सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२६२
सुभाषितरत्नभाण्डागारम्
[ ६ प्रकरणम्
मुखम्
जितेन्दुपद्मलावण्यं क कान्तावदनं जयेत् । मुक्त्वा
तदे॒व सुरतश्रम्जिञ्जितलेोचनम् ॥ १६०.॥ चळुद्भृङ्गमिवा-
म्भोजमधीग्नयनं मुखम् । तदीयं यदि दृश्येर्ते काम,
क्रुद्धोऽस्तु कि तत' ॥ १६१ ॥ विलसत्याननं तस्या
नासाग्रस्थितमौक्तिकम् । अालक्षितबुधाश्लेष राकेन्दोरिव
मण्डलम् ॥ १६२ ॥ मुखं वहति बन्धूकबन्धुरेणाधरेण सा ।
पूर्णेन्दुमिव सौन्दर्यादङ्कलालितकौस्तुभम् ॥ १६३ ॥ विधा-
यापूर्वपूर्णेन्दुमस्या मुखमभूडुवम् । धाता निजासनाम्भोज-
विनिमीलनदुःस्थित ॥ १६४ ॥ शरत्कालसमुल्लासिपूर्णिमा-
शर्वरीप्रियम् । करोति ते मुखं तन्वि चपेटापातनाति-
थिम् ॥ १६५ ॥ राकायामकलङ्कं चेदमृताशोर्भवेद्वपु ।
तखा मुख तदा साम्यपराभवमवामुयात् ॥ १६६ ॥
अानन मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् | भ्रमद्धमर-
सक्रीर्ण स्मरामि सरसीरुहम् ॥१६७॥ इय सुनयना दासी-
कृतनामरसश्रिया । अाननेनाकलङ्कन जयतीन्दु कलङ्कि-
नम् ॥ १६८ ॥ लावण्यमधुभि पूर्णमास्यमस्या विक-
खरम् । लोकलोचनरोलम्बकदम्वैः कैर्न पीयते ॥ १६९ ॥
ननु नीलान्ञ्वलसछृतमाननमाभाति हरिणनयनाया. | प्रति-
बिम्बित इव यमुनागभीग्नीरान्तरेणाङ्क ॥ १७० ॥ अम्बुज-
मम्बुनि मर्मे त्रासादाकाशमाश्रितश्चन्द्र | सप्रति क
परिपन्थी यं प्रति कोपारुणं वदनम् ॥| १७१ |॥| ऊँासायं
सलिलभरे सविताग्मुपास्य सादर तपसा । अधुनाब्जेन
मनाक्तव मानिनि तुलना मुखस्याप्सा ॥ १७२ ॥ सुवि-
रलमैौत्तिकतारे धवलाशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्ण-
चन्द्रे सुन्दरि राकास्ति नात्र सदेह ॥ १७३ ॥ पुसा
दशैय सुन्दरि मुखेन्दुमीषत्रपामपाकृत्य । जायाजित इति
रूढा जनश्रुतिर्मे यशो भवतु ॥ १७४ ॥ अबले सलिले
व्यवस्यता ते र्मुखभावो गमितो न पङ्कजेन । कथमै॑ादिमवर्ण-
र्तेीान्त्यजस्य द्विर्जगजेन कॄतोरुनिग्रहस्य ॥ १७५ |॥
सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुग्वात् ।
अधुनापि न भङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम्
॥ १७६ ॥ य ससर्ज कमल रमागृहं विश्वलोचनमहो-
त्सर्व विधि. l एष तादृगसृजन्मृगीदृशो मीनकेतननिकेतन
मुग्वम् ॥ १७७,॥ माधु चन्द्रममि पुष्करै कृतं मीलित
यदभिरामताधिके । उद्यता जयिनि कामेिनीमुखे तेन साहस-

  • सायक्राल्'पर्यन्तम् २ मुग्पत्वम् मुरसमाम्यमित्य ३ अाद्रीं

मवणाँ यस्य तस्य भावस्तत्तr पकारादे पङ्कजस्य मकार[ाट'त्व कथमि
ल्यर्थं , पक्षे,'-ंत्र,ह्मणत्वम् ४ अन्ते जःकारो यस्यैतादृठाम्य पङ्क न्स्य,
पक्षे,-अतिशूट्रस्य ५ चन्द्रेण, पक्षे,-ऋ|ाह्मणश्रेष्टेन ६ कृत उम्र्महान्नि
|ग्रहो दण्टो यस्य
!
मनुष्ठितं पुनः ॥ १७८ ॥ तस्या मुखस्यातिमनोहरस्य
कर्तुं न शत्तः सैदृशं प्रियायाः । अद्यापि शीतद्युतिरात्म-
बिम्बं निर्माय निर्मीय पुनर्भिनत्ति ॥ १७९ |॥ अनेन रम्भोरु
तवाननेन पीयूषभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूर-
एणाय तारा स्फुरन्ति प्रतिमानखण्डा' |॥ १८० |॥ अस्या
मुखस्यास्तु न पूर्णिमास्य पूर्णस्य जित्वा महिमा हिमाशुम् ।
भ्रूलक्ष्मखण्ड दधदर्धमिन्दुर्भालस्तृतीय खलु यस्य भाग
॥ १८१ ॥ व्यधत्त धाता मुखपद्ममस्या• सम्राजमम्भोज-
कुलेऽखिलेऽपि । सरोजराजौ सृजतोऽदसीया नेत्राभिवेयावत
एव सेवाम् ॥ ?८२ ॥ दिवारजन्यो रविसोमभीते चन्द्रा-
म्बुजे निक्षिपत स्वलक्ष्मीम् । अस्या यदान्ये न तदा
तयो श्रीरेकश्रियेद तु कदा न कान्तम् ॥ १८३ ॥ अस्या
मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् ।
अभ्यथ्यै धत्त खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित्
॥ १८४ ॥ अस्या मुखेनैव विजित्य नित्यस्पर्धीं मिलत्कुङ्कुम-
रोषभासा | प्रसह्य चन्द्र खलु नह्यमान स्यादेव तिष्ठ-
न्परिवेषपाश्ठा | ?८५ |॥ विधोर्विधिर्बिम्बशतानि लोप लोप
कुहूरात्रिषु मासि मासि । अभङ्गुरश्रीकममु किमस्या मुखे-
न्दुमस्थाययदेकशेपम् ॥ १८६ ॥ कपोलपत्रान्मकरात्सकेतु-
श्रूभ्या जिगीषुधैनुषा जगन्ति । इहावलम्व्यास्ति रति
मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ १८७ |॥ धिक्तस्य
मन्दमनस कुकवेः कविन्व यः स्त्रीमुख च शशिनं च सम
करोति । भ्रभङ्गविभ्रमकटाक्षनिरीक्षितानि कोपप्रसादहसि-
तानि कुत शशाङ्के ॥ १८८ |॥ चन्द्रं कलङ्करहित शफर-
द्वय च निस्तोयमन्धतमस च सुगन्धि तन्व्या. । वक्र-
च्छलेन भुवि सृष्टवतो विधातुर्वण्र्येत केन करकौशलमद्भुतं तत्
॥ १८९ ॥ अम्यामपूर्प इव कोऽपि कलङ्करित्तश्चन्द्रोऽपर
किमुत तन्मकरध्वजेन । रोमावलीगुणमिलत्फुचमन्दरेण
निर्मथ्य नाभिजलवि श्रुवमुद्धृत स्यात् ॥ १९० ॥ लोके
कलङ्कमपहातुमयं शशाङ्को जातो यतस्तव मुख तरलाय-
ताक्षि । तत्रापि कल्पयसि तन्वि कलङ्कलेखा नायै समा-
श्रितजन हि कलङ्कयन्ति ॥ १९१ ॥ यन्मञ्जुसिञ्जित-
मितो रसनामणीना यन्छृाससौरभवलादलयो वदन्ति ।
यद्भीतय स्खलदलंकृतयश्च लीला दोलाविलासतरलस्तदयं
मुखेन्दु ॥ ? ९२ ॥ प्रविश झटिति गेहं मा बहिस्तिष्ठ
क्रान्ते ग्रहणममयवेला वर्तते शीतण्श्मे । तव मुग्वमकलङ्कः
वीक्ष्य नून म राहुर्ग्रमति तव मुखेन्दु पूर्णचन्द्र विहाय
॥ ?९३ ॥ यदमग्श्ठातै सिन्धोरन्त कथञ्चिदुपार्जित सकल-
१ तुरयम्