२५२
च ॥ ४१ |॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्य-
माहुरबला इति कामिनीस्ताः । याभिर्विलेोलतरतारकदृष्टि-
पातै. शक्रादयोऽपि विजितास्त्वबला कथं ता. ॥ ४२ ॥
नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्य-
श्रवा स्मरस्य । दष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कार-
शुष्करुदितानि जयन्ति नार्या ॥ ४३ ॥ अलमतिचपल-
त्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सगमेनाङ्गनायाः |
इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं
विख्मरत्यन्तरात्मा ॥ ४४ ॥ द्रुतं यस्यालोकाद्विरहिजन-
शोकापनयनं यदङ्के सानन्दं नयनमरविन्दं विहरति । न
यस्याँपैति श्री, कचनिचयराहोरपि पुरः समे खेदं रामा-
शमयतु ॥ ४५ ॥ श्रुतं दृष्टं स्पृष्टं स्मृत-
मपि नृणा ह्यदजनन न रत्र्ज्ञे स्त्रीभ्योऽन्यत्कचिदपि कृतं
लोकपतिना । तदर्थ धर्मर्थेाँ विभववरसौख्यानि च ततो
गृहे लक्ष्म्यो मान्या. सततमबला मानविभवैः ॥ ४६ ॥|
ललाटे कस्तूरीतिलकमबला. कज्जलरुचि दृशोः कर्णद्वन्द्वे
विमलमणिताटङ्कयुगलम् । गले मुक्तामाला शुचि वसनमङ्गे
च सततं वशीकर्तुं विश्र्श्वे दधति खलु बाह्योपकरणम्
॥ ४७ ॥ भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विद-
धालापान॒ा वयमपि कुवीनामनुचरा॒ः । तथाष्येतद्रूर्मोो न॒
हि परहितात्पुण्यमधिकं न चास्मिन्ससारे कुवलयदृशो
रम्यमपरम् ॥ ४८ ॥ विमुञ्चति बुधो जनः सुकृतचिन्तनं
दूरतो जहाति च मुनिस्तपस्त्यजति धीरता शकरः ।
विधिर्भवति चश्चलस्त्रिजगतीपतिः क्षुभ्यति क्षणं कुटिलदृष्टयो
यदि पतन्ति वामभ्रुव. ॥ ४९ ॥ अमृतमसृतं क, सदेहो
मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरस फलम् ।
सकृदपि पुनर्मध्यस्थ. सन्रसान्तरविज्जनो वदतु यदिहान्य-
त्स्वादु स्यात्प्रियारदनच्छदात् ॥ ५० ॥ वचसि भवति
सङ्गत्यागमुद्दिश्य वार्त श्रुतिमुखरमुखाना केवल पण्डि-
तानाम् । जघनमरुणरत्लग्रन्थिकाञ्चीकलापं कुवलयनयनाना
को , विहातुं, समर्थ. ॥ ५१ ॥ किमिह बहुभिरुक्तैर्युक्ति-
शून्र्यै. प्रलापैर्द्वयमिह पुरुषाणा सर्वदा सेवनीयम् । अभि-
नवमदलीलालालस सुन्दरीणा स्तनभरपरिखिन्न यैौवनं वा
वनं वा ॥ ५२ ॥ यासा सल्यपि सद्रुणानुसरणे दोषानुरागो
भृशं याः प्राणान्परमर्पयन्ति न पुनः सपूर्णदृष्टि प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यीसा निषेधात्मकस्तत्त-
त्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ता, ॥ ५३ ॥|
स्रीमुद्रा कुसुमायुधस्य परमा सर्वार्थसंपत्करीं ये मूढाः प्रवि-
हाय यान्ति कुधियो मेिथ्याफलान्वेषिण. । ते तेनैव
१ मुखचन्द्र →~ ~→~ →~_~_→ →→~- →→→→_→
सुभाषितरन्नभाण्डागारम्
[ ६ प्रकरेणम्
निहत्य निर्दयतर नग्नीकृता मुण्डिताः केचिद्रुत्तपट्टकृताश्च
जटिलाः कापालिकाश्चापरे ॥ ५४ ॥ द्रष्टव्येषु क्रिमुतर्म
मृगदृशः प्रेमप्रसन्नं मुखं घ्रातव्येष्वपि किं तदास्यपवनः
श्राव्येषु कि तद्वचः । कि स्वाद्येषु तदोष्ठपल्लवरस. स्पृश्येषु
कि तद्वपुध्र्येय कि नवयौवने सहृदयैः सर्वत्र तद्विभ्रमः
॥ ५५ ॥ यत्रैता लहरीचलाचलदृशो व्यापारयन्ति श्रुव यत्त-
त्रैव पतन्ति सततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृत-
चापमञ्चितशरप्रेङ्कत्कर, क्रोधनो धावत्यग्रत एव शासनधर'
सत्यं सदासा स्मर ॥ ५६ ॥ विश्वामित्रपराशरप्रभृतयो
वाताम्बुपर्णाशनास्तेऽपि स्रीमुखपङ्कजं सुललितं दृद्वैव मोहं
गता । शाल्यन्न सघृतं पयोदधियुत ये भुञ्जते मानवास्ते-
षामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरे ॥ ५७ ॥
अालेोलैरुपगम्यते मधुकरै. केशेषु माल्यग्रहः कान्ति, कापि
कपोलयो प्रथयते ताम्बूलमन्तर्गतम् । अङ्गानामनुलेपनं परि-
मलैरालेपनप्रक्रिया वेष केोऽपि सरोजसुन्दरदृशः सुते सुख
चक्षुषो ॥ ५८ ॥ सद्रत्त्रस्फारहारा भयवरदकरा स्रस्तध-
म्मिल्लभारा मूलाधाराधिकारा निगमनिधिधरा काव्यकोटि-
प्रचारा । ससारानल्पकारा सदनमयहरा चिद्धनैकावतारा
तारा शूटङ्गारधारा मनसि वसतु ते सर्वदा सर्वसारा
॥| ५९ ॥ ससारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डिताना
तत्त्वज्ञानामृताम्भःपुलकितमनसा यातु कालः कदाचित् | नो
चेन्मुग्धाङ्गनाना स्तनजघनभराभोगसभोगिनीना स्थूलो-
पस्थस्थलीषु स्थगितकरतलस्पर्शलोभोद्यतानाम् ॥ ६० ॥
ससारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्त-
वैर्य कथममलधियो मानस सविदध्यु. । यद्येता, प्रोद्यदि-
न्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापा.
स्तनभरविनमन्मध्यभागास्तरुण्यः ॥ ६१ |॥
युववर्णनम् →
अधारि पद्मेषु तदङ्घ्रिणा घृणा क तच्छयच्छायलवोऽपि
पल्लवे ! तदास्यदास्येऽपि गतोऽधिकारिता न शारद
पार्विकशर्वरीश्वर. ॥ १ ॥ किमस्य रोम्णा कपटेन कोटिभि-
र्विधिर्न लेखाभिग्जीगणद्रुणान् । न रोमकूपैौघमिषाजग-
त्कृता कृताश्च केि दृषणशून्यबिन्दव, ॥ २ ॥ अमुष्य
दोभ्र्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उर:श्रिया
तत्र च गोपुरस्फुरत्कपाटदुधैर्षतिर प्रसारिता ॥ ३ ॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो निजाशदृत्तर्जितपद्मसपदः |
अतहृयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे
॥ ४ ॥ सरोरुहं तस्य दृशैव तर्जितं जिताः स्मितेनैव
विधोरपि श्रिय. । कुत. पर भव्यमहो महीयसी तदाननस्खो-
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२६७
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति