स्त्रीप्रशंसा
२५१
अग्निः सर्वीङ्गकान्तित्वं तस्मान्निषैकसमाः स्त्रियः ॥ ३ ॥ स्त्रियः
पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो
यासा दुष्कृतान्यपकर्षति ॥ ४ ॥ अमृतखेव कुण्डानि
रत्ज्ञानामिव राशयः | रतेरिव निधानानि निर्मिताः केन
येोषित• ॥ ५ ॥ प्राणाना च प्रियायाश्च मूढा' सादृश्य-
कारिण• । प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ ६ ॥
अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धससारे
सार सारङ्गलोचना ॥| ७ ॥ हरिणप्रेक्षणा यत्र गृहिणी न
विलोक्यते । सेवितं सर्वसपद्भिरपि तद्भवन वनम् ॥ ८ ॥
यासामश्चलवातेन दीपो निर्वाणता गतः । तासामालिङ्गने
पुसा नरके पतनं कुत ॥ ९ ॥ नामृत न विर्ष किचि-
देका मुक्त्वा नितम्बिनीम् । यस्या सङ्गेन जीव्येत म्रियेत
च वियोगत. |॥ १० |॥ यासा नाग्नापि कामः स्यात्सगम
दशैनं विना । तासा दृक्सगमं प्राप्य यन्न द्रवति कौतुकम्
॥ ११ ॥ याव॒द्दृष्टिर्मृगाक्षीणा नो नरीनर्ति भङ्गुरा ।
तावज्ज्ञानवता चित्ते विवेक, कुरुते पदम् ॥ १२ ॥ समा-
श्लिष्टाः समाश्लेषैश्रुम्बिताश्रुम्बनैरपि । दष्टाश्च दशनैः कान्तं
दासीकुर्वन्ति योषित. ॥ १३ ॥ ज्योत्स्रेनव नयनानन्द.
सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी
॥ १४ ॥ कार्पासकृतकूर्पासशतैरपि न शाम्यति । शीर्ते
शातोदरीपीनवक्षोजालिङ्गनं विना ॥ १५ |॥ सपन्न रमणी
शीलसपन्नरमर्णीं विना । इत्यूढवान्नरमणी रमणीं रुक्मिणी
हृरि॒ः ॥ १६ ॥, पादसवा॒हने र्वैज्री,केशसमार्जने फैणी ।
अहो भाग्यं पुरश्रीणा दधिसमन्थने रंवि ॥ १७ ॥ प्रभ-
वति मनसि विवेको विदुषामपि शास्रसभवस्तावत् ।
निपतन्ति दृष्टिविशिखा यावन्नन्दीवराक्षीणाम् ॥ १८ ॥ सन्तु
विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः | स्मरणमपि
कामिनीनामलमिह मनसो विकाराय ॥ १९ ॥ ह्लादनता-
पनशत्ती सहजे स्तः सुभ्रुवा कटाक्षेषु । तत्राद्या प्रबला
स्यान्नेदीयस्त्वे परा दवीयस्त्वे ॥ २० ॥ अवलोकनमपि
सुखयति कुवलयदलचारुचपलनयनायाः । केि पुनरमृत-
समान सरभसमालिङ्गन तस्याः ॥ २१ ॥ व्रीडावेलारुद्ध
सागरसलिलमिव योषिता हृदयम् । रागेन्दुरुदयमानो भूयो
भूयस्तरङ्गयति ॥ २२ ॥ अादानपानलेपैः काश्चिद्भरलोप-
तापहारिण्य. । पुरत, स्थितैव सिद्धौषधिवल्ली कापि
जीवयति ॥ २३ ॥ जैठैपनिषद. पैरिपीता गीतापि च हन्त
१ सुवर्णमदृश्ाा २ मद्यमिव ३ पादस्थमलनिर्हरणार्थ कृतो
भर्जितेष्टकाखण्डो वज्रीति लोके कथ्यते, पक्षे,-इन्द्र ४ दन्त
पत्रिका, पक्षे,-शेष ५ मन्था, पक्षे,-सूर्य ६ ब्रदमप्रतिपादका
श्रुतिशिरोभागा ७ अभ्यस्ता
| मति॒िपथ नीता । तदपि न हा विधुवदना मानससद्न॒द्व-
|| हिर्यीति ॥ २४ ॥ यस्य न सविधे दयिता दवदहनस्तुहिन-
दीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधि-
तिस्तस्य ॥ २५ |॥ यत्र पतत्यबलाना दृष्टिर्निशिता* पतन्ति
तत्र शराः । तच्चापगेपितशरो धावल्यासा पुर. स्मरो मन्ये
॥ २६ ॥| स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो
युवतीः । यस्मात्तपसोऽपि फलं स्वर्ग स्वर्गेऽपि योषितोऽप्स-
रस ॥ २७ ॥ अंकृश कुचयो कृश वर्लग्ने वितत
| चक्षुषि॒ि विस्तृत नितम्बे । अरुणाधरमाविरस्तु चित्त करुणा-
! शालिर्कैपालिभागवेयम् ॥ २८ ॥ अधरे नववीटिका-
नुगगो नयने कज्जलर्मुज्ज्वलं दुकूलम् । इदमाभरण नित-
म्बिनीनामितरद्भूषणमङ्गदृषणाय ॥ २९ ॥ रत्नानि विभूष-
यन्ति योषा भूष्यन्ते वनिता न रत्त्रकान्त्या । चेतो वनिता
हरन्त्यरत्ज्ञा नो रत्ज्ञानि विनाङ्गनाङ्गसङ्गात् |॥ ३ ० |॥ ताव-
देव विदुषा विवेकिनी बुद्धिरस्ति भवबन्धभेदिनी । यावदि-
न्दुवदना न कामिनी वीक्षिता रहसि हसगामिनी ॥ ३१ ॥
तरुणिमनि कृतावलोकना ललितविलासविलब्धविग्रहा |
स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मन. ॥ ३२ ॥
तावदेव कृतिना हृदि स्फुरत्येष निर्मलविवेकदीपक, ।
यावदेव न कुरङ्गचक्षुषा ताङयते चपललोचनाश्चलै. ॥३३॥
मेये धरित्र्या पुरजव सार पुरे गृहं सद्मनि चैकदेश. ।
तत्रापि शय्या ,शयने .. वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य
सार.॥ ३४ ॥ अास्यं सैहास्य नयनं सलास्यं सिन्दूरबिन्दूदय-
शोभि भालम् । नवा च वेणी हरिणीदृशश्चेदन्यैरगण्यैरपि
भूषणैः किम् ॥ ३५ ॥ मात्सर्यमुत्सायै विचायै कायैमार्या.
समर्यादमिदं वदन्तु । सेव्या नितम्बा. किमु भूधराणामुत
स्मरस्मरविलासिनीनाम् ॥ ३६ ॥ स्मितेन भावेन च लज्जया
| भिर्यैा पराच्मुखै ^ 、 || ोभि रीश्6र्य द्दे
| लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ३७ ॥ अवि-
| श्चसन्धूर्तधुरंघरोऽपि नरः पुरध्रीपुरतोऽन्ध एव .। अशेष-
| शिक्षाकुशलोऽपि काकः प्रतैार्यते कि न पिर्कीँङ्गनाभिः
|॥ ३८ ॥ उडुराजमुखी मृगराजकटिगैजराजविराजितमन्द-
गतिः | यदि सा वनिता हृदये निहिता क जप. क तप..
क समाधिरतिः |॥ ३९ |॥ तदाखण्डलाशा महीमण्डलाशा
तथा भोगिभोगानुरागं त्यजामः । मन.क्षोभदक्षान्कृपातः
कटाक्षान्कुरगेक्षणाश्चेत्क्षणं पातयन्त॒ि ॥ ४० ॥ श्रूचातुर्या-
कुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जिताश्चैव हासा. ।
लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भषणं चायुधं
| १ स्थूलम् २ मध्ये ३ हृरस्य ४ स्वच्छम् ५ मुखम् ६ हाम-
! युक्तम् ७ भयेन ८ प्रणयकोपेन * वच्चयते १० कोकिलाभि
पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२६६
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति