सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

[ ५ प्रकरणम्
सरस्यकालजलदेनागत्य तचेष्टितं येनाकुम्भनिमग्नवन्यकरिणा
यूथै. पय पीयते ॥ १८ ॥ हंसैर्लव्धप्रशंमैस्तरलितकमलस्र-
स्तरङ्गैस्तरगैर्नरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्च मीनै !
पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैभीति प्रक्रीड-
दातिस्तवसलिलचलच्चक्रवाकस्तडाग, ll १९ |॥
मानसम्
नो वा कियन्त. परित स्फुरन्ति जलाशया निर्मल-
भूरितोया । सदावदात परमेकमेव हंसस्य विश्रामपदं
वदन्ति ॥ २० |॥l
कूपान्योत्तयः
हे कूप त्यं चिर जीव खल्पतोये बहुव्यय । गुणवद्रित्त-
पात्राणि प्राप्रुवन्ति हि पूर्णताम् ॥ १ ॥ रे कूप जीवना-
गार यदि दातृत्वनिच्छसि । तदा त्व गुणवत्पात्रमेक वा
सनिधौ कुरु ॥ २ ॥ अमुना मरुकूपेन के के नाम न
वञ्चिता । रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥ ३ ॥
सैगुणै॒ सेवितो॒ोपान्तो विनतै प्राप्तदर्शन । नीचोऽपि कूप,
सत्पात्रैर्जॉर्वनार्थ समाश्रित ॥ ४ ॥ यद्यपि बहुगुणगम्य
जीवनमेतस्य कूपमुख्यस्य । जयति॒, तथापि विवेको दान
पात्रानुमानेन ॥ ५ ॥ नितैरा नीचोऽरूमीति त्व खेदं कूप
मा कदापि कृथा. । अत्यन्तसैरसहृद्यो यत. परेषा गुण-
ग्रहीतासि ॥ ६ ॥ चित्र न तद्यदयमम्बुधिरम्बुदौघसिन्धुप्र-
ब्र॒ाहप॒रिपूरणया॒ महीयान् । त्व त्वर्थिनामुपकरोषि यदल्पकूप
निष्पीडय कुक्षिकुहर हि महत्त्वमेतत् ॥ ७ |l। दिनमवसित
वेिश्रान्ता. स्म त्वया मरुकूप हे परमुपकृतं शेष वक्तुं वयं
न पुनः क्षमा. । भवति सुकृतैरध्वन्यानामशेषजलो भवानि-
यमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ८ ॥ भीमैश्याम-
प्रतनुवदन क्रूरपातालकुक्षिक्रोडप्रान्तोपहितविभवस्याथ कि
ते ब्रवीमे॒ि । येन् एवत्त समभि॒िलषितं वाञ्छतः क्षुद्र कूप
ह्राम्यन्मूर्तेभैवति सहसा कस्य नाधोमुखत्वम् ॥ ९ ो
、 मरुस्थलान्योक्तयः
मरौ नास्त्येव सलिलं कृच्छूाद्यद्यपि लभ्यते । तत्कटु
स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १ ॥ सत्पादपान्वि-
पुलपल्लवपुष्पमारसपत्परीतवपुष, फूलभारनम्रान् । यो मञ्जु-
सिञ्जितशकुन्तशताश्रितोरुशाखान्मरौ मृगयते न ततोऽस्ति
मुग्घः ॥ २ ॥ पायं पाय पिब पिब पय. सिञ्च सिञ्चाङ्गमङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि । एषोऽशेष-

  • रज्जुसहितै , पक्षे,-युणयुतै २ उदकार्थम् ३ अल्यन्नम् ४ निन्न
  • रसयुत्त_हृदयं यस्य ६ भीम भयकर श्यामं अन्धकारंयुक्तन्वात्

प्रतनु सकुचित मुख यस्य
श्रमशमपटुर्दु खिताध्वन्यबन्धु. सिन्धुर्दृरीभवतुं भवतो मारवः
पान्थ पन्था. ॥ ३ ॥ कल्याण नः केिमधिकमितो
जीवनार्थ यतस्त्वं छित्वा वृक्षानहह दहसि भ्रातर-
ङ्गारकार । नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलानामध्वन्याना-
मशरण मरुप्रान्त रे कोऽप्युपायः ॥ ४ ॥ किमसि विमतिः
किं चेोन्मादी क्षणादभिलक्ष्यसे पुनरपि सखे प्रेक्षापूर्वी न
काचन ते क्रिया । स्खयमजलदा जानानोऽपि प्रविश्य मरु-
स्थली शिशिरमधुर वारि प्रासुं यद्ध्वग वाञ्छसि ॥ ५ ॥
भो भोः किं क्रिमर्काण्ड एव पतितस्त्वं पान्थ कान्या गति-
स्तत्तादृक्तृषितस्य मे खलमतिः सोऽयं जल गृहते t
अस्थानोपगतामकालसुलभा तृष्णा प्रति क्रुध्य हे त्रैलोक्य-
प्रथितप्रभावमहिमा मार्गोऽस्त्यसौ मारव, ॥ ६ ॥
दावानलान्योक्तयः
हे दावानल शैलाग्रवासिन साधुशाखिन. । मुग्ध व्यर्थे
त्वया दग्धा प्रेरितेन प्रैभञ्जनैः ॥ १ ॥ यस्या महत्वभाजो
भवन्ति गुणिनोऽमितैीं धनुर्दण्डा । दहतस्ता पंर्शेीलि को वन-
वह्ने विवेकस्ते ॥ २ ॥ दवदहनादुत्पन्नो धूमो घनतामवाप्य
वर्षैस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति
|॥ ३ |॥ अभ्युन्नतेऽपि जलदे जगदेकसारसाधारणप्रणय-
हारिणि हा यदेते । उल्लासलास्यललितं तरवो न यान्ति हे
दावपावक स तावक एव दोषः ॥ ४ ॥ छाया फलानि
मुकुलानि च यस्य विश्वमाह्लादयन्ति सहकारमहीरुहस्य ।
अामृष्य तख शिखया नवपल्लवानि मश्चासि रे दवहुताश
हताश कष्टम् ॥ ९ ॥ दुर्देवप्रभवप्रभञ्जनभयादुद्भूत भूमीरु-
हृानेतान्सत्त्वगुणाश्रुयानकरुणः शुष्यन्किमुन्माद्यसि । ब्रूमस्त्वा
वैनहव्यवाह यदमी दग्धार्धदग्धा अपि द्रष्टव्यास्तव तत्क्षणा-
द्विलयिनो नामापि न ज्ञायते ॥| ६ ॥ विध्वस्ता मृगपक्षिणो
विधुरता नीता. स्थलीदेवता धूमैरन्तरिताः खभावमलिनैराशा
मही तापिता । मस्सीकृत्य सपुष्पपल्लवफलैनैम्रान्महापादपा-
नुद्वृतेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ७ ॥
ं शुमू कवलितं मूलान्यपेि क्ष्मारुहा निर्द-
ऽपि हरिणीयूथस्य शेषीकृतः । अा. कष्टं
विपिनैौकसोऽपि मुनयः पुंठुष्टाः कृतान्तकैिया कृत्र्वेत्र्थ' वन-
वह्निना किमधुना शान्तेन दीसेन वा ॥ ८ |॥
वडवानलः
तेजासि यस्य प्रथमं प्रयान्ति वारा प्रवाहेण स वह्निरन्यः |
अयं पुनर्वीडवनामधेय' समुद्रमापीय बिमर्ति तेजः ॥ ९ ॥

  • --~-~-----------

१ अन्नचितस्थाने २ वायुभि ३ असरव्या ४वेणुपङ्किम् ५वनानल