२६ ०
सुभाषितरत्नभाण्डामारम्
[ ६ प्रकरणम्
चकैितचकेरीकन्तिचैौर तदक्षि । त्रिभुवनयुवचेतोवन्ध-|
सकेतहेतोः सहचरमिव कर्तुं पाशमाशङ्कय याति ॥ ९६ ॥
कटाक्षः
यान्ती गुरुजनै साधै स्मयमानमुखाम्बुजा । तिर्यग्ग्रीवं
यदद्राक्षीत्तन्निष्पत्राकगेज्जगत् ॥ ९७॥ कचित्कृष्णार्जुनगुणा
कचित्कर्णीन्तगामिनी । अपाङ्गश्रीस्तवाभाति सुश्रूर्भीरत-
गीरिव ॥ ९८ ॥ विशालाक्षीकटाक्षस्य साक्षी त्र्यक्षो
महेश्वर | नाद्यापि प्रकृति याति येन विद्धो दिगम्बरः
॥ ९९ ॥ यासा कटाक्षविशिखै. स्मरचौरेण ताडिता. ।
हृतचैतन्यसर्वम्वा मोह्यन्ते मुग्धकामुका ॥ १०० ॥ रे रे
घरट्ट मा रोदी कं कं न भ्रामयन्त्यमू । कटाक्षवीक्षणादेव
कगकृष्टख का कथा ॥ १०१ ॥ हत्वा लोचनविशिखै-
र्गत्व॒ा कतिचित्पदानि पद्माक्षी । जीवति युवा न वा कि भूयो
भूयो विलेोकयति ॥ १०२ ॥ अखा. कररुहखण्डित-
काण्डपटप्रकटनिर्गता दृष्टि. । पटविगलितनि,कलुषा स्वदते
पीयूषधारेव ॥ १०३ ॥ वसन्तनीलोत्पलषट्पदाना गीता-
मृतं श्रोतुमिवोत्तरङ्गैौ । नतश्रुवो लोचनकृष्णसारौ कर्णा-
न्तिकं सततमाश्रयेते ॥ १०४ ॥ नयनाश्चलचञ्चरीकपूरो
वलतेऽयं यत एव पक्ष्मलाक्ष्या. । तत एव भवन्ति नील-
पक्षप्रकराणा ननु वृष्टयो नवीना ॥ १०५ ॥ यत्र यत्र वलते
शनै. शनै. सुभ्रुवो नयनकोणविभ्रम. । तत्र तत्र शतपत्र-
धोरणी तोरणीभवती पुष्पधन्वनः ॥ १०६ ॥ भवनभुवि
सृजन्तस्तारहारावतारान्दिशि दिशि विकिरन्तः केतकाना
कुटुम्बम् l वियति च रचयन्तश्चन्द्रिका दुग्धमुग्धा प्रति-
नयननिपाताः सुश्रुवो विभ्रमन्ति॥ १०७ ॥ प्रणालीदीर्घस्य
मुवः l सुवाना. सर्वस्वं कुसुमधनुषोऽस्मान्प्रति सखे नवं
नेत्राद्वैतं कुवलयदृश. सनिदधति ॥ १०८ ॥ दिनान्ते
कलिकाकोमलकरौ '। समुद्यत्कालिन्दीतरलतरकल्लोलकुटिलः
कटाक्षः कान्ताना कमिह कमितार न कुरुते ॥ १०९ ॥
शिलासम्यग्धौतोज्वलधवलधारापरिसरानिमानन्त.श्यामानिव
विषमबाणस्य विशिखान् । दृढप्रज्ञावर्माण्यपि हृदयमर्माणि
रुजतः कटाक्षानेतस्या मुनिरपि न सोढुं प्रभवति ॥ ११० ॥
पिपासुरिव चश्चलं विकटकर्णकूपाज्जलं ,त्तत. प्रतिचलन्मुहुः
श्रवणुपाशभीतोऽभित. । तनोति ,तरलाकृतिस्तरललोचने
सतत, गतागतकुतूहल मुहुरपाङ्गरङ्कुस्तव ॥ १११ ॥
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियांणा लज्जा
तावद्विधते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्ट-
१ व्यथयामास सपत्रनिष्पत्रादतिन्यथने २ बाणै ३ मृगविशेष
3>~~~~~~~~~~~^~~«~~/5~~~~~~~~~~~~、^
मुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीना
