम्य वनद्रुमाणा छायासु तन्वी विचचार काचित् l
-- " " " " "" ""
१ चन्दनलेप २ अग्निकण इवाचरति ३ सद्दस्रकल्पमितेवाचरति
||
||
!
अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्त-
रस्य । अपि कथमधुना दधातु शान्ति विषमशरज्वरतीव्र-
देहदाहः ॥ १७ ॥ निवेशिते यदि शूकशिखा पदे सृजति
सा कियतीमिव न व्यथाम् । मृदुतनोर्वितनोतु कथं न
तामवनिभृत्तु निविश्य हृदि स्थित ॥ १८ ॥ सा तोरणा-
न्तिकमुपेत्य दिशोऽवलोक्य नि श्वस्य दीघैमुपधाय कर
कपोले । मत्वा च तं पुरत एव ससभ्रमत्वाज्ज्ञात्वाऽऽर्मै मेोह-
लिखितेव न कि किमासीत् ॥ १९ ॥ अस्यास्तनैौ विरहता-
ण्डवरङ्गभूमौ खेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य । नान्दीं
पपाठ पृथुवेपथुवेपमानकाश्चीलताकलरवैः स्मरसूत्रधारः
॥ २० ॥ मदनदहनशुष्यत्ऋान्तकान्ताकुचान्तधैनमलयजपङ्के
गाढबद्धाखिलाङ्घ्रि. । उपरि विततपक्षो लक्ष्यतेऽलिर्निमद्म.
शर इव कुसुमेषोरेष पुङ्खावशेषः ॥ २१ ॥ नवकिसलयतल्प
कल्पितं तापशान्त्ये करसरसिजसङ्गात्केवलं म्लापयन्त्याः ।
कुसुमशरकृशानुप्रापिताङ्गारताया. शिव शिव परिताप को
वदेत्कोमलाङ्गया. ॥ २२ ॥ दरललितहरिद्राग्रन्थिगौरे शरीरे
स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । वलति सति
हि यस्मिन्साधैमावत्र्य हेम्ना रजतमिव मृगाक्ष्याः कल्पिता-
न्यङ्गकानि ॥ २३ ॥ किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृद्यकुसुमशोषी दारुणो दीधैशोक, । ग्लपयति परिपाण्डुक्षाम-
मस्याः शरीर शरदिज इव घर्म* केतकीगभैपत्रम् ॥ २४ ॥
पैरिमृदितमृणालीम्लानमङ्गं प्रवृत्ति. कथमपि पैरिवारप्रार्थ-
नाभिः क्रियासु । कलयति च हिमाशोर्निष्कलङ्कस्य लक्ष्मी-
मभिनवकरिदन्तच्छेदकान्त कपोल. |॥ २५ ॥ स्थगयति
नयनास्र छद्मना धूमधूम्र प्रथयति च नितान्तं काश्र्यमङ्ग-
प्रकृत्या । अहह विरहबाधा छादयत्यम्बुजाक्षी तदपि वदति
साक्षी पाण्डुरो गण्डदेश. ॥ २६ |॥ परिम्लानं पीनस्तनज-
घनसङ्गार्दुभयतसैतनोर्मध्यस्यान्तः पैरिमिलनमप्राप्य हैंरितम् ।
इदं व्यस्तन्यास श्लथभुजलताक्षेपवलनै, कृशाङ्गयाः सतापं
वैदति बिसिनीपत्रशैयनम् ॥ २७ ॥ प्रयातेऽस्तं भानौ श्रित-
शकुनिनीडेषु तरुषु स्फुरत्सध्यारागे शशिनि शनकैरुल्लमति
च | प्रियप्रल्याख्यानद्विगुणविरहोत्कण्ठितदृशा तदारब्ध
तन्व्या मरणमपि यत्रोत्सवपदम् ॥ २८ ॥ लतामूले लीनो
हरिणपरिहीनो हिमकर स्खलन्मुक्ताकारा गलति जलधारा
कुवलयात् । धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनो
गृहद्वारे पुण्यं परिणमति कस्यापि कृतिन, ॥ २९ ॥ मराल-
१ अासेति क्रियापदम् २ प्राप्तमदाँ ३ सस्वीत Î ४ ऊ८र्वाधोभा
गयो ५ कृशस्य ६ सघर्षम् ७ हरिद्वर्णम् ८ अनुमापयति ° शय्. 1,