हृदि न र्धृतिमुषो दृष्टिबाणा. पतन्ति ॥ ११२ ॥
अश्श्रूणि
अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य
मानभङ्गे विगलति लावण्यवारिपूर इव ॥ ११३ ॥
नास्स
पुराणबाणल्यागाय नूतनास्रकुतूहलात् । तन्नासा भाति
कामेन तूणीवाधोमुखीकृता ॥ ११४ ॥ दन्तालिदाडिमी-
बीजभक्षणोत्कण्ठचेतस । मन्ये मारशुकस्येयं नासा
चचूर्विराजते ॥ ११५ ॥ नासादसीया तिलपुष्पतूर्णे
जगत्रयन्यस्तशरत्रयस्य । श्वासानिलामोदभरानुमेया दधद्वि-
बाणी कुसुमायुधस्य |॥ १ १६ |॥ केचित्तिलस्य कुसुर्मे शुक-
चबुमन्ये नासा वदन्ति कथयाम्य्हूमन्यदेव । सरक्षितो निज-
शरोसनसनिधाने कामेन केतकदलैकमयो निषङ्ग. ॥ ११७॥
नासाभूषणम्
नासामौक्तिकमबले किमधरबिम्बेन विद्रुमं कुरुष ।
दृष्ट्या गुञ्जाबीर्ज शिव शिव भूयस्तदेव हसितेन ॥ ११८ ॥
श्लेषैमागारे वसतिजीतास्माकं तदत्र मा यात । औान्दो-
लनच्छलादिह निवारयन्तीव मैौक्तिकानि विर्टीन् ॥ ११९ ॥
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ।
अनङ्गसजीवनदृष्टशक्तिर्मुखामृत ते पिबतीव चन्द्रः
॥ १२० ॥ अाकाशात्पतितं पुनर्जलनिधौ मध्ये
चिरं सस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्चितं मौक्ति-
कम् । बाले बालकुरङ्गलोचनयुगे घोर तपः सचर:
न्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ॥ १२१ ॥
अस्याः कामनिवासरम्यभवनं वत्र्क्रं विलोक्यादरान्निश्चित्येव
सुधाकरं प्रियतमं भूमीगतं शोभनम् । नासामैौत्तिककैतवेन
रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृद्या
तत्संनिधिं सेवते |॥ १२२ "
कण
सौन्दर्यपात्रे वक्रेन्दौ कुरङ्गासङ्गभीतया । सूचितैौ.
श्रोत्रपाशाभ्या पाशाविव मृगीदृशा ॥ १२३ ॥ कमनीयता-
निवासः कर्णस्तखा विचित्रमणिभूषः । सविधप्रसुतरत्त्रं
शङ्खनिधि दृरतरमकरोत् ॥ १२४ ॥ तालीदलं काश्चन-
कृर्णपाशैौ प्रसारयन्ती सुतनु, कराभ्याम् । रराज कर्णीन्त-
निषण्णदृष्टि. शाणे दधानेव कटाक्षबाणान् |॥ १२५ ॥
वियोगबाष्पाश्चितनेत्रपद्मञ्च्छद्मान्वितोत्सर्गपय.प्रसूनौ । कर्णेाँ
किमखा रतितत्प॒तिभुया निवे॒द्यपूपैौ विधि॒िशिल्पमीदृक्
॥ १२६ ॥ इहूाविशद्येन पथातिवक्र, शस्रौघनिष्पन्दरसप्र
वाह. । सोऽस्खा. श्रव.पत्रयुगे प्रणालीरेखेव धावत्यभिकर्ण-
कूपम् ॥ १२७ ॥ अस्या यदष्टादश सविभज्य विद्यभः
१ धैयैहारिण २ घ्राणे ३ अान्दोलनमेिपात् ४ जारान् "
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२७५
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति